This page has been fully proofread twice.

प्रविवेश । अथ तैलिपेन तत्सैन्यं छलबलाभ्यां हतविप्रहतं कृत्वा मुञ्जरज्ज्वा विबध्य श्रीमुञ्जराजो जगृहे । कारागृहे निहितः । काष्ठपञ्जरनियन्त्रितो मृणालवत्या तद्भगिन्या परिचार्यमाणस्तया सह
जातकलत्रसम्बन्धः, पाश्चात्यैर्निजप्रधानैः सुरङ्गादानपूर्वं तत्र ज्ञापितसङ्केतः, कदाचिद्दर्पणे स्वं प्रतिबिम्बं पश्यन्नज्ञातवृत्त्या पृष्ठतः समागताया मृणालवत्या वदनप्रतिबिम्बं जराजर्जरं मुकुरे निरीक्ष्य यूनः श्रीमुञ्जस्य वदनसामीप्यात्तद्विशेषविच्छायतया तां विषण्णामालोक्यैवमवादीत् --
 
३६. मुञ्जु भणइ मुणालवइ जुव्वणु गयउ न झूरि । जइ सक्कर सयखण्ड थिय तोइ स मींठी चूरि ॥
 
इति तां सम्भाष्य स्वस्थानं प्रति यियासुस्तद्विरहासहो भयात्तं वृत्तान्तं ज्ञापयितुमशक्तो भूयो भूयः प्रोच्यमानोऽपि तां चिन्तामनुच्चरन्, अलवणातिलवणरसवतीं भोजितोऽपि तदास्वादानवबोधात्तया निर्बन्धबन्धुरया गिरा सप्रणयं पृष्टः प्राह -- 'अहमनया सुरङ्गया स्वस्थाने गन्तास्मीति । चेद्भवती तत्र समुपैति तदा महादेवीपदेऽभिषिच्य प्रसादफलं दर्शयामी'त्यभिहिते, 'यावदाभरणकरण्डिकामुपानयामि तावत्क्षणं प्रतीक्षस्वे'त्यभिदधानाऽसौ कात्यायिनी 'तत्र गतो मां
परिहरिष्यती'ति विमृशन्ती स्वभ्रातुर्भूपतेस्तं वृत्तान्तं निवेद्य, विशेषतो विडम्बनाय बन्धनबद्धं कारयित्वा प्रतिदिनं भिक्षाटनं कारयामास । स प्रतिगृहं परिभ्रमन्निर्वेदमेदुरतयेमानि वाक्यानि पपाठ । तथाहि --
 
३७. सउ चित्तह सट्ठी मणह बत्तीसडा हियांह । अम्मी ते नर ढड्ढसी जे वीससइं तियांह ॥
 
अपि च--
 
३८. झोली तुट्टवि किं न मूउ किं हूउ न छारह पुञ्जु । हिण्डइ दोरी दोरियउ जिम मङ्कडु तिम मुञ्जु ॥
 
तदा प्रोक्तं सद्भिर्नरैः --
 
[३३] चित्ति विसाउ न चिंतीयइ रयणायर गुणपुञ्ज । जिम जिम वायइ विहि पडहु तिम नचिज्जइ मुञ्ज ॥
 
ततः केनापि दयार्द्रचेतसा सता कथितम् --
 
[३४] सायरु षा(खा)इ लंक गडु गढवह दस शिरु राउ । भग्ग ष्(ख)इ सो भञ्जि गउ मुंज म करसि विसाउ ॥
 
तथा च --
 
३९. गय गय रह गय तुरय गय पायक्कडानि भिच्च । सग्गट्ठिय करि मन्तणउं मुहुंता रुद्दाइच्च ॥
 
अथान्यस्मिन्वासरे कस्यापि गृहपतेर्गृहे भिक्षानिमित्तं नीतः । पड्डकरूपाणिं तत्पत्नीं तक्रं पाययित्वा गर्वोद्धुरकन्धरां भिक्षादाननिषेधं विदधतीं मुञ्जः प्राह --