This page has been fully proofread once and needs a second look.

९) तस्यामेव निशि नृपो वीरचर्यायां पुरि परिभ्रमन् भूयो भूयस्तैलिकमुखेन पव्यमान-
मिदमश्रौषीत् ।
 
७. अम्मीणउ सन्देसडउ नारय कन्ह कहिज्ज ।
 
प्रभातशेषां रजनीमवधीकृत्य तदुत्तरार्द्धमशृण्वन्निर्विण्णो नृपः सौधं प्राप्य निद्रामकरोत् । प्रत्यू-
षकालेऽवसरकृत्यानन्तरं नृपेण तत्राहूतस्तैलिकस्तदुत्तरार्द्धं पृष्टः ।
 
जगु दालिद्दिहिं दुत्थियउ बलिबन्धणह मुइज्ज ॥ ७
इत्याकर्ण्य श्रीसिद्धसेनोपदेशं पुनरुक्तं निर्ण्णीय पृथिवीमनृणां कर्त्तुमारेभे ।
 
[उज्जयिन्यां राजा विक्रमादित्यो भट्टमात्रेण समं महाकाले नाटकालोकनार्थं गुप्तवेषो गतः । काला-
न्तरितेन नागरिकसुतेन कार्यमाणे नाटके सूत्रधारमुखात् तद्वर्णनं श्रुत्वा राजापि नागरिकद्रव्यग्रहणाय मनसि
लोभं कृतवान् । पश्चात् कियत्कालमतिक्रम्य तृषितो मुख्यवेश्यागृहे भट्टमात्रपार्श्वात् पानीयं याचितवान् । तत्र
वृद्धवेश्या प्रधानान् पुरुषान् भणित्वा तन्निमित्तमिक्षुरसमादातुमुपवने गता । सूलकैरिक्षुदण्डान् मिभित्त्वा तयार्द्धघ-
टेऽप्यसम्भृते दुर्मनस्का करकं भृत्वा वेलाविलम्बेनागता । राजा इक्षुरसे पीते भट्टमात्रेण वेलाविलम्बदौर्मनस्यका-
रणं पृष्टा जगाद-अन्यदिने एकेन निर्भिन्नेक्षुदण्डेन सकरको घटो भ्रियते । अद्य घटोपि न सम्पूरितः । तत्कारणं
न ज्ञायते । भट्टमात्रेण [पुनः] पृष्टं यूयमेवं परिणतमतयस्तत्कारणं जानीत । ततो विचार्य निवेदयन्तु । वेश्यापि
वदति-पृथ्वीपतेर्मनः प्रजासु विरुद्धं जातं ततः पृथ्वीरसोपि क्षीणो जातः । इति कारणं निवेदितवती । राजापि
तद्बुद्धिकौशलाच्चमत्कृतः । स्वभुवनशयनीये सुप्त इति चिन्तितवान्-अकृतेऽपि प्रजापीडने विरूद्धचिन्तामात्रेणापि
पृथ्वीरसहानिर्जाता । अतः प्रजां न पीडयिष्यामि इति कृतनिश्चयो नृप इति परीक्षणार्थ द्वितीयायां निशायां
तृषामिषात्तद्गृहे गत्वा शीघ्रमेव सहर्षया तयाऽऽनीतमिक्षुरसं पीत्वा शयनीये सुप्तवान् । वेश्यापि भट्टमात्रपृष्टा
राज्ञः प्रजासु हृष्टं मनो निवेदितवती । राज्ञाऽपि आत्मनिशावृत्तान्तं निवेद्य पुनरपि तस्यै वृद्धवेश्यायै परिचित्तोप-
लक्षणतुष्टेन हारो दत्तः । इति नृपतिमनोऽनुसारी पृथ्वीरसप्रबन्धः ॥]
 
१०) अथ 'मत्सदृशः कोऽपि जैनो नृपतिर्भावी'ति पृष्टे श्रीसिद्धसेनसूरिभिरभिदधे-
 
८. पुन्ने वाससहस्से सयम्मि वरिसाण नवनवइ अहिए । होही कुमरनरिन्दो तुह विक्कमराय सारिच्छो ॥ ८
 
११) अथापरस्मिन्नवसरे जगत्यनृणीक्रियमाणे निजौदार्यगुणेनाहंकृतिं दधानः प्रातः कीर्त्ति-
स्तम्भं कारयिष्यामीति चिन्तयंस्तस्मिन्नेव निशीथे वीरचर्यया चतुष्पथान्तः परिभ्रमन् युद्ध्य-
मानवृषाभ्यां त्रासितः कस्यापि दारिद्र्योपद्रुतद्विजन्मनो जीर्णवृषभकुटीस्तम्भमध्यारूढो याव-