2023-08-01 20:12:52 by Pratik_Rumde
This page has been fully proofread once and needs a second look.
५) अथान्यस्मिन्नवसरे सभास्थितं श्रीविक्रमं सामुद्रिकशास्त्रवेदी कश्चिद्वैदेशिको द्वाःस्थ-
निवेदितः प्रविश्य नृपलक्षणानि निरीक्ष्यमाण: शिरोधूननपरो, नृपेण स विषादकारणं पृष्टः,
ऊचे-'देव! त्वां सर्वापलक्षणनिधिमपि षण्णवतिदेशसाम्राज्यलक्ष्मीं भुञ्जानमवेक्ष्य सामुद्रिक
शास्त्रे निर्वेदपरोऽभवम् । तत्किमपि कर्बुरान्त्रं न पश्यामि यत्प्रभावेण त्वमपि राज्यं कुरुषे' ।
इति तद्वाक्यानन्तरमेव कृपाणिकामाकृष्य यावदुदरे निधत्ते तावत्तेन 'किमेतदि'ति पृष्टः श्री-
विक्रमः प्राह-'उदरं विदार्य तव तद्विधमन्त्रं दर्शयिष्यामी'ति वदन्, 'द्वात्रिंशतोऽधिकमिदं
सत्त्वलक्षणं तव नावगतमि'ति पारितोषिकदानपूर्वकं नृपस्तं विससर्ज । इति सत्त्वपरीक्षा
प्रबन्धः ॥ ४ ॥
६) अथ कस्मिंश्चिदवसरे, परपुरप्रवेशविद्यया निराकृताः पराः" सर्वा अपि विफलाः कला
इति निशम्य तदधिगमाय श्रीपर्वते भैरवानन्दयोगिनः समीपे श्रीविक्रमस्तं चिरमारराध ।
तत्पूर्वसेवकेन केनापि द्विजातिना [राज्ञोऽग्रे इति कथितम्-यत्त्वया] 'मां विहाय परपुरप्रवेश-
विद्या गुरोर्नादेया ।' इत्युपरुद्धो नृपो विद्यादानोद्यतं गुरुं विज्ञपयामास-[यत्प्रथममस्मै द्विजाय
विद्यां देहि पश्चान्मह्यम् । हे राजन्] 'अयं विद्यायाः सर्वथाऽनर्ह' इति गुरुणोदिते, भूयोभूयः,
तव पश्चात्तापो भविष्यतीत्युपदिश्य, नृपोपरोधात्तेन विप्राय विद्या प्रदत्ता । ततः प्रत्यावृत्तौ
द्वावप्युज्जयिनीं प्राप्य पट्टहस्तिविपत्तिविषण्णं राजलोकमालोक्य परपुरप्रवेशविद्यानुभवनिमित्तं
च राजा निजगजशरीरे आत्मानं न्यवेशयत् । तद्यथा--
५. विप्रे प्राहरिके नृपो निजगजस्याङ्गेऽविशद्विद्यया, विप्रो भूपवपुर्विवेश, नृपतिः क्रीडाशुकोऽभूत्ततः ।
पल्लीगात्रनिवेशितात्मनि नृपे व्यामृश्य देव्या मृतिं, विप्रः कीरमजीवयन्, निजतनुं श्रीविक्रमो लब्धवान् ॥ ५
इत्थं श्रीविक्रमार्कस्य परपुरप्रवेशविद्या सिद्धा । इति विद्यासिद्धिप्रबन्धः ॥ ५ ॥
निवेदितः प्रविश्य नृपलक्षणानि निरीक्ष्यमाण: शिरोधूननपरो, नृपेण स विषादकारणं पृष्टः,
ऊचे-'देव! त्वां सर्वापलक्षणनिधिमपि षण्णवतिदेशसाम्राज्यलक्ष्मीं भुञ्जानमवेक्ष्य सामुद्रिक
शास्त्रे निर्वेदपरोऽभवम् । तत्किमपि कर्बुरान्त्रं न पश्यामि यत्प्रभावेण त्वमपि राज्यं कुरुषे' ।
इति तद्वाक्यानन्तरमेव कृपाणिकामाकृष्य यावदुदरे निधत्ते तावत्तेन 'किमेतदि'ति पृष्टः श्री-
विक्रमः प्राह-'उदरं विदार्य तव तद्विधमन्त्रं दर्शयिष्यामी'ति वदन्, 'द्वात्रिंशतोऽधिकमिदं
सत्त्वलक्षणं तव नावगतमि'ति पारितोषिकदानपूर्वकं नृपस्तं विससर्ज । इति सत्त्वपरीक्षा
प्रबन्धः ॥ ४ ॥
६) अथ कस्मिंश्चिदवसरे, परपुरप्रवेशविद्यया निराकृताः पराः