2023-08-01 20:43:29 by Pratik_Rumde
This page has been fully proofread once and needs a second look.
त्तिष्ठति तावत्तावेव वृषौ शृङ्गाग्रेण तं स्तम्भं भूयो भूयस्ताडयतः । अत्रान्तरे स विप्रोऽक-
स्मान्निद्राभङ्गमासाद्याकाशे शुक्रगुरुभ्यां निरुद्धं चन्द्रमण्डलमवलोक्य गृहिणीमुत्थाप्य चन्द्रमण्ड-
लसूचितं तन्नृपतेः प्राणसङ्कटमवगम्य, 'होतव्यद्रव्याणि तदुपशान्तये होमार्थमुपढौकयिष्ये' इति
सावधानं नृपे शृण्वति, स गृहिण्योचे-'अयं नृपः पृथिवीमनृणां कुर्वन्नपि मम कन्यासप्तकस्य
विवाहाय द्रव्यमयच्छञ् शान्तिककर्मणांणा कथं व्यसनान्मोचयितुमुचित' इति तद्वचसा सर्वथा
परिहृतगर्वस्तत्सङ्कटाच्छुट्टितः कीर्त्तिस्तम्भवार्त्तातां विस्मरन् राज्यं चिरं चकार । इति विक्रमार्कस्य
निर्गर्वताप्रबन्धः ॥ ६॥
[अथान्यस्यां निशि एका रजकी राज्ञा पृष्टा-वस्त्राणि विरूपाणि कथं ससैकतानि । तयोक्तम्-
[३] यासौ दक्षिणदक्षिणार्णववधू रेवाप्रतिस्पर्द्धिनी गोविन्दप्रियगोकुलाकुलतटी गोदावरी विश्रुता ।
तस्यां देव गतेऽपि मेघसमये स्वच्छं न जातं जलं त्वद्दण्डद्विरदेन्द्रदन्तमुशलप्रक्षोभितैः पांशुभिः ॥
[४] रजकवधूवचनमिदं श्रुत्वा नरनाथनायकः स ददौ । <flag>स्वाङ्गग?</flag> पृष्ठकसहितं लक्षं भ्रूक्षेपमात्रेण ॥
[५] चौरमागधविप्रेभ्यो रजक्यै कविताश्रुतौ । चातुःप्रहरिकं दानं दत्तं विक्रमभूभुजा ॥]
॥ इति श्रीविक्रमस्यात्र विविधाः प्रबन्धा यथाश्रुतं ज्ञेयाः ॥
१२) कदाचिदायुःप्रान्ते केनाप्यायुर्वेदविदा श्रीविक्रमस्य वपुरपाटवे वायसपिशिताहारेण
रोगशान्तिर्भवतीत्युपदिष्टे नृपेण तस्मिन्पाके कार्यमाणे प्रकृतिव्यत्ययं विमृश्य नृप इति ज्ञापितः-
'साम्प्रतं धर्मौषधमेव बलवत् । प्रकृतेर्विकृतिरुत्पातः । जीवितलोलुपतया लोकोत्तरां सत्त्वप्रकृति-
मपहाय काकमांसमभिलषन्सर्वथा न जीवसी' ति वैद्येनाभिहितः । तं पारितोषिकदानार्थं परमार्थ-
बान्धवमिति श्लाघमानो गजतुरगकोशादिसर्वस्वमर्थिभ्यो वितीर्य राजलोकं नगरमापृच्छ्य विजने
क्वापि धवलगृहप्रदेशे तत्कालोचितस्नानदानदेवतार्चनपूर्वं दर्भस्रस्तराधिरूढो ब्रह्मद्वारेण प्राणो-
त्क्रान्तिं करिष्यामीति विमृशन्नकस्मादाविर्भूतमप्सरोगणं स ददर्श । अञ्जलिं बद्ध्वा प्रणामपूर्वं
'का यूयमि' ति पृष्टे-'न वाग्विस्तरार्होऽयमवसरः, परमापृच्छनायैव वयमुपागता इत्यभिधाया-
प्सरसोऽपसरन्त्यो नृपेण भूयोऽभिदधिरे-'नवीनब्रह्मणा निर्मितानां भवतीनामद्वैतरूपवतीना-
मेकमेव रूपं<flag>नासया?</flag> हीनमि' ति जिज्ञासुरस्मि । अथ ताः <flag>सहस्ततालं?</flag> विहस्य 'निजमेववापराध-
मस्मासु सम्भावयसी'ति ता मौनमाश्रिता नृपेणोचिरे-'स्वर्गलोकस्थितासु भवतीषु ममापराध:
स्मान्निद्राभङ्गमासाद्याकाशे शुक्रगुरुभ्यां निरुद्धं चन्द्रमण्डलमवलोक्य गृहिणीमुत्थाप्य चन्द्रमण्ड-
लसूचितं तन्नृपतेः प्राणसङ्कटमवगम्य, 'होतव्यद्रव्याणि तदुपशान्तये होमार्थमुपढौकयिष्ये' इति
सावधानं नृपे शृण्वति, स गृहिण्योचे-'अयं नृपः पृथिवीमनृणां कुर्वन्नपि मम कन्यासप्तकस्य
विवाहाय द्रव्यमयच्छञ् शान्तिककर्म
परिहृतगर्वस्तत्सङ्कटाच्छुट्टितः कीर्त्तिस्तम्भवार्त्
निर्गर्वताप्रबन्धः ॥ ६॥
[अथान्यस्यां निशि एका रजकी राज्ञा पृष्टा-वस्त्राणि विरूपाणि कथं ससैकतानि । तयोक्तम्-
[३] यासौ दक्षिणदक्षिणार्णववधू रेवाप्रतिस्पर्द्धिनी गोविन्दप्रियगोकुलाकुलतटी गोदावरी विश्रुता ।
तस्यां देव गतेऽपि मेघसमये स्वच्छं न जातं जलं त्वद्दण्डद्विरदेन्द्रदन्तमुशलप्रक्षोभितैः पांशुभिः ॥
[४] रजकवधूवचनमिदं श्रुत्वा नरनाथनायकः स ददौ । <flag>स्वाङ्गग?</flag> पृष्ठकसहितं लक्षं भ्रूक्षेपमात्रेण ॥
[५] चौरमागधविप्रेभ्यो रजक्यै कविताश्रुतौ । चातुःप्रहरिकं दानं दत्तं विक्रमभूभुजा ॥]
॥ इति श्रीविक्रमस्यात्र विविधाः प्रबन्धा यथाश्रुतं ज्ञेयाः ॥
१२) कदाचिदायुःप्रान्ते केनाप्यायुर्वेदविदा श्रीविक्रमस्य वपुरपाटवे वायसपिशिताहारेण
रोगशान्तिर्भवतीत्युपदिष्टे नृपेण तस्मिन्पाके कार्यमाणे प्रकृतिव्यत्ययं विमृश्य नृप इति ज्ञापितः-
'साम्प्रतं धर्मौषधमेव बलवत् । प्रकृतेर्विकृतिरुत्पातः । जीवितलोलुपतया लोकोत्तरां सत्त्वप्रकृति-
मपहाय काकमांसमभिलषन्सर्वथा न जीवसी'
बान्धवमिति श्लाघमानो गजतुरगकोशादिसर्वस्वमर्थिभ्यो वितीर्य राजलोकं नगरमापृच्छ्य विजने
क्वापि धवलगृहप्रदेशे तत्कालोचितस्नानदानदेवतार्चनपूर्वं दर्भस्रस्तराधिरूढो ब्रह्मद्वारेण प्राणो-
त्क्रान्तिं करिष्यामीति विमृशन्नकस्मादाविर्भूतमप्सरोगणं स ददर्श । अञ्जलिं बद्ध्वा प्रणामपूर्वं
'का यूयमि' ति पृष्टे-'न वाग्विस्तरार्होऽयमवसरः, परमापृच्छनायैव वयमुपागता इत्यभिधाया-
प्सरसोऽपसरन्त्यो नृपेण भूयोऽभिदधिरे-'नवीनब्रह्मणा निर्मितानां भवतीनामद्वैतरूपवतीना-
मेकमेव रूपं