2023-08-07 12:57:04 by Pratik_Rumde
This page has been fully proofread once and needs a second look.
एकान्तरोपवासपारणकेऽनिर्दिष्टपञ्चग्रासभिक्षाहारं कान्थडिनामानं स तपस्विनमश्रौषीत् । याव-
त्तन्नमस्याहेतवे नृपतिस्तत्र प्रयाति तावत्तेन तृतीयज्वरिणा स ज्वरः कन्थायां नियोजित इति
नृपतिरालोक्य, तेन राज्ञा 'कथं कन्था कम्पते?' इति पृष्टः । 'नृपेण सह वार्त्तां कर्तुमक्षमतयेह
ज्वर आरोपित' इत्यभिहिते पार्थिवः प्राह--'यद्येतावती शक्तिर्भवतस्तदा ज्वरः किं न सर्वथा
महीयते' इति राजादेशे--
२६. 'उपतिष्ठन्तु मे रोगा ये केचित्पूर्वसञ्चिताः । आनृण्ये गन्तुमिच्छामि तच्छम्भोः परमं पदम् ॥
इति शिवपुराणोक्तान्यधीयन्, नाभुक्तं कर्म न क्षीयते इति जानन् कथममुं विसृजामी'ति तेना-
भिहिते त्रिपुरुषधर्मस्थानस्य चिन्तायकत्वाय नृपतिरभ्यर्थयामास ।
२७. 'अधिकारात्त्रिभिर्मासैर्माठापत्यात्त्रिभिर्दिनैः । शीघ्रं नरकवाञ्छा चेद्दिनमेकं पुरोहितः ॥
इति स्मृतिवाक्यतत्त्वं जानंस्तप उडुपेन संसारसागरमुत्तीर्य कथं गोष्पदे निमज्जामी'ति वचसा
निषिद्धो नृपस्ताम्रशासनं मण्डकवेष्टितं निर्माय तस्मै भिक्षागताय पत्रपुटे मोचयामास । स
तदजानंस्ततः प्रत्यावृत्तः । पुरा प्रदत्तमार्गोऽपि सरस्वत्याः पूरे तदा न दीयमानमार्गः, आजन्म
निजदूषणानि विमृशंस्तात्कालिकभिक्षादोषपरिज्ञानाय यावद्विलोकते तावत्तद्दत्तं ताम्रशासनं
ददर्श । तदनु क्रुद्धं तपोधनं विज्ञाय तत्रागत्य नृपस्तत्सान्त्वनाय यावद्विनयवाक्यानि ब्रूते
तावत्तेन 'मया दक्षिणपाणिना गृहीतं भवत्ताम्रशासनं कथं वृथा भवती'ति वयजल्लदेवनामा
निजविनेयो नृपाय समर्पितः । तेन वयजल्लदेवेन 'प्रतिदिनमङ्गोद्वर्त्तनाय जात्यघुसृणस्याष्टौ पलानि,
मृगमदपलचतुष्टयम्, कर्पूरपलमेकम्, द्वात्रिंशद्वाराङ्गनाः, ग्राससहितं सितातपत्रं च यदा ददासि
तदा चिन्तायकत्वमङ्गीकरोमी'त्यभिहिते राज्ञा तत्सर्वं प्रतिपद्य त्रिपुरुषधर्मस्थाने तपस्विभूपतिपदे
सोऽभिषिक्तः । कंकूलोल इति प्रसिद्धः । इत्थं भोगान् भुञ्जानोऽप्यजिह्मब्रह्मचर्यव्रतनिरतः स
कदाचिन्निशि मूलराजपत्न्या परीक्षितुमारब्धः । तां ताम्बूलप्रहारेण कुष्ठिनीं विधाय पुनरनु-
नीतो निजोद्वर्त्तनविलेपनात् स्नानोत्सृष्टपयःप्रक्षालनाच्च सज्जीचकार ।
[अथात्रैव लाखाकोत्पत्ति-विपत्तिप्रबन्धः ।]
२८) पुरा कस्मिन्नपि परमारवंशे कीर्त्तिराजदेवाधिपतेः सुता कामलतानाम्नी । सा बाल्ये सम-
मालिभिः कस्यापि प्रासादस्य पुरो रममाणा, वरान् वृणीतेति ताभिर्व्याह्रियमाणा सा कामलता
घोरान्धकारनिरुद्धनयनमार्गा प्रासादस्तम्भान्तरितं फूलडाभिधानं पशुपालमज्ञातवृत्तान्तमेव
वृत्वा, तदनन्तरं कतिपयैर्वर्षैः प्रधानवरेभ्य उपढौक्यमाना पतिव्रताव्रतनिर्वहणाय पितरावनु-
ज्ञाप्य निर्बन्धात्तमेवोपयेमे । तयोर्नन्दनो लाखाकः । स कच्छदेशाधिपतिः, प्रसादितयशोराज-