2023-02-21 15:33:14 by ambuda-bot
This page has not been fully proofread.
१८
प्रबन्धचिन्तामणिः ।
[ प्रथमः
२७) अथ तस्य प्रासादस्य' चिन्तायकमुचितं तपस्विनं कश्चिदालोकमानं: सरस्वतीसरित्तीरे
एकान्तरोपवासपारणकेऽनिर्दिष्टपञ्चग्रासभिक्षाहारं कान्थडिनामानं स तपस्विनमश्रौषीत् । याव-
तन्नमस्याहेतवे नृपतिस्तत्र प्रयाति तावत्तेन तृतीयज्वरिणा स ज्वरः कन्थायां नियोजित इति
नृपतिरालोक्य,' तेन राज्ञा 'कथं कन्था कम्पते ?' इति पृष्टः । 'नृपेण सह वार्त्ता कर्तुमक्षमतयेह
5 ज्वर आरोपित' इत्यभिहिते पार्थिवः प्राह - 'यद्येतावती शक्तिर्भवतस्तदा ज्वरः किं न सर्वथा
महीयते' इति राजादेशे-
२६. 'उपतिष्ठन्तु मे रोगा ये केचित्पूर्वसञ्चिताः । आनृण्ये गन्तुमिच्छामि तच्छम्भोः परमं पदम् ॥
इति शिवपुराणोक्तान्यधीयन्, नाभुक्तं कर्म न क्षीयते इति जानन् कथममुं विसृजामी' ति तेना-
भिहिते त्रिपुरुषधर्मस्थानस्य' चिन्तायकत्वाय नृपतिरभ्यर्थयामास ।
10
२७. 'अधिकारात्रिभिर्मासैर्माठापत्यात्रिमिर्दिनैः । शीघ्रं नरकवाञ्छा चेद्दिनमेकं पुरोहितः ॥
इति स्मृतिवाक्यतत्त्वं " जान॑स्तप उड्डुपेन संसारसागरमुत्तीर्य कैथं गोष्पदे निमज्जामी' ति वचसा
निषिद्धो नृपस्ताम्रशासनं मण्डकवेष्टितं निर्माय तस्मै भिक्षागताय पत्रपुटे मोचयामास । स
तद्जानंस्ततः प्रत्यावृत्तः । पुरा प्रदत्तमार्गोऽपि सरखत्याः पूरे तदा न "दीयमानमार्गः, आजन्म
निजदूषणानि विमृशंस्तात्कालिकभिक्षादोषपरिज्ञानाय यावद्विलोकते तावत्तदन्तं ताम्रशासनं
15 ददर्श । तद्नु क्रुद्धं तपोधनं विज्ञाय तन्त्रागत्य नृपस्तत्सान्त्वनाय यावद्विनयवाक्यानि ब्रूते
तावत्तेन 'मया दक्षिणपाणिना गृहीतं भवत्ताम्रशासनं कथं वृथा भवतीति वयजल्लदेवनामा
निजविनेयो नृपाय समर्पितः । तेन वयजल्लदेवेन 'प्रतिदिनमङ्गोद्वर्त्तनाय जात्यघुसृणस्याष्टौ पलानि,
मृगमदपलचतुष्टयम्, कर्पूरपलमेकम्, द्वात्रिंशद्वाराङ्गनाः, ग्रासँसहितं सितातपत्रं च यदा ददासि
तदा चिन्तायकत्वमङ्गीकरोमी' त्यभिहिते राज्ञा तत्सर्व प्रतिपद्य त्रिपुरुषधर्मस्थाने तपखिभूपतिपदे
20 सोऽभिषिक्तः । कंकूलोल इति प्रसिद्धः * । इत्थं भोगान् भुञ्जानोऽप्यजिह्मन्ब्रह्मचर्यव्रतनिरतः स
कदाचिन्निशि मूलराजपढ्या परीक्षितुमारब्धैः । तां ताम्बूलप्रहारेण कुष्ठिनीं विधाय पुनरनु-
नीतो निजोद्वर्त्तनविलेपनातं स्नानोत्सृष्टपयःप्रक्षालनाच सज्जीचकार ।
ु
10
[[अथात्रैव लाखाकोत्पत्ति-विपत्तिप्रबन्धः ।]
२८) पुरा कस्मिन्नपि परमारवंशे कीर्त्तिराजदेवाधिपतेः सुता कामलतानाम्नी । सा बाल्ये सम-
25 मालिभिः " कस्यापि प्रासादस्य पुरो रममाणा, वरान् वृणीतेति ताभिर्व्याहियमाण सा कामलता
घोरान्धकारनिरुद्धनयनमार्गा प्रासादस्तम्भान्तरितं फूलडाभिधानं पशुपालमज्ञातवृत्तान्तमेव
वृत्व, तदनन्तरं कतिपयैर्वर्वैः प्रधानवरेभ्य उपढौक्यमाना पतिव्रताव्रतनिर्वहणाय पितरावनु-
ज्ञाप्य निर्बन्धात्तमेवोपयेमे । तयोर्नन्दनो लाखाकः । स कच्छदेशाधिपतिः, प्रसादितयशोराज-
1AD नास्ति । 2 P ० दवलोकमानः । 3 BP सरस्वत्याः सरितस्तीरे । 4D कन्यडि० । 5 D 'स' नास्ति ।
6P ●रालोकते । 7 BP नास्ति । 8 BP आनृणे । 9 BP चिन्तायकत्वाय त्रिपुरुषधर्मस्थानस्य । 10 ० दिनं भव ।
11 AD 'तत्वं' नास्ति । 12 AD 'कथं' नास्ति । 13 AD दत्त । 14 P पूरेऽदीयमान० । 15 B स दत्तस्तान०; AD
तावत्तत्तात्र० । 16 D ग्राम० । 17 A कूंकूंलोल; D कंकरौल; Da-c कूंकूरौल । * B नास्त्येतद्वाक्यं । 18B'अपि'
नास्ति । 19 BD 'व्रत' नास्ति । 20P ●मारेभे । 21 D नास्ति 'तां' । 22 D विलेपन स्थानो० । † D पुस्तक एवैचा
पश्यते नान्यत्र । 23 P विनाऽम्यत्र 'देशावि०' । 24P समं सखिभिः । 25AP ●माणे । 26B फूलहा० ।
27 AD ●मज्ञातवृत्या तमेव । 28 A वृष्तं ।