2023-08-07 13:09:37 by Pratik_Rumde
This page has been fully proofread once and needs a second look.
[२१] लोकत्रयोल्लसत्कीर्तिर्महीपतिमतल्लिका । राजा वल्लभराजाख्यस्ततस्तत्तनुभूरभूत् ॥
[२२] उपरुन्धन् विरुद्धानां पुरीः पुरुषपौरुषः । जगज्झम्पन इत्येष विशेषज्ञैरुदीरितः ॥
३१) सं० १०६६ पूर्वं मास ६ श्रीवल्लभराजेन राज्यं कृतम् ।
[२३] बभूव भूपतिस्तस्यावरजो विरजस्तमाः । श्रीमान् दुर्लभराजाख्यः सुदुर्ल्लभयशाः परैः ॥
[२४] कालेन करवालेन भोगिनेवाभिरक्षितम् । निधानमिव यद्राज्यमनाहार्यं परैरभूत् ॥
[२५] सर्वथानुपभोग्येषु यस्य सौभाग्यभासिनः । न करः परदारेषु द्विजसारेषु चापतत् ॥
३२) सं० १०६६ पूर्वं व० ११ मा० ६ श्रीदुर्ल्लभराजेन राज्यं कृतम् ।
अथ तेन राज्ञा दुर्लभेन श्रीपत्तने श्रीदुर्लभसरो रचयांचक्रे ।
[२६] तस्य भ्रातृसुतः श्रीमान् भीमाख्यः पृथिवीपतिः । विष्टपत्रितयाभीष्टप्रवृत्तिप्रतिभूरभूत् ॥
(
[अथ सं० १५० (? १०५२ ) श्रावणसुदि ११ शुक्रे पुष्यनक्षत्रे वृषलग्ने श्रीचामुण्डराजो राज्ये उपाविशत् ।
अनेन श्रीपत्तने चन्दनाथदेव-चाचिणेश्वरदेवप्रासादौ कारितौ ।
सं० ५५ (? १०६५ ) अश्विनिशुदि ५ सोमे निरुद्धं वर्ष १३, मास १, दिन २४ राज्यं कृतं ।
सं० १०५५ (? १०६५ ) अश्विनशुदि ६ भौमे ज्येष्ठानक्षत्रे मिथुनलग्ने श्रीवल्लभराजदेवो राज्ये उपविष्टः ।
अस्य राज्ञो मालवकदेशे धाराप्राकारं वेष्टयित्वा शीलीरोगेण विपत्तिः सञ्जाता । अस्य 'राजमदनशंकर'
इति तथा 'जगझंपण' इति बिरुदद्वयं संजातम् । सं० १० ( ? १०६६ ) चैत्रशुदि ५ निरुद्धं मास ५, दिन
२९ अनेन राज्ञा राज्यं कृतम् ।
सं० १५५ (१०६६?) चैत्रशुदि ६ गुरौ, उत्तराषाढनक्षत्रे मकरलग्ने तद्भ्राता दुर्लभराजनामा राज्येऽभिषिक्तः ।
अनेन श्रीपत्तने सप्तभूमिधवलगृहकरणं व्ययकरणहस्तिशालाघटिकागृहसहितं कारितम् । स्वभ्रातृवल्लभराजश्रेयसे
मदनशङ्करप्रासादः कारितस्तथा दुर्लभसरः कारयांचक्रे । एवं १२ वर्षं राज्यं कृतं ।]
३३) तदनु [AD प्रतौ--सं० १०५ (१०७८) ज्येष्ठसुदि १२ भौमे अश्विनीनक्षत्रे मकरलग्ने--
एतावानधिकः पाठः] श्रीभीमाभिधानं निजमङ्गजं राज्येऽभिषिच्य स्वयं तीर्थोपासनवासनया वाणा-
रसीं प्रति प्रतिष्ठासुर्मालवकमण्डलं प्राप्यं तन्महाराजश्रीमुञ्जेन 'छत्रचामरादिराजचिह्नानि विमुच्य
कार्पटिकवेषेणैव पुरतो व्रज, यद्वा युद्धं विधेहि'--इत्यभिहितोऽन्तरा धर्मान्तरायमुदितमवगम्य तं
वृत्तान्तं नितान्तं श्रीभीमराजाय समादिश्य कार्पटिकवेषेण तीर्थे गत्वा परलोकं साधयामास ।
३४) ततः प्रभृति मालविकराजभिः सह गूर्जरनृपतीनां मूलविरोधबन्धः संवृत्तः ॥१३॥