This page has been fully proofread twice.

तैरिष्टं दैवतं स्मर इत्यभिहितः प्राह --
४१. लक्ष्मीर्यास्यति गोविन्दे वीरश्रीवरवेशमनि । गते मुञ्जे यशःपुञ्जे निरालम्बा सरस्वती ॥
 
इत्यादि तद्वाक्यानि बहूनि यथाश्रुतमवगन्तव्यानि । तदनु तं मुखंञ्जं निहत्य तच्छिरो राजाङ्गणे शूलिकाप्रोतं कृत्वा नित्यं दधिविलिप्तं कारयन्निजममर्षं पुपोष ।
 
४२. यशःपुञ्जो मुञ्जो गजपतिरवन्तिक्षितिपतिः सरस्वत्याः सूनुः समजनि पुरा यः कृतिरिति ।
स कर्णाटेशेन स्वसचिवकुबुद्ध्यैव विधृतः कृतः शूलीप्रोतोऽस्त्यहह विषमाः कर्मगतयः ॥
 
३८) अथ मालवमण्डले तद्वृत्तान्तवेदिभिः सचिवैस्तद्भ्रातृव्यो भोजनामा राज्येऽभ्यषिच्यत ।
 
॥ इति श्रीमेरुतुङ्गाचार्यविरचिते प्रबन्धचिन्तामणौ नृपश्रीविक्रमादित्यप्रमुखमहासात्त्विकपरोपकारादिगुणरत्नालङ्कृतनृपतिचरितवर्णनो नाम प्रथमः प्रकाशः ॥ ग्रंथाग्र ४०४ ॥
 
[७. अथ भोज-भीमप्रबन्धः ।]
 
३९) अथ [संवत् १०७८ वर्षे] यदा मालवकमण्डले श्रीभोजराजा राज्यं चकार तदाऽत्र गूर्जरधरित्र्यां चौलुक्यचक्रवर्ती श्रीभीमः पृथिवीं शशास । कस्मिन्नपि निशाशेषे स श्रीभोजः श्रियश्चञ्चलतां निजचेतसि चिन्तयन् कल्लोललोलं निजं जीवितं च विमृशन् प्रातःकृत्यानन्तरं दानमण्डपेऽनुचरैराहूतेभ्योऽर्थिभ्यो यदृच्छया सुवर्णटङ्ककान् दातुमारेभे ।
 
४०) अथ रोहकाभिधानस्तन्महामात्यः कोशविनाशात्तदौदार्यगुणं दोषं मन्यमानोऽपरथा तं दानविधिं निषेद्धुमक्षमः सर्वावसरे भन्ग्ने सभामण्डपभारपट्टे --
 
४३. 'आपदर्थे धनं रक्षेत्' इत्यक्षराणि खटिकयाऽलेखि । प्रातर्यथावसरं नृपतिस्तान्वर्णान्निर्वर्ण्य समस्तपरिजने तं व्यतिकरमपह्नुवाने भाग्यभाजः क्व चापदः' इति नृपतिना लिखिते, 'दैवं हि कुप्यते कापि' एवं मन्त्रिलिखनादनन्तरं नृपतिनां तद्विलोक्य 'संञ्चितोऽपि विनश्यति ॥' इति पुरो लिखिते स सचिवोऽभयं याचित्वा स्वलिखितं विज्ञपयामास । तदनु इयं पण्डितानां पञ्चशती मम मनोगजं ज्ञानाङ्कुशेन वशीकर्तुममात्रं महामात्रसन्निभा यथा याचितं ग्रासं लभते । तथा हि, --कङ्कणोत्कीर्णमार्याचतुष्टयमेतत् --