This page has not been fully proofread.

तानि करतलाभ्यामादाय, स मुखमारुतेन तद्रजोऽपनयन्, राजकन्यया सोपहासमभिदधे-
'किमत्युष्णान्यमूनि वदनवातेन शिशिरीकुरुषे?' इति तस्याः सोपहासवचसा सामर्षः स द्विजः
प्राह-'रे विदग्धमानिनि ! गुरुवितर्कपराया भवत्याः पशुपाल एव पतिरस्तु' इति तच्छापं श्रुत्वा
तयोक्तं-'यस्तव त्रैविद्यस्याप्यधिकविद्यतया परमगुरुस्तमेव विवाहयिष्यामि ।' सेति प्रतिज्ञात-
5वती । अथ श्रीविक्रमे तदुचितप्रवरवरचिन्तासमुद्रमग्ने स पण्डितः कदाचिदभिलषितवरनिवे-
दनोत्सुकीकृतराजशासनादरण्यानीमवगाहमानोऽतितृष्णातरलितः सर्वतः सर्वतोमुखाभावात्
पशुपालमेकमालोक्य जलं याचितवान् । तेनापि जलाभावाद्दुग्धं पिबे'त्युक्त्वा 'करचंडीं विधेही'-
त्यभिहिते सर्वेष्वभिधानेषु अभिधानमिदमश्रुतचरमाकर्ण्य चिन्ताचान्तस्वान्तः स्वहस्तं तन्म-
स्तके दत्त्वा महिष्यास्तले निवेश्य च करचंडीसञ्ज्ञां करतलयुगलयोजनां कारयित्वा आकण्ठं
पयः पायितः । स तं मस्तकहस्तदानात् करचंडीविशेषशब्दज्ञापनाच्च गुरुप्रायं मन्यमानस्तस्याः
समुचितपतिमवगम्य महिषीपरिहारात्तं निजं सौधमानीय षण्मासीं यावत्तद्वपुःपरिकर्मणापूर्वं
'ॐ नमः शिवाय' इत्याशीर्वादाध्यापनं कारितः । षड्भिर्मासैस्तस्य तान्यक्षराणि कण्ठपीठस्थि-
तान्यवगम्य, शुभे मुहूर्त्ते कृतशृङ्गारः स पण्डितेन नृपसभां नीतो नृपं प्रति सदभ्यस्तमाशी-
र्वादं सभाक्षोभवशाद् 'उशरट' इत्यक्षरैर्जगौ। तस्य विसंस्थूलवचसा विस्मितस्य नृपतेरसतीं
तच्चातुरीमारोपयितुकामः स पण्डितः--
 
४. उमया सहितो रुद्रः शङ्करः शूलपाणिभृत् । रक्षतु त्वां महीपाल टङ्कारबलगर्वितः ॥ ४
 
इति विदितेन श्लोकेन तत्पाण्डित्यगम्भीरतां वचनविस्तरेण व्याख्यातवान् । तत्प्रत्ययप्रीतेन
नृपतिना स महिषीपाल: स्वां पुत्रीं परिणायितः । पण्डितोपदिष्टं सर्वथा मौनमेवालम्बमानो
राजकन्यकया तद्वैदग्ध्यजिज्ञासया नवलिखितपुस्तकस्य शोधनायोपरुद्धः । करतले पुस्तकं वि-
न्यस्य तदक्षराणि बिन्दुमात्रारहितानि नखच्छेदिन्या केवलान्येव कुर्वन् राजपुत्र्या मूर्खोऽयमिति
निर्णीतः । ततःप्रभृति जामातृशुद्धिरिति सर्वतः प्रसिद्धिरभूत् । कदाचिच्च चित्रभित्तौ महिषी-
निवहे दर्शिते सति प्रमोदात्स्वप्रतिष्ठां विस्मृत्य तदाह्वानोचितानि विकृतिवचनान्युच्चरन्महिषीपाल
इति तया निश्चिक्ये । स तां तदवज्ञामाकलय्य कालिकां देवीं विद्वत्ताकृते आरराध । पुत्री-
वैधव्य भीतेन राज्ञा निशि च्छद्मना दासीं प्रहित्य, तवाहं तुष्टास्मीत्यभिधाय, यावत्स उत्थाप्यते
तावद्विप्लवभीता कालिकैव देवी प्रत्यक्षीभूय तमनुजग्राह । तद्वृत्तान्तावबोधात्प्रमुदितया राज-
कन्यया तत्रागत्य 'अस्ति कश्चिद्वाग्विशेषः' इत्यभिहिते, स तदैव कालिदासनाम्ना प्रसिद्धः