2023-10-30 06:56:28 by Bharadwajraki
This page has been fully proofread twice.
५४) कदाचिच्चन्द्रातपे उपविष्टः श्रीभोजः सन्निहिते कुलचन्द्रे पूर्णचन्द्रमण्डल [ मालोक्य पुनःपुनस्तत्सम्मुख ] मवलोकमान इदमपाठीत् --
७७. येषां वल्लभया सह क्षणमिव क्षिप्रं क्षपा क्षीयते तेषां शीतकरः शशी विरहिणामुल्केव सन्तापकृत् ।
इत्यर्द्धं कविना तेनोक्ते कुलचन्द्रः प्राह --
अस्माकं तु न वल्लभा न विरहस्तेनोभयभ्रंशिनामिन्दू राजति दर्पणाकृतिरसौ नोष्णो न वा शीतलः ॥
इति तदुक्तेरनन्तरमेवैकां वाराङ्गनां प्रसादीचकार ।
५५) अथ दामरनामा सांन्धिविग्रहिको मालवमण्डलादायातः श्रीभोजस्य सभां वर्णयन् महान्तमायल्लकं जनयति । तत्र गतश्च श्री भीमस्यामात्रां रूपपात्रतां वर्णयंस्तद्दिदृक्षातरलितः श्रीभोजः 'तमिहानय मां तत्र वा नय' इत्यभ्यर्थ्यमानः, सभादर्शनोत्कण्ठितेन श्रीभीमेन तथैव याच्यमानः कस्मिन्नपि वर्षे उपायविन्महदुपायनमादाय विप्रवेषधारिणं ताम्बूलकरण्डकवाहिनं श्रीभीमं सहंह गृहीत्वा सदसि गतः । प्रणमन् श्रीभोजेन श्री भीमानयनवृत्तान्तं व्याहृतः स विज्ञापयांचक्रे -- 'स्वतन्त्राः स्वामिनो नः । अनभिमतं कार्यं केन बलात्कार्यते इति । सर्वथेयं कदाशा देवेन नावधारणीया' -- इत्यभिधाय, श्री भीमस्य वयोवर्णाकृतीनां सादृश्यं पृच्छन्
श्रीभोजस्तान्सभासदो लोकानवलोकयन् स्थगीधरं लक्षीकृत्य दामरेणेत्यभिदधे -- 'स्वामिन् !
७८. एषाऽऽकृतिरयं वर्ण इदं रूपमिदं वयः । अन्तरं चास्य भूपस्य काचचिन्तामणेरिव ॥
इति तेन विज्ञप्ते चतुरचक्रवर्ती श्रीभोजस्तत्सामुद्रिकविलोकनान्निश्चलदृशं नृपं विमृश्योपायनवस्तून्युपनेतुं स सान्धिविग्रहस्तं प्राहिणोत् । तेषु वस्तुषूपनीयमानेषु तद्गुणवर्णनया वार्तान्तरव्याक्षेपेण च भूयसि कालविलम्बे संवृत्ते 'स्थगीवाहकोऽद्यापि कियच्चिरं विलम्बते ?' इति राज्ञा समादिष्टः स तं भीममिति विज्ञपयामास । राजा तदा तदनुपदिकानि सैन्यानि प्रगुणयन् दामरेणाभिदधे -- 'द्वादश-द्वादश योजनान्तरे प्रावहणिका हयाः, घटिकायोजनगामिन्यः करभ्यः, अनया समग्रसामग्र्या श्रीभीमः [प्रतिक्षणं बह्वीं ] भुवमाक्रमन् कथं भवता गृह्यते ?' इति विज्ञप्तस्तेन पाणी घर्षयन् चिरं तस्थौ ।
( अत्र Ph संज्ञक आदर्श निम्नलिखितानि प्रकरणान्यधिकान्युपलभ्यन्ते )
[ अथान्यस्मिन् वर्षे श्रीभीमस्तं डामरं मालवमण्डले प्रेषयितुकामो वार्तादि शिक्षयन् आस्ते । डामर उत्तिष्ठन् पटीं प्रक्षाडयामास । ततः श्रीभीमेन पृष्टः स आह -- 'भवच्छिक्षितमत्रैव मुञ्चामीत्यूचे । यतस्तत्र गतोऽहं स्वयमेवावसरोचितं ब्रुविष्ये । अन्यशिक्षितं कियत्कथयिष्यते । ततो राजा तस्यावसरोचितचातुरीविज्ञानाय प्रच्छन्नं स्वर्णमयं समुद्रकं रक्षापुञ्जेन भृत्वा, 'भोजसभाया अन्यत्र नायमुद्घाटनीयः' इति शिक्षयित्वा तद्धस्ते उपदार्थमदात् । ततः स गतो मालवे । भोजसभायां तं बहुपट्टकूलवेष्टितं आनाय्य भोजनृपाग्रे मुमोच । स उद्वेष्ट्य विलोकयति तदा मध्ये छारपुञ्जः । ततो नृपेणोक्तम् -- 'भो इदं किमुपायनम् ?' डामरस्तत्कालोत्पन्नमतिः प्राह -- 'देव ! श्रीभीमेन कोटि-
७७. येषां वल्लभया सह क्षणमिव क्षिप्रं क्षपा क्षीयते तेषां शीतकरः शशी विरहिणामुल्केव सन्तापकृत् ।
इत्यर्द्धं कविना तेनोक्ते कुलचन्द्रः प्राह --
अस्माकं तु न वल्लभा न विरहस्तेनोभयभ्रंशिनामिन्दू राजति दर्पणाकृतिरसौ नोष्णो न वा शीतलः ॥
इति तदुक्तेरनन्तरमेवैकां वाराङ्गनां प्रसादीचकार ।
५५) अथ दामरनामा सांन्धिविग्रहिको मालवमण्डलादायातः श्रीभोजस्य सभां वर्णयन् महान्तमायल्लकं जनयति । तत्र गतश्च श्री भीमस्यामात्रां रूपपात्रतां वर्णयंस्तद्दिदृक्षातरलितः श्रीभोजः 'तमिहानय मां तत्र वा नय' इत्यभ्यर्थ्यमानः, सभादर्शनोत्कण्ठितेन श्रीभीमेन तथैव याच्यमानः कस्मिन्नपि वर्षे उपायविन्महदुपायनमादाय विप्रवेषधारिणं ताम्बूलकरण्डकवाहिनं श्रीभीमं स