This page has been fully proofread once and needs a second look.

[४. वनराजादिप्रबन्धः ।]
 
१५) तस्य कन्यकुब्जस्यैकदेशो गूर्जरधरित्री, तस्यां गूर्जरभुवि वढीयाराभिधानदेशे पञ्चा-
शरग्रामे चापोत्कटवंश्यं झोलिकासंस्थं बालकं वणनाम्नि वृक्षे निधाय तन्मातेन्धनमवचिनोति ।
प्रस्तावात्तत्रायातैर्जैनाचार्यैः श्रीशीलगुणसूरिनामभिरपराह्णेऽपि तस्य वृक्षस्य छायामनमन्तीमा-
लोक्य, झोलिकास्थितस्य तस्यैव बालकस्य पुण्यप्रभावोऽयमिति विमृश्य, जिनशासनप्रभावकोऽयं
भावीत्याशया वृत्तिदानपूर्वं तन्मातुः पार्श्वात्स बालो जगृहे । वीरमतीगणिन्या स बालः परिपा-
ल्यमानो गुरुभिर्दत्तवनराजाभिधानोऽष्टवार्षिको देवपूजाविनाशकारिणां मूषकाणां रक्षाधिकारे
नियुक्तः । स तान् बाणेन निघ्नन् गुरुभिर्निषिद्धोऽपि चतुर्थोपायसाध्यांस्तानेवं जगौ । तस्य जातके
राजयोगमवधार्याऽयं महानृपतिरेव भावीति निर्णीय स तन्मातुः पुनः प्रत्यर्पितः । मात्रा समं
कस्यामपि पल्लिभूमौ स्वमातुलस्य चौरवृत्त्या वर्त्तमानस्य [सन्मानपात्रतां प्राप्तो <flag>जनपदस्यान्तर-
स्खलितपौरुषवृत्तिर्नगरग्रामसार्थाकेव.... (?)]?</flag> सर्वत्र धाटीप्रपातमकरोत् ।
 
१६) कदाचित् काकरग्रामे खात्रपातनपूर्वं कस्यापि व्यवहारिणो गृहे धनं मुष्णन् दधिभाण्डे
करे पतिते सत्यत्र भुक्तोऽहमिति विचिन्त्य तत्सर्वस्वं तत्रैव मुक्त्वा विनिर्ययौ । परस्मिन्नहनि
तद्भगिन्या श्रीदेव्या निशि गुप्तवृत्त्या सहोदरवात्सल्यादाहूतः । पृष्टः--'कथं मद्गृहे प्रविश्य सर्व-
सारं [गृहीत्वा] त्वया पुनरेव मुक्तम्?' । तेनोक्तं--
 
२०. कह नाम तस्स पावं चिंतिज्जइ आगए वि कोवम्मि । उप्पलदलसुकुमालो जस्स घरे अल्लिओ हत्थो ॥
 
सापि तद्वचनमाकर्ण्य तच्चरित्रेण चमत्कृता भोजनवस्त्रदानादिकमुपकारं चकार । 'मम पट्टा-
भिषेके भवत्यैव भगिन्या तिलकं विधेयमि'ति प्रतिपेदे ।
 
१७) अथान्यस्मिन्नवसरे तस्य चरटवृत्त्या वर्त्तमानस्य चौरैः क्वाप्यरण्यप्रदेशे रुद्धो जाम्बा-
भिधानो वणिक् तं चोरत्रयं दृष्ट्वा स्वबाणपञ्चकमध्याद्बाणद्वयं भञ्जंस्तैः पृष्ट इति प्राह--'भवत्त्रित-
याधिकं बाणद्वयं विफलमि'त्युक्ते, तदुक्तं चलवेध्यं बाणेनाहत्य तैः परितुष्टैरात्मना सह नीतस्त-
द्योधविद्याचमत्कृतेन श्रीवनराजेन 'मम पट्टाभिषेके त्वं महामात्यो भावी'त्यादिश्य विसृष्टः ।
 
१८) अथ कन्यकुब्जादायातपञ्चकुलेन तद्देशराज्ञः सुतायाः श्रीमहणकाभिधानायाः कञ्चुक-
सम्बन्धे पितृप्रदत्तगूर्जरदेशस्योद्ग्राहणकहेतवे समागतेन सेल्लभृद्वनराजाभिधानश्चक्रे । षण्मासीं