This page has not been fully proofread.

९) तस्यामेव निशि नृपो वीरचर्यायां पुरि परिभ्रमन् भूयो भूयस्तैलिकमुखेन पव्यमान-
मिदमश्रौषीत् ।
 
७. अम्मीणउ' सन्देसडउ' नारय' कन्ह कहिज्ज ।
 
प्रभातशेषां रजनीमवधीकृत्य तदुत्तरार्द्धमशृण्वन्निर्विण्णो नृपः सौघं प्राप्य निद्रामकरोत् । प्रत्यू -
5 षकालेऽवसरकृत्यानन्तरं नृपेण तत्राहूतस्तैलिकस्तदुत्तरार्द्ध पृष्टः ।
 
जगु' दालिद्दिहिं' दुत्थियड' बलिबन्धणह मुइज ॥ ७
ईत्याकर्ण्य श्रीसिद्धसेनोपदेशं पुनरुक्तं निणय पृथिवीमनृणां कर्त्तुमारेभे ।
 
[ उज्जयिन्यां राजा विक्रमादित्यो भट्टमात्रेण समं महाकाले नाटकालोकनार्थ गुप्तवेषो गतः । काला-
न्तरितेन नागरिकसुतेन कार्यमाणे नाटके सूत्रधारसुखात् तद्वर्णनं श्रुत्वा राजापि नागरिकद्रव्यग्रहणाय मनसि
10 लोभं कृतवान् । पश्चात् कियत्कालमतिक्रम्य तृषितो मुख्यवेश्यागृहे भट्टमात्रपार्श्वात् पानीयं याचितवान् । तत्र
वृद्धवेश्या प्रधानान् पुरुषान् भणित्वा तन्निमित्तमिक्षुरसमादातुमुपवने गता । सूलकैरिक्षुदण्डान् मित्त्वा तयार्द्धघ-
टेऽप्यसम्भृते दुर्मनस्का करकं भृत्वा वेलाविलम्बेनागता । राजा इक्षुरसे पीते भट्टमात्रेण वेलाविलम्बदौर्मनस्यका-
रणं पृष्टा जगाद - अन्यदिने एकेन निर्भिक्षुदण्डेन सकरको घटो भ्रियते । अद्य घटोपि न सम्पूरितः । तत्कारणं
न ज्ञायते । भट्टमात्रेण [ पुनः ] पृष्टं यूयमेवं परिणतमतयस्तत्कारणं जानीत । ततो विचार्य निवेदयन्तु । वेश्यापि
15 वदति - पृथ्वीपतेर्मनः प्रजासु विरुद्धं जातं ततः पृथ्वीरसोपि क्षीणो जातः । इति कारणं निवेदितवती । राजापि
तद्बुद्धिकौशलाच्चमत्कृतः । स्वभुवनशयनीये सुप्त इति चिन्तितवान्-अकृतेऽपि प्रजापीडने विरूद्धचिन्तामात्रेणापि
पृथ्वीरसहानिर्जाता । अतः प्रजां न पीडयिष्यामि इति कृतनिश्चयो नृप इति परीक्षणार्थ द्वितीयायां निशायां
तृषामिषात्तद्गृहे गला शीघ्रमेव सहर्षया तयाऽऽनीतमिक्षुरसं पीत्वा शयनीये सुप्तवान् । वेश्यापि भट्टमात्रपृष्टा
राज्ञः प्रजासु हृष्टं मनो निवेदितवती । राज्ञाऽपि आत्मनिशावृत्तान्तं निवेद्य पुनरपि तस्यै वृद्धवेश्यायै परिचित्तोप-
20 लक्षणतुष्टेनहारो दत्तः । इति नृपतिमनोऽनुसारी पृथ्वीरसप्रबन्धः ॥ * ]
 
१०) अथ 'मत्सदृशः कोऽपि जैनो" नृपतिर्भावी ति पृष्टे श्रीसिद्धसेनसूरिभिरभिद्धे -
८. पुणे वाससहस्से सयम्मि वरिसाण नवनवइ अहिए । होही कुमरनरिन्दो तुह विकमराय सारिच्छो ॥ ८
 
13
 
११) अथापरस्मिन्नवसरे जगत्यनृणीक्रियमाणे निजौदार्यगुणेनाहंकृतिं दधानः प्रातः कीर्त्ति-
स्तम्भं कारयिष्यामीति चिन्तयंस्तस्मिन्नेव निशीथे वीरचर्यया चतुष्पथान्तः परिभ्रमन् युद्ध्य-
25 मानवृषाभ्यां " त्रासितः कस्यापि दारिद्र्योपद्रुतद्विजन्मनो जीर्णवृषभक्कुटीस्तम्भमध्यारूढो याव-