This page has not been fully proofread.

5
 
10
 
प्रबन्धचिन्तामणिः ।
 
३०) संवत् १०५३ पूर्व वर्ष १३ श्रीचामुण्डराजेने राज्यं कृतम् ।
 
[२१] *लोकत्रयोल्लसत्कीर्तिर्महीपतिमतल्लिका । राजा वल्लभराजाख्यस्ततस्तत्तनुभूरभूत् ॥
[२२] *उपरुन्धन् विरुद्धानां पुरीः पुरुषपौरुषः । जगज्झम्पन इत्येष विशेषज्ञैरुदीरितः ॥
३१) सं० १०६६ पूर्व मास ६ श्रीवल्लभराजेन राज्यं कृतम् ।
 
[२३] *बभूव भूपतिस्तस्यावरजो विरजस्तमाः । श्रीमान् दुर्लभराजाख्यः सुदुर्लभयशाः परैः ॥
[२४] *कालेन करवालेन भोगिनेवाभिरक्षितम् । निधानमिव यदूराज्यमनाहार्य परैरभूत् ॥
[२५] *सर्वथानुपभोग्येषु यस्य सौभाग्यभासिनः । न करः परदारेषु द्विजसारेषु चापतत् ॥
३२) सं० १०६६ पूर्व व० ११ मा० ६ श्रीदुल्लभराजेन राज्यं कृतम् ।
 
अथ तेन राज्ञा दुर्लभेन श्रीपत्तने श्रीदुर्लभसरो रचयांचत्रे ।
 
[२६] *तस्य भ्रातृसुतः श्रीमान् भीमाख्यः पृथिवीपतिः । विष्टपत्रितयाभीष्टप्रवृत्तिप्रतिभूरभूत् ॥
 
[[ प्रथमः
 
( अत्र A आदर्शानुसारी मुद्रितपुस्तकस्थः कालक्रमसूचकोऽयं पाठ एतादृशः - )
 

 
[अथ सं० १५० (१ १०५२ ) श्रावणसुदि ११ शुक्रे पुष्यनक्षत्रे वृषलग्ने श्रीचामुण्डराजो राज्ये उपाविशत् ।
अनेन श्रीपत्तने चन्दनाथदेव-चाचिणेश्वरदेवप्रासादौ कारितौ ।
 
सं० ५५ (१ १०६५ ) अश्विनिशुदि ५ सोमे निरुद्धं वर्ष १३, मास १, दिन २४ राज्यं कृतं ।
 
सं० १०५५ ( ११०६५ ) अश्विनशुदि ६ भौमे ज्येष्ठानक्षत्रे मिथुनलग्ने श्रीवल्लभराजदेवो राज्ये उपविष्टः ।
अस्य राज्ञो मालवकदेशे धाराप्राकारं वेष्टयित्वा शीलीरोगेण विपत्तिः सञ्जाता । अस्य 'राजमदनशंकर'
इति तथा 'जगझंपण' इति बिरुदद्वयं संजातम् । सं० १० ( ११०६६ ) चैत्रशुदि ५ निरुद्धं मास ५, दिन
२९ अनेन राज्ञा राज्यं कृतम् ।
 
सं० १५५(१०६६१) चैत्रशुदि ६ गुरौ, उत्तराषाढनक्षत्रे मकरलने तद्भ्राता दुर्लभराजनामा राज्येऽभिषिक्तः ।
20 अनेन श्रीपत्तने सप्तभूमिधवलगृहकरणं व्ययकरणहस्तिशालाघटिका गृहसहितं कारितम् । स्वभ्रातृवल्लभराजश्रेयसे
मदनशङ्करप्रासादः कारितस्तथा दुर्लभसरः कारयांचत्रे । एवं १२ वर्ष राज्यं कृतं । ]
 
३३) तदनु [AD प्रतौ - सं० १०५ (१०७८) ज्येष्ठसुदि १२ भौमे अश्विनीनक्षत्रे मकरलग्ने-
एतावानधिकः पाठः ] श्री भीमाभिधानं निजमङ्गजं राज्येऽभिषिच्य खयं तीर्थोपासनवासनया वाणा-
रसीं प्रति प्रतिष्ठासुर्मालवकमण्डलं प्राप्यं तन्महाराजश्रीमुञ्जेन 'छत्रचामरादिराजचिह्नानि विमुच्य
25 कार्पटिकवेषेणैव पुरतो व्रजं, यदा युद्धं विधेहि' - इत्यभिहितोऽन्तरा धर्मान्तरायमुदितमवगम्य तं
वृत्तान्तं नितान्तं श्री भीमराजायं समादिश्य कार्पटिकवेषेण तीर्थे गत्वा परलोकं साधयामास ।
३४) ततः प्रभृति मालविकराजर्भिः सह गुर्जरनृपतीनां मूलविरोधबन्धः संवृत्तः ॥१३॥
 
* तारकचिह्नाङ्कितानीमानि पधानि केवलं P प्रतौ प्राप्यन्ते । 2 AD मा ( आ ? ) तुः सुतं ।
3 P आसाथ । 4 AD बजेति । 5A भीमराशे । 6P तीर्थ । 7 BP माळवराज्ञा । 8 AD ● विरोधः;
 
1P चामुण्डेन ।
 
P विरोधबन्धः प्रवृत्तः ।