This page has been fully proofread twice.

४०. भोली सुन्धि म गव्वु करि पिक्खिवि पड्डरूयाइं । चउदह सइं छहुत्तरइं मुञ्जह गयह गयाइं ॥
 
सां इत्थमुत्तरं ददौ --
 
[३५] च्यारि बइल्ला धेनु दुइ मिट्ठा बुल्ली नारि । काहुं मुंज कुडंबियहिं गयवर बज्झइं बारि ॥
 
पुनर्भ्राम्यमाणेन मुंजेन वाप्यामुपविष्टेन राज्ञा वितर्कितेन सता प्रोक्तम् --
 
[३६] आपद्गतं हससि किं द्रविणान्ध मूढ लक्ष्मीः स्थिरा न भवतीति किमत्र चित्रम् ।
त्वं किं न पश्यसि घटीर्जलयत्रचक्रे रिक्ता भवन्ति भरिताः पुनरेव रिक्ताः ॥
 
तथा पृष्ठे लग्नैः पुरुषैर्विडम्ब्यमान इत्यूचे --
 
[३७] जे थक्का गोला नई हूं बलि कीजूं ताह । मुंज न दिट्ठउ विहलिउ रिद्धि न दिट्ठ खलाहं ॥
 
पुनः स्वं मन्दबुद्धित्वं स्मरन् इत्युक्तवान् --
 
[३८] दासिहिं नेह न होइ नाना निरहिं जाणीयइ । राउ मुंजेसरु जोइ घरि घरि भिक्खु भमाडीइ ॥
 
अपि च --
 
[३९] वेसा छंडि वडायती जे दासिहिं रच्चंति । ते नर मुंजनरिन्द जिम परिभव घणा सहंति ॥
 
[४०] मा मङ्कड कुरूद्वेगं यदहं खण्डितोऽनया । रामरावणमुञ्जाद्याः स्त्रीभिः के के न खण्डिताः ॥
 
[४१] रे रे यत्रक मा रोदीर्यदहं भ्रमितोऽनया । कटाक्षाक्षेपमात्रेण कराकृष्टौ च का कथा ॥
 
[४२] जा मति पच्छइ सम्पज्जइ सा मति पहिली होइ । मुञ्ज भणइ मुणालवइ विघन न वेढइ कोइ ॥
 
[४३] सुहृद्देवेन्द्रस्य क्रतुपुरुषतेजोंशजनकः प्रमीतः शय्यायां सुतविरहदुःखाद्दशरथः ।
ज्वलत्तैलद्रोण्यां निहितवपुषस्तस्य नृपतेश्चिरात्संस्कारोऽभूदहह विषमाः कर्मगतयः ॥
 
[४४] अलङ्कारः शङ्काकरनरकपालं परिजनो विशीर्णाङ्गो भृङ्गी वसु च वृष एको बहुवयाः ।
अवस्थेयं स्थाणोरपि भवति सर्वामरगुरोर्विधौ वक्रे मूर्ध्नि स्थितवति वयं के पुनरमी ॥
 
इत्थं सुचिरं भिक्षां भ्रामयित्वा वध्यभूमौ नृपादेशाद्वधविधौ नीतः [ सन् परिधानवस्त्रं गृहीतः । तदोचे --
 
[४५] इयं कटी मत्तगजेन्द्रगामिनी विचित्रसिंहासनसंस्थिता सदा ।
अनेकरामाजघनेषु लालिता विधेर्वशान्निर्वसनीकृताऽधुना ॥
 
तदनु मुञ्जेन पृष्टं कया मारणविडम्बनया मां मारयिष्यथ । वृक्षशाखावलम्बनात् । तदोवाच --
 
[४६] क्व तरुरेष महावनमध्यगः क च वयं जगतीपतिसूनवः ।
अघटमानविधानपटीयसो दुरवबोधमहो चरितं विधेः ॥ ]