This page has been fully proofread once and needs a second look.

१०. हारो वेणीदण्डो खट्टुग्गलियाइं तह य तालु त्ति । एयाइं नवरि सालाहणेण दहकोडिगहियाइं ॥ १
११. मग्गं चिय अलहन्तो हारो पीणुन्नयाण थणयाण । उब्बिम्बो भमइ उरे जउणानइफेणपुञ्जं व्व ॥ २
१२. कसिणुज्जलो य रेहइ वेणीदण्डो नियम्बबिम्बम्मि । तुह सुन्दरि सुरयमहानिहाणरक्खाभुयङ्ग व्व ॥ ३
१३. परिओससुन्दराइं सुरए जायन्ति जाइं सुक्खाइं । विरहाउ ताइं पियसहि खट्टुग्गलियाइं कीरन्ति ॥ ४
१४. मा जाण कीर जह चञ्चुलालियं पडइ पक्कमाइन्दं । जरढत्तणदुल्ललियं उब्भुयतालाहलं एयं ॥ ५
 
१५. ताण पुरोय मरीहं कयलीथम्भाण सरिसपुरिसाण । जे अत्तणो विणासं फलाइं दिन्ता न चिन्तन्ति ॥ ६
१६. जह सरसे तह सुक्के वि पायवे धरइ अणुदिणं विञ्झो । उच्छंगवट्टियं निग्गुणं पि गरुया छड्डन्ति ॥ ७
१७. पढमो नेहाहारो तेहिं तिसिएहिं तह कहवि गहीउ । पिच्छन्ति जं न अन्नं तच्चिय आजम्म मुज्झारा ॥ ८
१८. सयलजणाणन्दयरो सुक्खस्स वि एस परिमलो जस्स । तस्स नवसरसभावम्मि हुञ्ज्ज किं चन्दणदुमस्स ॥ ९
१९. कयलितरू विञ्झगिरी नेहाहारो य चन्दणदुमो य । एयाओ नवरि सालाहणेण नवकोडिगहियाओ ॥१०
 
[३. अथ शीलव्रते भूयराज-प्रबन्धः ।]
 
१४) तद्यथा--षड्त्रिंशद्ग्रामलक्षप्रमिते कन्यकुब्जदेशे कल्याणकटकनाम्नि राजधानीनगरे
भूयराज इति राजा राज्यं कुर्वन् कस्मिंश्चित्प्रभातसमये राजपाटिकायां सञ्चरन्नेकस्मिन्सौधतले
वातायनस्थितां कामपि मृगाक्षीं मृगयमाणो निजचित्तापहारापराधिनीं तामपजिहीर्षुर्निजं
पानीयाधिकृतपुरुषं समादिदेश । स च तां नृपसौधे समानीय क्वचित् सङ्केतप्रदेशे स्थापयित्वा
नृपं विज्ञपयामास । नृपेण च तत्रागतेन बाहुदण्डे धृता सती सा तं भूपमवादीत्--'स्वामिन्!
सर्वदेवतावतारस्य भवतो हन्त कोऽयं नीचनार्यामभिलाषः' । ततस्तद्वाक्यामृतेनेषच्छान्तका-
मानलो नृपः 'काऽसी'ति तां प्रोचे । तया--'अहं तव दासी'त्यभिहिते 'किं तथ्यमेतदि'ति
नृपादेशात् 'प्रभोर्दासः पानीयाधिकृतस्तस्य पत्न्यहं दासानुदासीति' । तद्वार्त्तयान्तश्चमत्कृतो
नृपतिः सर्वथा विलीनकामार्त्तिस्तां सुतां मन्यमानो विससर्ज । तस्या वपुषि निजकरौ लग्ना-
विति विचिन्त्य तन्निग्रहवाञ्छया निशीथे निजैरेव यामिकैर्गवाक्षप्रविष्टनरकरभ्रान्त्या निजावेव
भुजौ निग्राहयामास । अथ प्रत्यूषे तान् यामिकान् सचिवैर्निगृह्यमाणान् निवार्य मालवमण्डले
महाकालदेवप्रासादे गत्वा स्वयं देवमाराधयंस्तस्थौ । देवादेशाद्भुजद्वये लग्ने सति तं मालवदेशं
सान्तःपुरं तस्मै देवाय दत्त्वा तद्रक्षाधिकृतान् परमारराजपुत्रान् नियोज्य स्वयमेव तापसीं
दीक्षामङ्गीचक्रे । इति शीलव्रते भू[य]राजप्रबन्धः ॥ ९ ॥