This page has been fully proofread once and needs a second look.

राज्ञा मित्रधर्ममधिकमधिरोप्य इत्युपरुद्धः–'यन्महेन्द्रपार्श्वादेकेन हायनेन हीनमधिकं
वा वर्षशतं कारयेति' । स तदङ्गीकृत्य भूयोऽभ्युपेतः सन्निति वाचमुवाच-'महेन्द्रेणापि न
नवनवतिर्नैकोत्तरं वर्षशतं भवति' । इति निर्णये ज्ञाते, यावत्परस्मिन् दिने तद्योग्यं भक्ष्यभो-
ज्यादिपाक"कं निषिद्ध्य, नृपः संग्रामसज्जो भूत्वा निशि तस्थौ । तावत्तत्रैव रीत्या समुपागतः
सन् तद्भोज्यादिकमवीक्ष्य क्रुद्धो राजानमधिचिक्षेप । तयोश्चिरं द्वन्द्वयुद्धे जायमाने सुकृत-
सहायेन राज्ञा तं पृथ्वीतले पातयित्वा, हृदि चरणमारोप्य-'इष्टं दैवतं स्मरेत्यादिष्टः स नृपं
जगौ- 'तवाद्भुतसाहसेनाहं परितुष्टोऽस्मि; यत्कृत्यादेशकारी अग्निवेतालनामाहं तव सिद्धः' ।
एवं निष्कण्टकं तस्य राज्यमजनि । इत्थं तेन पराक्रमाक्रान्तदिग्वलयेन षण्णवति प्रतिनृप-
तिमण्डलानि स्वभोगमानिन्ये ।
 
३. वन्यो हस्ती स्फटिकघटिते भित्तिभागे स्वबिम्बं दृष्ट्वा दूरात्प्रतिगज इति त्वद्द्विषां मन्दिरेषु ।
हत्वा कोपाद्गलितरदनस्तं पुनर्वीक्ष्यमाणो मन्दं मन्दं स्पृशति करिणीशङ्कया साहसाङ्कः ॥ ३
 
कालिदासाद्यैर्महाकविभिरित्थं संस्तूयमानश्चिरं प्राज्यं साम्राज्यं बुभुजे ।
 
साम्प्रतमवसरायातां श्रीकालिदासमहाकवेरुत्पत्तिं संक्षेपतो ब्रूमः ।
 
२) अवन्त्यां पुरि श्रीविक्रमादित्यराज्ञ: * सुता प्रियङ्गुमञ्जरी । साऽध्ययनाय वररुचिनाम्नः
पण्डितस्य समर्पिता । सा प्राज्ञतया सर्वाणि शास्त्राणि तत्पार्श्वे कियद्भिर्वासरैरधीत्य, यौवन-
भरवर्तमाना जनकं नित्यमाराधयन्ती, कदाचिद्वसन्तसमये वर्तमाने गवाक्षे सुखासनासीना,
मध्यन्दिनप्रस्तावे ललाटन्तपे तपने पथि सञ्चरन्तमुपाध्यायमालोक्य वातायनच्छायासु वि-
श्रान्तं तमुवाच । परिपाकपेशलानि सहकारफलानि दर्शयन्ती तं तल्लोलुभमवबुध्य-'अमूनि
फलानि शीतलान्युष्णानि वा तुभ्यं रोचते'-इति तद्वचनचातुरीतत्त्वमनवबुध्य 'तान्युष्णान्ये-
वाभिलषामी'ति तेनोक्ते तदुपढौकितवस्त्राञ्चले तिर्यक् तानि मुमोच । भूतलपाताद्रजोऽवगुण्ठि-