This page has been fully proofread twice.

विमृश्य सतताभ्यासवशाद्विश्वविदितं राधावेधं विधाय नगरे हट्टशोभां कारयंस्तैलिक-सूचिकाभ्यामवज्ञया निराकृतोत्सवाभ्यां श्रीभोजभूपो व्यज्ञप्यत । तैलिकेन चन्द्रशालास्थितेन भूमिस्थितसङ्कीर्णवदने मृन्मयपात्रे तैलधाराधिरोपणात्; सूचिकेन च भूमिस्थितेनोर्द्धीध्वीकृततन्तुमुखे
आकाशात्पतन्त्याः सूच्या विवरं नियोज्य निजाभ्यासकौशलं निवेद्य नृपं प्रति -- 'चेच्छक्तिरस्ति ततः प्रभुरप्येवं करोत्वि'त्यभिधाय राज्ञो गर्वं खर्वं चक्राते ।
 
७४. भोजराज ! मया ज्ञातं राधावेधस्य कारणम् । धाराया विपरीतं हि सहते न भवानिति ॥
 
५१) विद्वद्भिरिति श्लाघ्यमानो नवं नगरनिवेशं कर्तुकामः पटहे वाद्यमाने धाराभिधया पणस्त्रियाऽग्निवेतालनाम्ना पत्या सह लङ्कां गत्वा तं नगरनिवेशमालोक्य पुनः समागतया, मन्नाम
नगरे दातव्यमित्यभिधाय तत्प्रतिच्छन्दपटो राज्ञेऽर्पितः । ततः स नवां धारां नगरीं निवेशयामास ।
 
५२) कस्मिन्नप्यहनि स नृपः सान्ध्यसर्वावसरानन्तरं निजनगरान्तः परिभ्रमन् --
 
७५. एहु जम्मु नग्गहं गियउ भडसिरि खग्गुन भग्गु । तिक्खा तुरिय न वाहिया गोरी गलि न लग्गु ॥
 
इति केनापि दिगम्बरेण पठ्यमानमाकर्ण्य प्रातस्तमाकार्य रात्रिपठितवृत्तान्तसङ्केतवशेन शक्तिं पृष्टः सन् --
 
७६. देव दीपोत्सवे जाते प्रवृत्ते दन्तिनां मदे । एकच्छत्रं करिष्यामि सगौडं दक्षिणापथम् ॥
 
-- इति स्वपौरुषमाविःकुर्वन् सेनानीपदेऽभिषिक्तः ।
 
५३) इतश्च सिन्धुदेशविजयव्यापृते श्रीभीमे [ स दिगम्बरः ] समस्तसामन्तैः समं समेत्य श्रीमदणहिल्लपुरभङ्गं कृत्वा धवलगृहघटिकाद्वारे कपर्द्दकान् वापयित्वा जयपत्रं जग्राह । तदादि
'कुलचन्द्रेण मुषितमि'ति सर्वत्र क्षितौ ख्यातिरासीत् । स जयपत्रमादाय मालवमण्डले गतः ।
श्रीभोजाय तं वृत्तान्तं विज्ञपयत् । 'भवतेङ्गालवापः कथं न कारितः ? अत्रत्यमुद्ग्राहितं गूर्जरदेशे प्रयास्यती'ति श्रीसरस्वतीकण्ठाभरणेन श्रीभोजेनाभिदधे ।