2023-08-01 19:51:22 by Pratik_Rumde
This page has been fully proofread once and needs a second look.
करतलेन संस्पृश्य, हा दैवमित्युदीरयन् घाते पातिते सति दुर्गतो यथाप्राप्त्या रत्नानि लभते' । स
वृत्तान्तममुं तस्मात्सम्यगवगम्य विक्रमेण तद्दैन्यं कारयितुमक्षमस्तान्युपकरणानि सहादाय
रत्नखननार्थं खनीमध्ये प्रहारोद्यतं विक्रममभिदधे--'यत् कश्चिदवन्त्याः समागतो वैदेशिकः स्व-
गृहकुशलोदन्तं पृष्टो भवन्मातुः पञ्चत्वमाचख्यौ' । तत्तप्तवज्रशूचीनिभं वचो निशम्य ललाटं
करतलेनाहत्य, हा दैवमित्युचरन् खनित्रं करतलाच्चिक्षेप । तेन खनित्राग्रेण विदारितायां भुवि
देदीप्यमानं सपादलक्षमूल्यं रत्नं प्रादुरासीत् । भट्टमात्रस्तदादाय विक्रमेण सह प्रत्यावृत्तः ।
तच्छोकशङ्कुशङ्कापनोदाय खनीवृत्तान्तज्ञापनपूर्वं तत्कालमेव मातुः कुशलमुक्तवान् । विक्रमः
सहजां लोलुभतां विमृश्य भट्टमात्रस्य क्रुधा तत्कराद्रत्नमाच्छिद्य पुनः खनीकण्ठे प्राप्तः ।
२. धिग् रोहणं गिरिं दीनदारिद्र्यव्रणरोहणम् । दत्ते हा दैवमित्युक्ते रत्नान्यर्थिजनाय यः ॥ २
इत्युदीर्य सकललोकप्रत्यक्षं तत्रैव तद्रत्नमुत्सृज्य पुनर्देशान्तरं परिभ्राम्यन्नवन्तिपरिसरे प्राप्तः ।
पटुपटहध्वनिमाकर्ण्य वृत्तान्तमवबुध्य च तं छुप्तवान् । तेन समं स राजमन्दिरे समायातः ।
तस्मिन्नेवापृष्टे मुहूर्त्ते अहोरात्रप्रमिते राज्ये सचिवैरभिषिक्तो दीर्घदर्शितयेति दध्यौ--यदस्य
राज्यस्य प्रबलः कोऽप्यसुरः सुरो वा क्रुद्धः सन् प्रतिदिनमेकैकं नृपं संहरति । नृपाभावे च
देशविनाशं करोति । अतो भक्त्या शक्त्या वा तदनुनयः समुचित इति--नानाविधानि भक्ष्यभो-
ज्यानि निर्माप्य, प्रदोषसमये चन्द्रशालायां सर्वमपि सज्जीकृत्य, निशारात्रिकावसरानन्तर-
मङ्गरक्षैर्नृपस्तत्र भारशृङ्खलायां निहितपल्यङ्के निजपट्टदुकूलाच्छादितमुच्छीर्षकं नियोज्य स्वयं
प्रदीपच्छायामाश्रितः कृपाणपाणिर्धैर्यनिर्जितजगत्त्रयो दिगवलोकनपरो यावदास्ते; तावन्महा-
निशीथसमये वातायनद्वारेण प्रथमं धूमम्, ततो ज्वालाम्, ततः साक्षात्प्रेतप्रतिरूपमिव करालं
वेतालमालोकितवान् । स च बुभुक्षाक्षामकुक्षिस्तानि भोज्यानि यदृच्छयोपभुज्य, गन्धद्रव्यैश्च
स्वशरीरं विलिप्य, ताम्बूलास्वादनेन परितुष्टस्तत्र पल्यङ्के समुपविश्य श्रीविक्रमं प्राह-'रे मनुज!
अहमग्निवेतालनामा देवराजप्रतीहारतया प्रतीतः प्रतिदिनमेकैकं नृपं निहन्मि । किं तु तवा-
नया भक्त्या प्रीणितेन मयाऽभयदानपूर्वं तव राज्यं प्रदत्तम् । परमेतावद्भक्ष्यभोज्यानि मम
सदैवोपढौकनीयानि।' इत्थमुभाभ्यामपि प्रतिपन्ने कियत्यपि गते काले श्रीविक्रमेण राज्ञा
निजमायुः पृष्टः-'नाहं वेद्मि, किं तु स्वस्वामिनं विज्ञप्य भवन्तं ज्ञापयिष्यामि' इत्युक्त्वा
गतः । पुनरन्यस्यां निशि समेत:-'महेन्द्रेण त्वं सम्पूर्णवर्षशतायुरादिष्ट' इति तं जगौ । स