This page has been fully proofread twice.

तदर्थमनवबुध्यमानः, बालिका अपि यत्र एवंविधास्तत्र विद्वांसः कीदृशा भविष्यन्तीति विचार्य पश्चाद्गतः । ]
 
४७) अथान्यस्मिन्नवसरे राजा राजपाटिकायां गजाधिरूढः पुरान्तरा सञ्चरन् कमपि रोरं भूमिपतितकणांश्चिन्वन्तमवलोक्य --
 
६७. नियउयरपूरणम्मि य असमत्था किं पि तेहिं जाएहिं ।
 
-- इति तेनार्द्धकविना पूर्वार्द्धे प्रोक्ते;
 
सुसमत्था वि हु न परोवयारिणो तेहि वि न किं पि ॥
 
६८. 'ते हि वि न किंपि' भणिए भोजनरिन्देण दानसूरेण । दिन्नं मायंगसयं एगा कोडी हिरण्णस्स ॥
 
इति तद्वचनान्ते;
 
६९. परपत्थणापवन्नं मा जणणि जणेसु एरिसं पुत्तं ।
 
-- इति तद्वाक्यादनु;
 
मां उयरे वि धरिञ्जसु पत्थणभङ्गो कओ जेहिं ॥
 
स इति वदन् 'कस्त्वमि'ति राज्ञाभिहितो नगरप्रधानैः" 'भवद्विविधविद्वद्घटायामपरथा प्रवेशमलभमानोऽनेनैव प्रपञ्चेन स्वामिदर्शनचिकीरयं राजशेखरः' इति ज्ञापितः । तंदुचितमहादानैः
प्रसादीकृते;
 
[५४] उद्दामाम्बुदनादनृत्तशिखिनीकेकातिरेकाकुले सुप्रापं सलिलं स्थलेष्वपि तदा निस्तर्ष...घागमे ।
भीष्मे ग्रीष्मभरे परस्परदरादालोकमानं दिशो दीनं मीनकुलं न पालयसि रे कासार का सारता ॥
 
७०. भेकैः कोटरशायिभिर्मृतमिव क्ष्मान्तर्गतं कच्छपैः पाठीनैः पृथुपङ्कपीठलुठनाद्यस्मिन्मुहुर्मूर्च्छितम् ।
तस्मिन्नेव सरस्यकालजलदेनोन्नम्य तच्चेष्टितं येनाकुम्भनिमग्नवन्यकरिणां यूथैः पयः पीयते ॥
 
-- इत्यकालजलदराजशेखरोक्तिः ।
 
४८) अथ कस्मिन्नपि संवत्सरे अवृष्टिभावात्कणतृणानामप्राप्त्या दुःस्थे देशे स्थानपुरुषैर्भोजागमं ज्ञापितः श्रीभीमश्चिन्तां प्रपन्नो दामरनामानं सन्धिविग्रहिकमादिशत् --'यत् किमपि दण्डं दत्त्वाऽस्मिन्वर्षे श्रीभोज इहागच्छन्निवारणीयः' । स इति तदादेशात्तत्र गतः । अत्यन्तविरूपतया परिचितः । श्रीभोजेनेत्यभिदधे --