2023-10-27 10:53:17 by Bharadwajraki
This page has been fully proofread twice.
४६) अथ कस्यामपि निशि हिमसमये वीरचर्यया नृपतिः परिभ्रमन् कस्यापि देवकुलस्य पुरः कमपि पुरुषं --
६४. शान्तोऽग्निः स्फुटिताधरस्य धमतः क्षुत्क्षामकुक्षेर्मम शीतेनोद्धुषितस्य माषफलवच्चिन्तार्णवे मञ्जतः ।
निद्रा क्वाप्यवमानितेव दयिता सन्त्यज्य दूरं गता सत्पात्रप्रतिपादितेव कमला न क्षीयते शर्वरी ॥
इति पठन्तं श्रुत्वा निशान्तंतमतिवाह्य तं प्रातराहूय पप्रच्छ -- 'कथं भवता निशाशेषेऽत्यन्तशीतोपद्रवः सोढः ? । 'सत्पात्रप्रतिपादितेव कमले'ति सङ्केतपूर्वमादिष्टः -- 'स्वामिन् ! मयात्र घनत्रिचेलीबलेन शीतमतिवाह्यते' । स इति विज्ञपयन्, 'का तव त्रिचेली'ति भूयोऽभिहित इदमपाठीत् --
६५. रात्रौ जानुर्दिवा भानुः कृशानुः सन्ध्ययोर्द्वयोः । राजन् शीतं मया नीतं जानुभानुकृशानुभिः ॥
स इत्थं वदन् राज्ञा लक्षत्रयदानेन परितोषितः ।
६६. धारयित्वा त्वयात्मानमहो त्यागंगधनाऽधुना । मोचिता बलिकर्णाद्याः सच्चेतोगुप्तिवेश्मनः ॥
इति ससारसारस्वतोद्गारपरः, तत्पारितोषिकदानाक्षमेण राज्ञा सोपरोधं निवारितः ।
( अत्र Pb प्रतौ निम्नगतमधिकं वर्णनमुपलभ्यते -- )
[४९] शीतत्रा न पटी न चाग्निशकटी भूमौ च घृष्टा कटी निर्वाता न कुटी न तन्दुलपुटी तुष्टिर्न चैका घटी ।
वृत्तिर्नारभटी प्रिया न गुमटी तन्नाधमे संकटी श्रीमद्भोज तव प्रसादकरटी भक्तां ममापत्तटी ॥
अत्र काव्यकर्त्रे ११ 'टी' कारप्रमितलक्षदानं भोजस्य ज्ञेयम् ।
कदाचित्कस्यापि विद्वत्कुलस्य वासार्थं गृहाणि विलोक्यमानानि सन्ति । तेष्वसत्सु 'तन्तुवायधीवरादीन् कर्षयन्तु' -- इति राज्ञा प्रोक्ते राजपुरुषास्तान् कर्षयन्ति यावत्तावत्तन्तुवायस्तानवस्थाप्य राजपार्श्वे गतः । 'देव ! कस्मान्मां कर्षयसी'ति तेनोक्ते, राजाह -- 'त्वं काव्यं करोषि ?' ततः स --
[५०] काव्यं करोमि न च चारुतरं करोमि, यत्तत्करोमि न च सिद्ध्यति किं करोमि ।
भूपालमौलिमणिलालितपादपीठ श्रीसाहसाङ्क कवयामि वयामि यामि ॥
धीवरवधूरपि मांसं करे कृत्वा राजान्तिके गताऽऽह --
[५१] देव त्वं जय कासि लुब्धंकवचूर्हस्ते किमेतत् पलं क्षामं किं सहजं ब्रवीमि नृपते यद्यस्ति ते कौतुकम् ।
गायन्ति त्वदरिप्रियाश्रुतटिनीतीरेषु सिद्धाङ्गना गीतान्धा न चरन्ति देव हरिणास्तेनामिषं दुर्बलम् ॥
इत्युक्ति-प्रत्युक्तिमयं काव्यद्वयं श्रुत्वा तान् नगरान्तः स्थापयामास ।
[५३] अन्यदा कश्चित्कोविदो मदोद्धुरोऽवज्ञया तन्नगरजनान् गेहेनर्द्दिन इव मन्यमानो वादार्थमाजगाम । पुराभ्यर्णे कमपि वस्त्रधावनपरं पुरुषं प्रति प्राह -- रे रे शाटकमलनिर्धाटक नगरे का का वार्ता ?' स प्राह --
[५२] अश्वा वहन्ति भवनानि सतोरणानि गावश्चरन्ति कमलानि सकेसराणि ।
पीतं च यत्र दधि, नास्ति तिलेषु तैलं, प्रासादवारशिखरेषु मृगाश्चरन्ति ॥
ततः कामपि बालिकां प्रत्याह -- 'का त्वम् ?' साह --
[५३] मृतका यत्र जीवन्ति, उच्छ्वसन्ति गतायुषः । स्वगोत्रे कलहो यत्र तस्याहं कुलबालिका ॥
६४. शान्तोऽग्निः स्फुटिताधरस्य धमतः क्षुत्क्षामकुक्षेर्मम शीतेनोद्धुषितस्य माषफलवच्चिन्तार्णवे मञ्जतः ।
निद्रा क्वाप्यवमानितेव दयिता सन्त्यज्य दूरं गता सत्पात्रप्रतिपादितेव कमला न क्षीयते शर्वरी ॥
इति पठन्तं श्रुत्वा निशान्
६५. रात्रौ जानुर्दिवा भानुः कृशानुः सन्ध्ययोर्द्वयोः । राजन् शीतं मया नीतं जानुभानुकृशानुभिः ॥
स इत्थं वदन् राज्ञा लक्षत्रयदानेन परितोषितः ।
६६. धारयित्वा त्वयात्मानमहो त्या