This page has been fully proofread twice.

५९. जईयह रावणु जाईयउ दहमुहु इक्कु सरीरु । जणणि वियम्भी चिन्तवइ कवणु पियावउं खीरु ॥
 
सेत्थं पूरयामास । अथ राज्ञा दासीं प्रति -- 'कण्ठि विलुल्लइ काउ' इति समस्यापदम् ।
 
६०. कवणिहिं विरहकरालिअइं उड्डाविउ वराउ । सहि अच्चब्भुअ दिट्ठ मइं कण्ठि विलुल्लइ काउ ॥
 
सेत्थं पूरयामास । सुतां विस्मृत्य राज्ञा तानि सर्वाणि सत्कृत्य विसृष्टानि ।
 
अथ राजा विसृष्टसर्वावसरश्चन्द्रशालाभुवि विधृतातपत्रः परिभ्रमन् द्वाःस्थेन विज्ञप्तसुतावृत्तान्तो नृपः -- उच्यतामिति तां प्रति प्राह । अथ सा ऊचे --
 
६१. राजन् ! मुञ्जकुलप्रदीप निखिलक्ष्मापालचूडामणे युक्तं सञ्चरणं तवात्र भवने छत्रेण रात्रावपि ।
मा भूत्वद्वदनावलोकनवशाद् व्रीडाविलक्षः शशी मा भूच्चेयमरुन्धती भगवती दुःशीलताभाजनम् ॥
 
इति तद्वाक्यानन्तरं तत्सौन्दर्यचातुर्यापहृतचित्तस्तामुद्वाह्य भोगिनीं चकार ।
 
४५) अथान्यदा यमलपत्रेषु सत्स्वपि सन्धिदूषणोत्पत्तये श्रीभोजराजा गूर्जरदेशविज्ञतां जिज्ञासुः सान्धिविग्रहिककरे कृत्वेमां गाथां श्रीभीमं प्रति प्राहिणोत् --
 
६२. हेलानिद्दलियगइन्दकुम्भपयडियपयावपसरस्स । सीहस्स मएण समं न विग्गहो नेव सन्धाणं ॥
 
इति तदुत्तररूपां गाथां याचमानो भीमः सर्वेषामपि महाकवीनां तदुत्तरहेतून् विविधान् गाथाबन्धान् फल्गुवल्गितान् विचिन्तयन् [ आस्ते; तदा नगरान्तः श्रीजैनप्रासादे एकायां नृत्तसज्जापरायां स्तम्भमवष्टभ्य स्थितायां नर्तक्यां मंत्रिणा तत्रोपविष्टशिष्यपार्श्वात्स्तम्भे व्यावर्णयिते शिष्यः प्राह --
 
[४८] यत्कङ्कणाभरणभूषितबाहुवल्लेः सङ्गात्कुरङ्गकदृशो नवयौवनायाः ।
स्विद्यसे न वलसे न च कम्पसे त्वं तत्सत्यमेव दृषदा परिनिर्मितोऽसि ॥
 
तत्स्वरूपे मन्त्रिणा राज्ञो विज्ञप्ते, राजा आचार्यानाहूय पप्रच्छ । ]
 
६३. अन्धयसुआण कालो भीमो पुहवीइ निम्मिओ विहिणा । जेण सयं पि न गणिअं का गणणा तुज्झ इक्कस्स ॥
 
इति गोविन्दाचार्यविरचितां तां चेतश्चमत्कारकारिणीं गाथां तस्य प्रधानस्य करे प्रस्थाप्य सन्धिदूषणमपाहरत् ।