This page has been fully proofread once and needs a second look.

[६. मुञ्जराजप्रबन्धः ।]
 
३५) अथ प्रस्तावायातं मालवकमण्डलमण्डनश्रीमुञ्जराजचरितमेवम्[^१] -- पुरा तस्मिन्मण्डले[^२]
श्रीपरमारवंश्यः श्रीसिंह[^३]भटनामा नृपती राजपाटिकायां परिभ्रमन् शरवणमध्ये जातमात्रमतिमात्ररूप[^४]पात्रं कमपि [^५]बालमालोक्य [^६]पुत्रवात्सल्यादुपादाय देव्यै समर्पयामास । तस्य [^७]सान्वयं मुञ्ज इति नाम निर्ममे । तदनु सीन्धल इति नाम्ना सुतः समजनि । निःशेषराजगुणपुञ्जमञ्जुलस्य
श्रीमुञ्जस्य राज्याभिषेकचिकीर्नृपस्तत्सौधमलङ्कुर्वन्नमन्दमन्दाक्षतया निजवधूं वेत्रासनान्तरितां
विधाय प्रणामपूर्वं भूपतिमारराध । राजा तं प्रदेशं विजनमवलोक्य तज्जन्मवृत्तान्तमादित एव
तस्मै निवेद्य 'तव भक्त्या परितोषितः सन् सुतं विहाय तुभ्यं राज्यं प्रयच्छामी'ति वदन्; 'परमनेन
सीन्धलनाम्ना बान्धवेन समं प्रीत्या वर्त्तितव्यमि'त्यनुशास्तिं दत्त्वा तस्याभिषेकं चकार । स्वजन्म-
वृत्तान्तप्रसरशङ्किना तेन स्वदयिताऽपि निजघ्ने । तदनु पराक्रमाक्रान्तभूतलः समस्तविद्वज्जनचक्र-
वर्ती रुद्रादित्यनाम्ना महामात्येन चिन्तितराज्यभारः, तं सीन्धलनामानं भ्रातरमुत्कटतयाऽऽज्ञाभ-
ङ्गकारिणं स्वदेशान्निर्वास्य सुचिरं राज्यं चकार ।
 
३६) स सीन्धलो गूर्जरदेशे समागत्य [अर्बुवुदतलहट्टिकायां] काशह्रदनगरसन्निधौ निजां पल्लीं
निवेश्य दीपोत्सवरात्रौ मृगयां कर्तुं प्रयातः । चौरवध्यभूमेः सन्निधौ शूकरं चरन्तमालोक्य, शूलि-
कायाः पतितं चौरशवमजानन्, जानुनाधो विधाय यावत्प्रतिकिरिं शरं सज्जीकुरुते तावत्तेन शवेन
सङ्केतितः । ततस्तं करस्पर्शान्निवार्य, शूकरं तं शरेण विदार्य, यावदाकर्षति तावत्स शवोऽट्टहा-
सपूर्वमुत्तिष्ठन् सीन्धलेन प्रोचे -- 'तव सङ्केतकाले शूकरे शरप्रहारः श्रेयान्, किं वाऽवबुध्य मत्प्रदत्तः
प्रहारः ?' इति तद्वाक्यान्ते से छिद्रान्वेषी प्रेतः तन्निःसीमसाहसेन परितुष्टो वरं वृणु इत्यभिहितः,
'मम बाणः क्षितौ मा पतत्वि'ति याचिते, भूयोऽपि 'वरं वृणु' इति श्रुत्वा 'मद्भुजयोः सर्वापि
लक्ष्मीः स्वाधीने'ति । तत्साहसचमत्कृतः स प्रेत इत्याह -- 'त्वया मालवमण्डले गन्तव्यमिति । 20
तत्र श्रीमुञ्जराजा सन्निहितविनाशस्तत्रं त्वया स्थातव्यम् । तत्र तवान्वये राज्यं भविष्यती'ति
तत्प्रेषितस्तत्र गत्वा श्रीमुञ्जराज्ञः सम्पदः पदं कमपि जनपदमवाप्य पुनरुत्कटतया [प्रववृते ।
अन्यदा तैलिकात् पाराचिर्याचिता । तेन नापिंर्पिता । ततः कोपादुद्दाल्य तत्कण्ठे झालयित्वा क्षिप्ता । तैलिकेन
रावा कृता । राजा पुनः सरलामकारयत् । बलोत्कटत्वेन भीतो मुञ्जनृपः । इतश्च केऽपि मर्दनकारिणो महाकाला-