This page has not been fully proofread.

प्रबन्धचिन्तामणिः ।
 
[४. वनराजादिप्रबन्धः । ]
 

 
१५) *तस्य कन्यकुब्जस्यैकदेशो गूर्जरधरित्री, तस्यां * गूर्जरभुवि वढीयाराभिधानदेशे पञ्चा-

शरग्रामे चापोत्कटवंश्यं झोलिकासंस्थं बालकं वणनाम्नि वृक्षे निधाय तन्मातेन्धनमवचिनोति ।

प्रस्तावात्तत्रायातैजैनाचार्यैः श्रीशीलगुणसूरिनामभिरपराह्णेऽपि तस्य वृक्षस्य छायामनमंन्तीमा-
5

लोक्य, झोलिकास्थितस्य तस्यैव बालकस्य पुण्यप्रभावोऽयमिति विमृश्य, जिनशासनप्रभावकोऽयं

भावीत्याशया वृत्तिदानपूर्वं तन्मातुः पार्श्वात्स बालो जगृहे । वीरमतीगणिन्या स बालः परिपा-

ल्यमानो गुरुभिर्दत्तवनराजाभिधानोऽष्टवार्षिको देवपूजाविनाशकारिणां भूमूषकाणां रक्षाधिकारे

नियुक्तः । स तान् बाणेन निघ्नन् गुरुभिर्निषिद्धोऽपि चतुर्थोपायसाध्यांस्तानेवं जगौ । तस्य जातके

राजयोगमवघाधार्याऽयं महानृपतिरेवं भावीति निर्णीय स " तन्मातुः पुनः प्रत्यर्पितः । मात्रा समं
10

कस्यामपि पल्लिभूमौ स्वमातुलस्य चौरवृत्त्या वर्त्तमानस्य [सन्मानपात्रतां प्राप्तो <flag>जनपदस्यान्तर-

स्खलित पौरुषवृत्तिर्नगर ग्रामसार्थाकेव.... (?)+]?</flag> सर्वत्र धाटीप्रपातमकरोत् ।
 
१२
 
[ प्रथमः
 
13
 

 
१६) कदाचित् " काकरग्रामे ग्वाखात्रपातनपूर्वं कस्यापि व्यवहारिणो गृहे धनं मुष्णन् दैधिभाण्डे

करे पतिते सत्यत्र भुक्तोऽहमिति विचिन्त्य तत्सर्वस्वं तत्रैव मुक्त्वा विनिर्ययौ । परस्मिन्नहनि

तद्भगिन्या श्रीदेव्या निशि गुप्तवृत्त्या सहोदरवात्सल्यादाहृहूतः । पृष्टः- 'कथं मद्गृहे प्रविश्य सर्व-
13

सारं [ गृहीत्वा ] त्वया पुनरेव मुक्तम् ?' । तेनोक्तं-

 
२०. कह नाम तस्स पावं चिंतिज्जइ आगए वि कोवम्मि । उप्पलदलसुकुमालो जस्स घरे अल्लिओ हत्थो

 
सापि तद्वचनमाकर्ण्य तच्चरित्रेण चमत्कृता भोजनवस्त्रदानादिकमुपकारं चकार । 'मम पट्टा-

भिषेके भवत्यैव भगिन्या तिलकं विधेयमि'ति प्रतिपेदे" ।
 

 
१७) अथान्यस्मिन्नवसरे तस्यै चरटवृत्त्या वर्त्तमानस्य चौरैः काक्वाप्यरण्यप्रदेशे रुद्रीधो जाम्बा-
20

भिधानो वणिक् तं" चोरत्रयं दृष्ट्वा खैयास्वबाणपञ्चकमध्याद्वाबाणद्वयं भञ्जंस्तैः पृष्ट इति" प्राह - 'भवत्त्रित-

याधिकं वाबाणद्वयं विफलमि'त्युक्ते, तदुक्तं चलवेध्यं बाणेनाहत्य तैः परितुष्टैरात्मना सह नीतस्तं-

द्योधविद्याचमत्कृतेन "श्रीवनराजेन 'मम पट्टाभिषेके त्वं महामात्यो भावी 'त्यादिश्य विसृष्टः ।
 

 
१८) अथ कन्यकुब्जादायातपञ्चकुलेन तद्देशराज्ञः सुतायाः श्रीमहर्णैकाभिधानायाः कञ्जुक
चुक-
सम्बन्धे पितृप्रदत्तंगूर्जरदेशस्योद्ग्राहणकहेतवे समागतेन सेल्लभृंदभृद्वनराजाभिधानश्चक्रे । षण्मा
 
* द्वितारकान्तर्गतः पाठ: AD नाम्ति । 1 Db बाण० । 2 Da शीलगणि; Db शीलगण । 3 B सूरिभिः; A सूरि-
भिर्नामभिः । 4B ० भवनमन्ती । 5 B 'पुण्य' नास्ति । 6 Db परिपाठ्य० । 7 B नास्ति । 8 D लोटैः; P& बाणैः ।
19 AI) नृपतिर्भा० । 10 P 'स' नास्ति; AD 'तन्' नास्ति । 11B समर्पिर्पतः । + एतस्कोष्ठकान्तर्गतः पाठः केवलं P
आदर्श एवोपलभ्यते । 12 • प्रदान० । + एतदमे Po आदर्श 'चौरस्वभावे लग्ने न सुखं कदाचिदपि । यतः -
(२२) नक्तं दिवा न शयनं प्रकटा न चर्या स्खैरं म चान्नजलवस्त्रकलत्रभोगः ।
शंकानुजादपि सुतादपि दारतोऽपि लोकस्तथापि कुरुते ननु चौर्यवृत्तिम् ॥'
 
एतावान् प्रक्षिप्तः पाठः समुपलभ्यते । 13 केवलं B आदर्श एव एष शब्दः । 14 B नास्ति । 15 B तधि० । $ एतद्विचिद्धा.
न्तर्गत पाठस्थाने AD आदर्श 'तया भोजनवका ( वसु D) दान पूर्वकमुपकृतो; B आदर्शे 'स्नानभोजनवस्त्रदान ० ' एतादृशः संक्षिसः
पाठः प्रपठ्यते । 16P प्रतिपक्षम् ।
19 P तचौर० ।
21 B 'इति' नास्ति । 22 D बल० ।
27 P• प्रतिपक्ष । 28 B सोलवृद्ध; P सल्लभृद् ।
 
17 AD नास्ति ।
 
18 D जम्बा० ।
 
20 AD 'स्व' नास्ति ।
23 P 'तद्' नास्ति । 24 EP 'श्री' नास्ति । 25 D तादृश० । 26D महणिका० ।
 
सीं