This page has been fully proofread once and needs a second look.

७) अथान्यस्मिन्नवसरे श्रीविक्रमो राजपाटिकायां व्रजंस्तन्नगरनिवासिना श्रीसङ्घेनानुगम्य-
मानं बन्दिवृन्दै: 'सर्वज्ञपुत्र' इति स्तूयमानं श्रीसिद्धसेनाचार्यमागच्छन्तमवलोक्य सर्वज्ञ-
पुत्र इति वचसा कुपितस्तत्सर्वज्ञतापरीक्षार्थं तस्मै मानसं नमस्कारमकरोत् । सिद्धसेनोपि पूर्व-
गतश्रुतबलेन नृपभावमवगम्य दक्षिणं पाणिमुदस्य धर्मलाभाशिषं ददौ । नृपतिनाऽऽशी-
र्वादहेतुं पृष्टः सन् महर्षि:-'तव मानसनमस्कारस्याशीर्वादः प्रदीयमानोस्ती'त्यभिहिते तज्ज्ञा-
नचमत्कृतेन राज्ञा तत्पारितोषिके सुवर्णकोटिर्व्यतीर्यत् ।
 
८) अथान्यस्मिन्नवसरे राज्ञा कोशाध्यक्षस्तस्य दापितसुवर्णवृत्तान्तं पृष्टः प्राह-'यद्धर्मवहि-
कायां श्लोकबन्धेन मया सुवर्णदानं निहितम् ।' तथाहि-
 
६. धर्मलाभ इति प्रोक्ते दूरादुच्छ्रितपाणये । सूरये सिद्धसेनाय ददौ कोटिं धराधिपः ॥ ६
 
ततः श्रीसिद्धसेनसूरीन् सभायामाकार्य 'तत्सुवर्णं गृह्यतामि'ति प्रोक्ते, वृथा भुक्तस्य भोजन-
मित्युच्चारपुरःसरमनेन सुवर्णदानेन ऋणग्रस्तामवनीमनृणीकुरु इत्युपदिष्टे तत्सन्तोषपरितुष्टेन
राज्ञा तदङ्गीकृतम् ।