2023-08-01 20:08:44 by Pratik_Rumde
This page has been fully proofread once and needs a second look.
कुमारसम्भवप्रभृतिमहाकाव्यत्रयषट्प्रबन्धान् रचयामास । इति कालिदासोत्पत्तिप्रबन्धः ॥ १ ॥
३) अन्यदा तन्नगरवास्तव्यो दान्ताभिधानश्रेष्ठी सभासंस्थितं विक्रमार्कमुपायनपाणिरुपा-
गत्य प्रणामपूर्वकं विज्ञपयामास-'स्वामिन्! मया शुभे मुहूर्त्ते प्रधानवर्द्धकिभिर्द्धवलगृहं कारि-
तम् । तत्र महतोत्सवेन प्रवेशः कृतः । यावदहं तत्र निशीथे पल्यङ्कस्थितः सुप्तजाग्रदव-
स्थया तिष्ठामि, तावत्, पतामीत्याकस्मिकीं गिरं निशम्य, भयभ्रान्तो मा पतेत्युदीरयंस्तदैव
पलायनमकार्षम् । तस्य धवलगृहस्य सम्बन्धे नैमित्तिकैः स्थपतिभिश्च यथावसरमर्हणा-
दिभिः सत्कारैर्वृथादण्डितः । इत्यर्थे देवः प्रमाणम्' । तमुदन्तं सम्यगवधार्य तदुक्तं तद्धवल-
गृहमूल्यं लक्षत्रयं तस्मै प्रदाय सन्ध्यायां सर्वावसरानन्तरं तस्मिन्नात्मीयीकृते सौधे श्रीविक्रमः
सुखं प्रसुप्तः । तामेव पतामीति गिरमाकर्ण्यासमसाहसिकतया सत्वरं पतेत्युदीरयन् समीपे
पतितं सुवर्णपुरुषं प्राप । इत्थं [सुवर्ण] पुरुषसिद्धिः ॥ २ ॥
४) अथान्यस्मिन्नवसरे कश्चिद्दुर्विधः पुरुषः करकृतलोहमयकृशतरदरिद्रपुत्रको द्वाःस्थनिवे-
दितो नृपं प्राह-'स्वामिन्! भवता नाथेन प्रथितायामवन्त्यां सर्वाण्यपि वस्तूनि सत्वरमत्र
विक्रयं यान्ति लभन्ते चेति प्रसिद्धिं बुद्ध्वा चतुरशीतिसंख्येषु चतुःपथेष्वहोरात्रं विक्रयाय
दरिद्रपुत्रको भ्ररामितोऽपि केनापि न गृहीतः । प्रत्युताहं निर्भर्त्सितः । इति नगर्या यथावस्थितं
कलङ्कं महाराज्ञे विज्ञप्य यथागतं व्रजामीत्यापृच्छन्नस्मि । तदैव तं महान्तं कलङ्कपङ्कं पुर्याः पर्या-
लोच्य दीनारलक्षं तस्मै प्रदाय नृपस्तं दरिद्रलोहपुत्रकं कोशे निवेशयामास । तस्यामेव निशि
प्रथमयामे सुखप्रसुप्तस्य राज्ञः समीपे गजाधिष्ठातृदैवतम्, द्वितीययामे हयाधिष्ठातृदैवतम्, तृती-
ययामे लक्ष्मीश्चाविर्भूय 'महाराज्ञा दारिद्र्यपुत्रके क्रीते नास्माकमिहावस्थातुमुचितमि'त्यापृच्छ्य,
राज्ञा साहसभङ्गो माभूदित्यनुज्ञातानि तानि जग्मुः । चतुर्थयामे तु कश्चिदुदारपुरुषो दिव्य-
तेजोमयमूर्त्तिः प्रादुर्भूय 'अहं सत्त्वनामा भवन्तमापृच्छे' इत्युदिते करतलेन नृपः कृपाणि-
कामादाय यावदात्मघाताय व्यवस्यति तावत्तेनैव करे गृहीत्वा तुष्टोऽस्मीत्यभिधाय स्खलितः ।
गजाद्यधिष्ठातॄणि त्रीणि दैवतानि प्रत्यावृत्य नृपं प्रोचुः-'गमनसङ्केतव्याघातिना सत्त्वेन विप्रल-
ब्धानां नृपं विहाय नास्माकं गमनमुचितमि'ति तान्यप्ययत्नं तस्थुः ।
[१] अर्थास्तावद् गुणास्तावद् तावत्कीर्तिः समुज्ज्वला । यावत्खेलसि सत्त्व त्वं चित्तपत्तनमध्यमः(गः) ॥
[२] [राज्यं यातु स्त्रियो यान्तु यातु श्लोकोऽपि लोकतः । न ते गमनमाजीवमनुमन्यामहे वयम् ॥
इति विक्रमादित्यसत्त्वप्रबन्धः ॥ ३ ॥
३) अन्यदा तन्नगरवास्तव्यो दान्ताभिधानश्रेष्ठी सभासंस्थितं विक्रमार्कमुपायनपाणिरुपा-
गत्य प्रणामपूर्वकं विज्ञपयामास-'स्वामिन्! मया शुभे मुहूर्त्ते प्रधानवर्द्धकिभिर्द्धवलगृहं कारि-
तम् । तत्र महतोत्सवेन प्रवेशः कृतः । यावदहं तत्र निशीथे पल्यङ्कस्थितः सुप्तजाग्रदव-
स्थया तिष्ठामि, तावत्, पतामीत्याकस्मिकीं गिरं निशम्य, भयभ्रान्तो मा पतेत्युदीरयंस्तदैव
पलायनमकार्षम् । तस्य धवलगृहस्य सम्बन्धे नैमित्तिकैः स्थपतिभिश्च यथावसरमर्हणा-
दिभिः सत्कारैर्वृथादण्डितः । इत्यर्थे देवः प्रमाणम्' । तमुदन्तं सम्यगवधार्य तदुक्तं तद्धवल-
गृहमूल्यं लक्षत्रयं तस्मै प्रदाय सन्ध्यायां सर्वावसरानन्तरं तस्मिन्नात्मीयीकृते सौधे श्रीविक्रमः
सुखं प्रसुप्तः । तामेव पतामीति गिरमाकर्ण्यासमसाहसिकतया सत्वरं पतेत्युदीरयन् समीपे
पतितं सुवर्णपुरुषं प्राप । इत्थं [सुवर्ण]
४) अथान्यस्मिन्नवसरे कश्चिद्दुर्विधः पुरुषः करकृतलोहमयकृशतरदरिद्रपुत्रको द्वाःस्थनिवे-
दितो नृपं प्राह-'स्वामिन्! भवता नाथेन प्रथितायामवन्त्यां सर्वाण्यपि वस्तूनि सत्वरमत्र
विक्रयं यान्ति लभन्ते चेति प्रसिद्धिं बुद्ध्वा चतुरशीतिसंख्येषु चतुःपथेष्वहोरात्रं विक्रयाय
दरिद्रपुत्रको भ्