2023-10-27 09:20:09 by Bharadwajraki
This page has been fully proofread twice.
[४७] गवाक्षमार्गप्रविभक्तचन्द्रिको विराजते वक्षसि सुभ्रु ते शशी ।
तदवसरे प्रविष्टेन चौरेणोक्तम् --
प्रदत्तझम्पः स्तनसङ्गवाञ्छया विदूरपातादिव खण्डशो गतः ॥
एतस्यापि तथैव दानं धर्मवहिकायां निवेशनं च । ]
४३) अथ कदाचित्तस्यां वाच्यमानायां स्वमेव स्थूललक्षं मन्यमानो दर्पभूताभिभूत इव
५३. तत्कृतं यन्न केनापि तद्दत्तं यत्र केनचित् । तत्साधितमसाध्यं यत्तेन चेतो न दूयते ॥
इति स्वं मुहुर्मुहुः श्लाघ्यमानः, केनापि पुरातनमन्त्रिणा तद्गर्वखर्वचिकीर्षया श्रीविक्रमार्कधर्मवहिका नृपायोपनिन्ये । तस्या उपरितनविभागे प्रथमतः प्रथमं काव्यमेतत् --
५४. वक्त्राम्भोजे सरस्वत्यधिवसति सदा शोण एवाधरस्ते बाहुः काकुत्स्थवीर्यस्मृतिकरणपटुर्दक्षिणस्ते समुद्रः ।
वाहिन्यः पार्श्वमेताः क्षणमपि भवतो नैव मुञ्चन्त्यभीक्ष्णं स्वच्छेऽन्तर्मानसेऽस्मिन्कथमवनिपते तेऽम्बुपानाभिलाषः ॥
अस्य काव्यस्य पारितोषिके दानं यथा --
५५. अष्टौ हाटककोटयस्त्रिनवतिर्मुक्ताफलानां तुलाः पञ्चाशन्मदगन्धमत्तमधुपक्रोधोद्धुराः सिन्धुराः ।
अश्वानामयुतं प्रपञ्चचतुरं वाराङ्गनानां शतं दण्डे पाण्ड्यनृपेण ढौकितमिदं वैतालिकस्यार्पितम् ॥
इति तत्काव्यार्थमवगम्य तदौदार्यविनिर्जितगर्वसर्वस्वस्तां वहिकामर्चयित्वा यथास्थानं प्रस्थापयत् ।
४४) प्रतीहारेण विज्ञप्तः -- 'स्वामिन् ! देवदर्शनोत्सुकं सरस्वतीकुटुम्बं द्वारमध्यास्ते' । 'क्षिप्रं प्रवेशये'ति राजादेशादनु प्रथमप्रविष्टा तत्प्रेष्या प्राह --
५६. बापो विद्वान् बापपुत्रोऽपि विद्वान् आई विदुषी आईधुआपि विदुषी ।
काणी चेटी सापि विदुषी वराकी राजन् मन्ये विद्यपुञ्जं कुटुम्बम् ॥
इति तस्याः प्रहसनप्रायेण वचसा नृपतिरीषद्विहस्य तज्ज्येष्ठपुरुषाय समस्यापदमाह -- 'असारात्सारमुद्धरेत्' ।
५७. दानं वित्ताद् ऋतं वाचः कीर्तिधर्मौ तथायुषः । परोपकरणं कायादसारात्सारमुद्धरेत् ॥
अथ नृपतिस्तत्पुत्राय -- 'हिमालयो नाम नगाधिराजः; प्रवालशय्याशरणं शरीरं ।' इति नृपतिवाक्यानन्तरम् --
५८. तव प्रतापज्वलनाज्जगाल हिमालयो नाम नगाधिराजः ।
चकार मेना विरहातुराङ्गी प्रवालशय्याशरणं शरीरम् ॥
इति समस्यायां पूरितायां ज्येष्टस्य पत्नीं प्रति राज्ञा -- 'कवणु पियावउं खीरु' इति समस्यापदे समर्पिते --