This page has been fully proofread once and needs a second look.


वन्तो देशान्तरादागता राज्ञो मिलिताः । तत्पार्श्वात्स्वाङ्गे मर्दनान् दापयति । ते च स्वकलया हस्तपादाद्यङ्गा-
न्युत्तार्य पुनः सञ्ज्जीकुर्वन्ति । एवं द्विस्त्रिः कारितम् । हृष्टो राजा सीन्धलस्याप्येवं कारयति । तस्याङ्गेषूत्तारितेषु
निश्चेष्टतां गतस्य नेत्रोद्धारं चकार । सज्जस्य तस्य नेत्रहरणे कः शक्तः । अतोऽनेन प्रकारेण ] श्रीमुञ्जेन निगृहीत-
नेत्रः काष्ठपञ्जरनियन्त्रितो भोजं सुतमजीजनत् । सोऽभ्यस्तसमस्तशास्त्रः षड्त्रिंशद्दण्डायुधान्य-
धीत्य द्वासप्ततिकलाकूपारपारङ्गमः समस्तलक्षणलक्षितो ववृधे । तज्जन्मनि जातकविदा केनापि
नैमित्तिकेन जातकं समर्पितम् ।
 
३४. पञ्चाशत्पञ्च वर्षाणि मासाः सप्त दिनत्रयम् । भोक्तव्यं भोजराजेन सगौडं दक्षिणापथम् ॥

इति श्लोकार्थमवगम्यास्मिन्सति मत्सूनो राज्यं न भविष्यतीत्याशङ्क्यान्त्यजेभ्यो वधाय तं
समर्पयामास । अथ तैर्निशीथे माधुर्यधुर्यां तन्मूर्त्तिमवलोक्यं जातानुकम्पैः सकम्पैश्चेष्टदैवतं
स्मरेत्यभिहिते --
 
३५. मान्धाता स महीपतिः कृतयुगालङ्कारभूतो गतः सेतुर्येन महोदधौ विरचितः काक्वासौ दशास्यान्तकः ।
अन्ये चापि युधिष्ठिरप्रभृतयो यावद्भवान् भूपते नैकेनापि समं गता वसुमती मन्ये त्वया यास्यति ॥
 
इदं काव्यं पत्रके आलिख्य तत्करेण नृपतये समर्पयामास । नृपतिस्तद्दर्शनात्खेदमेदुरमना अश्रूणि
मुञ्चन् भ्रूणहत्याकारिणं स्वं निनिन्द ।
 
[२७] [हा हा सल्लइ हियए कव्वं तुह भोज भणिय जं मरणे । मुह पाव दुट्ठ दोहगनिठामठामस्स तउं सरणे ॥
[२८] इणि राजिइं न हु काजु भोज गुणागर तूह विणु । काठ दिवारउ आज जिम जाई भोजह मिलूं ॥
 
ततो मंत्रिप्रबोधवाक्यं राज्ञः --
 
[२९] सामिय अतिहिं अजाणु जं इण परि बोलई हिव । जाण्या एहु प्रमाणु कीधउं जं न कयत्थियइ ॥
इति राज्ञा भूयो भूयो विलप्यमानेन ]
 
३७) अथ तैस्तं सबहुमानमानीय युवराजपदवीदानपूर्वं सम्मान्य तिलङ्गदेशीयराज्ञा श्रीतैलिप-
देवनाम्ना सैन्यप्रेषणैराक्रान्तो रोगग्रस्तेन रुद्रादित्यनाम्ना महामात्येन निषिद्ध्यमानोऽपि तं प्रति-
प्रतिष्ठासुः,
 
[मंत्रिणा उक्तम् --
 
[३०] देव अम्हारी सीष कीजइ अवगणिअइ नही । तूं चालंती भीष इणि मंत्रिहिं हुस्यइ सही ॥
[३१] रुलीयउं रायह राजु तइं बइठइ मइं लंघीयइ । ए पुणि वडउं अकाजु तूं जाणे मालव धणी ॥
[३२] सामी मुहतउ वीनवइ ए छेहलउ जुहारु । अम्ह आइसु हिव सीसि तुह पडतउं देषूं छारु ॥
 
-- इति मंत्रिणा निषिद्धोऽपि ससैन्यश्चचाल । ]
 
गोदावरीं सरितमवधीकृत्य तामुल्लङ्घ्य प्रयाणकं न कार्यमिति शपथदानपूर्वं व्याषिद्धोऽपि तं
पुरा षोढा निर्जितमित्यवज्ञया पश्यन्नतिरेकवशात्तां सरितमुत्तीर्य स्कन्धावारं निवेशयामास ।
रुद्रादित्यो नृपतेस्तद्वृत्तान्तमवगम्य कामपि भाविनीमविनीततया विपदं विमृश्य स्वयं चितानले