2023-08-07 12:22:22 by Pratik_Rumde
This page has been fully proofread once and needs a second look.
सं० ९७६ पूर्वं वर्ष १५ श्रीरत्नादित्येन राज्यं कृतम् ।
सं० ९९१ पूर्वं वर्ष ७ श्रीसामन्तसिंहेन राज्यं कृतम् ।
एवं चापोत्कटवंशे सप्त नृपतयोऽभूवन् । विक्रमकालात् संख्यया वर्ष ९९८ ।
[A आदर्शे तथा प्रायस्तत्सदृशे D पुस्तके एषा वंशावलिः निम्नस्वरुपा लिखिता लभ्यते--
सं० ८...... (?) श्रावणसुदि ४ निरुद्धं वर्ष १० मास १ दिन १ श्रीयोगराजेन राज्यं कृतम् ।
सं० ८... .... श्रावणसुदि ५ उत्तराषाढनक्षत्रे धनुर्लग्ने रत्नादित्यस्य राज्याभिषेको बभूव ।
सं० ८... कार्तिकसुदि ९ निरुद्धं वर्ष ३ मास ३ दिन ४ अनेन राज्ञा राज्यं कृतं ।
सं० ८......... कार्त्तिकसुदि ९ रवौ मघानक्षत्रे वृषलग्ने श्रीवैरसिंहो राज्ये समुपविष्टः ।
सं.०८......ज्येष्ठसुदि १० शुक्रे निरुद्धं वर्ष ११ मास ७ दिन २ अनेन राज्ञा राज्यं चक्रे ।
सं० ८......ज्येष्ठसुदि १३ शनौ हस्तनक्षत्रे सिंहलग्ने श्रीक्षेमराजदेवस्य राज्याभिषेक: समजनि ।
सं० ९२ ......भाद्रपदसुदि १५ रवौ वर्ष ३८ मास ३ दिन १० अस्य राज्ञो राज्यनिबन्धः ।
सं० ९३५ वर्षे अश्वीनीसुदि १ सोमे रोहिणीनक्षत्रे कुम्भलग्ने श्रीचामुण्डराजदेवस्य पट्टाभिषेक: समजनि ।
सं० ९......... माघवदि ३ सोमे निरुद्धं वर्ष १३ मास ४ दिन १७ अनेन राज्ञा राज्यं विदधे ।
सं० ९३८ (?) माघवदि ४ भौमे स्वातिनक्षत्रे सिंहलग्ने श्रीआगडदेवो राज्ये उपविष्टः । अनेन कर्करायां
पुर्यां आगडेश्वर-कण्टेश्वरीप्रासादौ कारितौ ।
सं० ९६५ पौषसुदि ९ बुधे निरुद्धं वर्ष २६ मास १ दिन २० राज्यं कृतं ।
सं० ९......पौषसुदि १० गुरौ आर्द्रानक्षत्रे कुम्भलग्ने भूयगडदेव: पट्टे समुपविष्टः । अनेन राज्ञा
भूयगडेश्वरप्रासादः कारितः श्रीपत्तने प्राकारश्च ।
सं० ९ .... वर्षे आषाढसुदि १५ निरुद्धं वर्ष २७ मास ६ दिन ५ राज्यं कृतं ।
एवं चापोत्कटवंशे पुरुष ८; तद्वंशे १९० वर्ष, मास २, दिन सप्त राज्यं कृतम् । ]
२३. असेव्या मातङ्गाः परिगलितपक्षाः शिखरिणो जडप्रीतिः कूर्मः फणिपतिरयं च द्विरसनः ।
इति ध्यातुर्धातुर्धरणिधृतये सान्ध्यचुलुकात्समुत्तस्थौ कश्चिद्विलसदसिपट्टः स सुभटः ॥ इति ॥
[५. मूलराजप्रबन्धः ।]
२४) अथ पूर्वोक्तश्रीभूयराजवंशे मुञ्जालदेव
यात्रायां श्रीसोमनाथं नमस्कृत्य ततः प्रत्यावृत्ता: श्रीमदणहिल्लपुरे श्रीसामन्तसिंहनृपं वाहके-
ल्यामवलोकमानास्तुरगस्य नृपेण कशाघाते दत्ते सति कार्पटिकवेशधारी राजनामा क्षत्रियोऽन-
वसरदत्तेन तेन कशाघातेनं पीडितः शिरःकम्पपूर्वकं हा हेति शब्दमवादीत् । राज्ञा तत्कारणं
पृष्टः स--'तुरङ्गमेन कृतं गतिविशेषं न्युञ्छनयोग्यमनवधार्य कशाघाते दीयमाने ममैव मर्माभि-
घातः समजनि' । तेन तद्वचसा चमत्कृतेन राज्ञा स तुरङ्गमो वाहनाय समर्पितस्तस्यैव । अश्वाश्व-
वारयोः सदृशं योगमालोक्य पदे पदे तयोर्न्युञ्छनानि कुर्वंस्तेनैव तदाचारेण तस्य महत्कुलमा-
कलय्य लीलादेवीनाम्नीं स्वभगिनीं तस्मै ददौ । आधानानन्तरं कियत्यपि गते काले, तस्या अकाण्ड-