This page has not been fully proofread.

प्रबन्धचिन्तामणिः ।
 
[ प्रथमः
 
५) अथान्यस्मिन्नवसरे समास्थितं श्रीविक्रमं सामुद्रिकशास्त्रवेदी कश्चिद्वैदेशिको द्वाःस्थ-

निवेदितः प्रविश्य नृपलक्षणानि निरीक्ष्यमाण: शिरोधूननपरो, 'नृपेण स विषादकारणं पृष्टः,

ऊचे- 'देव ! त्वां' सर्वापलक्षणनिधिमपि षण्णवतिदेशसाम्राज्यलक्ष्म भुञ्जानमवेक्ष्य सामुद्रिक

शास्त्रे निर्वेदपरोऽभवम् । तत्किमपि कर्बुरा न पश्यामि यत्प्रभावेण त्वमपि राज्यं कुरुषे" ।

5 इति ताक्यानन्तरमेव कृपाणिकामाकृष्य' यावदुद निधत्ते तावत्तेन 'किमेतदि' ति पृष्टः श्री-

विक्रमः प्राह - 'उदरं विदार्य तव तद्विधमत्रं दर्शयिष्यामीति वदन्, 'द्वात्रिंशतोऽधिकमिदं"

सत्त्वलक्षणं तव " नावगतमि' ति पारितोषिकदानपूर्वकं नृपस्तं विससर्ज । इति सत्त्वपरीक्षा

प्रबन्धः ॥ ४ ॥
 
16
 

 
६) अथ "कस्मिंश्चिदवसरे, परपुरप्रवेशविद्यय निराकृतः पराः" सर्वा अपि विफलाः कला
10

इति निशम्य तदघिगमाय श्रीपर्वते भैरवानन्दयोगिनः समीपे श्रीविक्रमस्तं चिरमारराध ।

तत्पूर्वसेवकेन केनापि" द्विजातिना [राज्ञोऽग्रे इति कथितम्-यत्वया ] 'मां विहाय परपुरप्रवेश-

विद्या गुरोर्नादेया ।' इत्युपरूद्धो नृपो विद्यादानोधतं गुरुं विज्ञपयामास - [यत्प्रथममस्मै द्विजाय

विद्यां देहि पश्चान्मह्यम् । हे राजन् ] 'अयं विद्यायाः सर्वथाऽनह' इति गुरुणोदिते, भूयोभूयः,

तव पश्चात्तापो भविष्यतीत्युपदिश्य, नृपोपरोधात्तेन विप्राय विद्या प्रदत्ता । ततः प्रत्यावृत्तौ

15 द्वावप्युज्जयिनीं प्राप्य पट्टहस्तिविपत्तिविषण्णं राजलोकमालोक्य परपुरप्रवेश विद्यानुभवनिमित्तं

च राजा निजगजशरीरे आत्मानं न्यवेशयत् । तद्यथा-

*
 

 
५. विप्रे" ग्राहरिके नृपो निजगजस्याङ्गेऽविशद्विद्यया, विप्रो भूपचपुर्विवेश, नृपतिः क्रीडाशुकोऽभूत्ततः । *

पल्लीगात्रनिवेशितात्मनि नृपे व्यामृश्य देव्या मृर्ति", विप्रः कीरमजीवयन्, निजतनुं श्री विक्रमो लब्धवान् ॥ ५

इत्थं श्रीविक्रमार्कस्य परपुरप्रवेशविद्या सिद्धा। इति विद्यासिद्धिप्रबन्धः" ॥ ५ ॥
 

 
1 P आदर्श 'कश्चिकवादिविको' इत्येवंरूपोऽपपाठः । 2 एतद् वाक्यस्थाने B आदर्श 'नृपेणोचे सविपादं कथं त्वं पृष्टः'

एतादृशं वाक्यम् । 3 'देव त्वां' स्थाने D 'यवां' ।

4 B सामुद्रशा० । 5A करोति; D करोषि । 6AD ' एव'

नास्ति । 7 AD ● मादाय । 8 BP नास्ति । 9 B०मश्रं च । 10 B ० शतोदितमिदं । 11 A तवावगत ०;

D तव

नोवगत● । + केवलं Da-b आदर्शयोः इदं वाक्यं लभ्यते । 12 B कस्मिन्नवसरे । 13 A परप्रवेश । 14 B विद्या० ।

15 P विद्यया विनाकृताः । 16 B वि हाय 'पराः' नास्ति । 17 B सेवकेनापि द्विजन्मना । 1 एपः पाठः BP सम्झके आदर्शे-

अनुपलभ्यः । 18 A. विज्ञापया० । 19 ADB भूपः प्राहरिके द्विजे । 20 B पल्लीं; P भृंगी ।

21 B मृतं ।

22 B विप्रं ।
 

 
*
 

 
अस्य पद्यस्य द्वितीय तृतीययोः पादयोर्मध्ये P संज्ञके आदर्श निम्नावतारितः कियानधिकः पाठः प्रक्षिप्तो दृश्यते-

"शुकोक्तिः–(३) 'यमी किं ध्यायते ध्याने गुरवे क्रियते किमु । प्रतिपक्षं सतां कीडगादौ छात्राः पठन्ति किम् ॥ ॐ नमः सिद्धं ।

राज्ञी कथयति – (४) किं जीवियस्स चिह्नं का भज्जा होइ मयणरायस्स का पुष्फाण पहाणा परिणीया किं कुणइ बाला ॥ सासुरइजाइ ।

शुकोतिः– (५) 'निवरुद्द प्र (?) णाण मज्झे कामिणी हारो न होइ रे सुहय । तकहिओ वि न याणसि पंडिय गव्वं किमुष्वहसि ॥"

23 P एवं श्रीविक्रमपरपुरप्रवेशविद्यासिद्धिः । 24 Da आदर्श एवेदं समाप्तिवाक्यं दृश्यते ।
 

 
अन्त्र, विद्यासिद्धिप्रबन्धानन्तरं ]) पुस्तकस्थस्य परिशिष्टानुसारेण कस्मिंश्चिदादर्शे निम्नलिखितोवृत्तान्तोऽधिक उपलभ्यते ।

"एकदा नृपो गुरुवन्दनाय गतः । तत्र वृद्धं कमपि तपस्विनं पठन्तं वन्दयामास । तेन नाशीर्निगदिता पठनव्यप्रेण । राज्ञोकं वृद्ध !

पठनू मुशलं फुल्लावयिष्यसि ? । तदवगम्य तेन पठित्वा सूरिपदे प्राप्ते तस्यैव राज्ञः सदसि गत्या मुशलमानाय्यालवालं विधाय श्रीऋषभ-

देवस्तवेन मुशलं पुष्पयित्वा गतः तावता सिद्धसेनेनापि तदनगत्य वादाय पृष्ठे गतम् । परेण केतलारसग्रामं व्रजन् बृद्धवादी रूदः ।

वादं विधेहीति । तेनोकं पुरे गम्यते, तत्र सभ्या भवन्ति । पुनः प्रतिवादिनोचे- अत्रैव वादः । अमी गोपाः सभ्याः । तेऽप्याकारिताः ।

प्रथमं सिद्धसेनेनोपन्यासो विहितो गीर्वाणवाण्या । तदनु वृद्धवादिना गण्ठीयकं बद्ध्वा गोपकुण्डकं विधाय प्रोचे-