This page has been fully proofread twice.

७१. यौष्माकाधिपसन्धिविग्रहपदे दूताः कियन्तो द्विज ! त्वादृक्षा बहवोऽपि मालवपते ते सन्ति तत्र त्रिधा ।
प्रेष्यन्तेऽधममध्यमोत्तमगुणप्रेष्यानुरूपाः क्रमात्तेनान्तःस्मितमुत्तरं विदधता धाराधिपो रञ्जितः ॥
 
इति तद्वचनचातुरीचमत्कृतो राजा गूर्जरदेशं प्रति प्रयाणपटह [ दापनं चक्रे । प्रयाणावसरे बन्दिनोक्तम् --
 
७२. चौडः क्रोडं पयोधेर्विशति निवसते रन्ध्रमन्ध्रो गिरीन्द्रे कर्णाटः पट्टबन्धं न भजति भजते गूर्जरो निर्झराणि ।
चेदिर्लेलीयतेऽस्त्रैः क्षितिपतिसुभटः कन्यकुब्जोऽत्र कुब्जो भोज ! त्वत्तन्त्रमात्रप्रसरभयभरव्याकुलो राजलोकः ॥
 
७३. कोणे कौङ्कणकः कपाटनिकटे लाटः कलिङ्गोऽङ्गणे त्वं रे कोशलनूतनो मम पिताप्यत्रोषितः स्थण्डिले ।
इत्थं यस्य विवर्द्धितो निशि मिथः प्रत्यर्थिनां संस्तरस्थानन्यासभवो विरोधकलहः कारानिकेतक्षितौ ॥
 
प्रयाणकपटह ] दापनादनु समस्तराजविडम्बननाटकेऽभिनीयमाने सकोपः कोऽपि भूपः कारागारान्तरा पुरःस्थितं सुस्थितं तैलिपं भूपमुत्थापयंस्तेनोचे -- 'अहमिहान्वयवासी कथमागन्तुकभवद्वचसा निजं पदमुज्झामीति' विहस्य नृपो दामरं प्रति नाटकरसावतारं प्रशंसंस्तेनाभिदधे -- 'देव ! अतिशायिन्यपि रसावतारे धिग् नटस्य कथानायकवृत्तान्तानभिज्ञताम् । यतः 'श्रीतैलिपदेवराजा शूलिकाप्रोतमुञ्जराजशिरसा प्रतीयत इति । तेन सभासमक्षं इति प्रोक्ते तन्निर्भर्त्सनसम्पन्नमन्युरनन्यसामान्यसामग्र्या तदैव तिलङ्गदेशं प्रति प्रयाणमकरोत् ।
 
४९) अथ तैलिपदेवस्यातिबलमायान्तमाकर्ण्य व्याकुलं श्रीभोजं स दामरः समायातकल्पितराजादेशदर्शनपूर्वं भोगपुरे श्रीभीमं समायातं विज्ञपयामास । तया तद्वार्त्तया क्षते क्षारनिक्षेप सदृक्षया विलक्षीक्रियमाणः श्रीभोजराजा दामरमभ्यधात् -- 'अस्मिन्वर्षे त्वया स्वस्वामी कथञ्चनापीहागच्छन्निवार्यः' -- इति भूयो भूयः सदैन्यं भाषमाणे नृपे प्रस्तावविन्नृपाद्धस्तिनीसहितं हस्तिनमुपायने उपादाय पत्तने श्रीभीमं परितोषयामास ।
 
५०) कस्मिंश्चिद्धर्मशास्त्राकर्णनक्षणेऽर्जुनस्य राधावेधमाकर्ण्य, किमभ्यासस्य दुष्करमिति