2023-10-27 08:46:26 by Bharadwajraki
This page has been fully proofread twice.
४४. इदमन्तरमुपकृतये प्रकृतिचला यावदस्ति सम्पदियम् । विपदि नियतोदयायां पुनरुपकर्तुं कुतोऽवसरः ॥
४५. निजकरनिकरसमृद्ध्या धवलय भुवनानि पार्वणशशाङ्क । सुचिरं हन्त न सहते हतविधिरिह सुस्थितं कमपि ॥
४६. अयमवसरः सरस्ते सलिलैरुपकर्तुमर्थिनामनिशम् । इदमपि सुलभमम्भो भवति पुरा जलधराभ्युदये ॥
४७. कतिपयदिवसस्थायी पूरो दूरोन्नतश्च भविता ते । तटिनीतटद्रुपातिनि पातकमेकं चिरस्थायि ॥
४८. किं च -- यदनस्तमिते सूर्ये न दत्तं धनमर्थिनाम् । तद्धनं नैव जानामि प्रातः कस्य भविष्यति ॥
इति स्वकृतं कण्ठाभरणीभूतं श्लोकमिष्टं मन्त्रमिव जपन्, मन्त्रिन् प्रेतप्रायेण भवता कथं विप्रलभ्ये ।
४१) अथान्यस्मिन्नवसरे राजा राजपाटिकायां सञ्चरन् सरित्तीरमुपागतः । तन्नीरमुल्लङ्घ्यागच्छन्तं दारिद्र्योपद्रुतं काष्ठभारवाहकं कमपि विप्रं प्राह --
४९. 'कियन्मात्रं जलं ? विप्र !' 'जानुदघ्नं नराधिप !' । इति तेनोक्ते
'कथं सेयमवस्था ते ?' इति नृपेण पुनरुक्ते 'न सर्वत्र भवादृशाः ॥'
इति तद्वाक्यान्ते यत् पारितोषिकं नृपतिरस्मै अदापयत् तन्मन्त्री धर्मवहिकायां श्लोकबद्धं लिलेख । तद्यथा --
५०. लक्षं लक्षं पुनर्लक्षं मत्ताश्च दश दन्तिनः । दत्तं भोजेन तुष्टेन जानुदघ्नप्रभाषिणे ॥
४२) अथान्यस्यां निशि निशीथसमयेऽकस्माद्विगतनिद्रो राजा राजानं गगनमण्डले नवोदितमालोक्य स्वसारस्वताम्भोधिप्रोन्मीलद्वेलानिभमिदं काव्यार्द्धमाह --
५१. यदेतच्चन्द्रान्तर्जलदलवलीलां प्रकुरुते तदाचष्टे लोकः शशक इति नो मां प्रति तथा ।
इति राज्ञा भूयोभूयो निगद्यमाने कश्चिच्चौरो नृपसौधेखास्वात्रपातपूर्वं कोशभुवने प्रविश्य प्रतिभाभरं निषेद्धुमक्षमः --
अहं त्विन्दुं मन्ये त्वदरिविरहाक्रान्ततरुणीकटाक्षोल्कापातव्रणशतकलङ्काङ्किततनुम् ॥
इति तत्पठनानन्तरं चौरमङ्गरक्षैः कारागारे निवेशयामास । ततोऽहर्मुखे सभामुपनीताय तस्मै चौराय यत्पारितोषिकं राज्ञा प्रसादीकृतं तद्धर्मवाहिकानियुक्तो नियोग्येवं काव्यमलिखत् --
५२. अनुष्मै चौराय प्रतिनिहितमृत्युप्रतिभिये प्रभुः प्रीतः प्रादादुपरितनपादद्वयकृते ।
सुवर्णानां कोटीर्दश दशनकोटिक्षतगिरीन् करीन्द्रानप्यष्टौ मदमुदितगुञ्जन्मधुलिहः ॥
[ पुनरन्यदा गवाक्षजालिकाप्रविष्टं चन्द्रं दृष्ट्वा प्राह --

इति राज्ञा भूयोभूयो निगद्यमाने कश्चिच्चौरो नृपसौधे