This page has not been fully proofread.


 
प्रबन्धचिन्तामणिः ।
 
[ प्रथमः
 
,
 
करतलेन संस्पृश्य, हा दैवमित्युदीरयन् घाते पातिते सति दुर्गतो यथाप्रास्या रत्नानि लभते' । स
वृत्तान्तममुं तस्मात्सम्यगवगम्य विक्रमेण तदैन्यं कारयितुंमक्षमस्तान्युपकरणानि सहादाय
रत्नखननार्थ खनीमध्ये प्रहारोद्यतं विक्रममभिधे- 'यत्' कश्चिदवन्त्याः समागतो वैदेशिकः 'ख-
गृहकुशलोदन्तं पृष्टो भवन्मातुः पञ्चत्वमाचख्यौ' । तत्ततवज्रशूचीनिभं वचो निशम्य ललाटं
5 करतलेनाहत्य, हा दैवमित्युचरन् खनित्रं करतलाचिक्षेप । तेन खनित्राग्रेण विदारितायां भुवि
देदीप्यमानं सपादलक्षमूल्यं रत्नं प्रादुरासीत् । 'भट्टमात्रस्तदादाय विक्रमेण सह प्रत्यावृत्तः ।
तच्छोकशङ्कुशङ्कापनोदाय' खनीवृत्तान्तज्ञापनपूर्वं तत्कालमेव मातुः कुशलमुक्तवान् । विक्रमः"
सहजां लोलुभतां विमृश्य भट्टमात्रस्य क्रुधा तत्कराद्रलमाच्छिद्य पुनः खनी कण्ठे प्राप्तः ।
 
18
 
25
 
२. घिग् रोहणं गिरिं दीनदारिद्र्यव्रणरोहणम्" । दचे हा दैवमित्युक्ते रत्नान्यर्थिजनाय यः ॥ २
10 इत्युदीर्य सकललोकप्रत्यक्षं तत्रैव तद्रत्नमुत्सृज्य पुनर्देशान्तरं "परिभ्राम्यन्नवन्तिपरिसरे" प्राप्तः ।
पडपटहध्वनिमाकर्ण्य " वृत्तान्तमवबुध्य च तं छुप्तवान् । तेन समं स राजमन्दिरे समायातः ।
तस्मिन्नेवापृष्टे मुहूर्चे अहोरात्रप्रमिते राज्ये सचिवैरभिषिक्तो दीर्घदर्शितयेति दध्यौ– यदस्य
राज्यस्य " प्रबल : " कोऽप्यसुरः" सुरो वा क्रुद्धः सन् प्रतिदिनमेकैकं नृपं संहरति । नृपाभावे च
देशविनाशं करोति । अतो भक्त्या" शक्त्या वा तदनुनयः समुचित इति - नानाविधानि भक्ष्यभो
15 ज्यानि निर्माप्य," प्रदोषसमये चन्द्रशालायां सर्वमपि सज्जीकृत्य, निशारात्रिकावसरानन्तर-
मङ्गरक्षैर्नृपस्तत्र भारशृङ्खलायां निहितपैल्य निजपदुकूलाच्छादितर्मुच्छीर्षकं नियोज्य स्वयं
प्रदीपच्छायामाश्रितः कृपाणपाणिधैर्यनिर्जितर्जंगत्रयो दिगवलोकनपरो यावदास्ते; तावन्महा-
निशीथसमये वातायनद्वारेण प्रथमं धूमम्, ततो ज्वालाम्, ततः साक्षात्प्रेतप्रतिरूपमिव करालं
वेतालैमालोकितवान् । स च बुभुक्षाक्षामकुक्षिस्तानि भोज्यानि यदृच्छयोपभुंज्य, गन्धद्रव्यैश्च
20 खशरीरं विलिप्य, ताम्बूलाखादनेनं परितुष्टस्तत्र पल्यङ्के समुपविश्य श्रीविक्रमं प्राह - 'रे मनुजै !
अहमग्निवेतालनामा देवराजप्रतीहारतया प्रतीतः प्रतिदिनमेकैकं नृपं निर्हन्मि । किं तु तवा-
नया "भक्त्या प्रीणितेन मयाऽभयदानपूर्व तव राज्यं प्रदत्तम् । परमेतावद्भक्ष्यभोज्यानि" मम
सदैवोपढौकनीयानि"।' इत्थमुभाभ्यामपि प्रतिपन्ने कियत्यपि गते काले श्रीविक्रमेण राज्ञा
निजमायुः पृष्टः- 'नाहं वेझि, किं तु स्वखामिनं विज्ञप्य" भवन्तं ज्ञापयिष्यामि' इत्युक्त्वा
25 गतः । पुनरन्यस्यां निशि समेत:- 'महेन्द्रेण त्वं" सम्पूर्णवर्षशतायुरादिष्ट' इति तं जगौ । स
 
34
 
89
 
1 A करतालेन । 2 A पतिते । 3 Da समादाय; Db आदाय । 4 Da तात कबित; Db देवः कश्चित्; B ततः
5 AD स्वगृहे । 6 Db आदर्श एतस्माद्वाक्याद 'भाग्येन किं न घटते यतः -
 
क० ।
 

 
(१) यद्यपि कृतसुकृतशतः प्रयाति गिरिकन्दरान्तरेषु नरः । करकलितदीपकलिका तथापि लक्ष्मीस्तमनुसरति ॥' एतावानधिकः पाठः ।
7 B स भट्ट० । 8 B शोकशंकापनोदाय; Da-b शोकापनोदाय । 9AB ज्ञापना० । 10 Da विक्रमस्तदानीं । 11 D& व्रणरोपणं ।
12 B • भ्रमण । 13 D परिसर; B● देशपरिसरे । 14A B तं वृत्ता० । 15 Db राज्ये; B राजा । 16 B सार्थबलः ।
17 B कोपि ऽसुरः सुरो वा; P कोपि सुरो असुरो वा । 18D'थ' नास्ति । 19 A 'शक्त्या' नास्ति; B शक्त्याशक्त्या वा; Darb
यथाशक्त्या भक्त्या था । 20 P भक्ष्यस्खायानि । 21 P विधाप्य; De निर्माय । 22 D • वृंतस्तत्र । 23 AP लिहितः ।
 
27 कराळवेतालं ।
 
28 A. भुंज्य ।
 
33 BP हन्मि ।
 
34 BP 'किंतु '
 
पल्यं० ।
24 A ० मुत्सीर्षकं । 25 AD माश्रित्य 26 B निर्जितजयविजयो ।
29 B● स्वादेन । 30 B मनुष्य; P सतुष्टा । 31 P देवराजेन । 32 P विहितः ।
नास्ति ।
35 BP ऽत्यन्तभक्त्या । 36 Da b० एतद् ० । 37 BP ●भोज्यादि । 38
40 D विज्ञाप्य । 41 D विज्ञाप; Da विज्ञप० । 42D 'एवं' नास्ति । 43P विनानान्यत्र 'संपूर्ण' नास्ति ।
 
BP० नीयम् । 39P 'अपि' नास्ति ।
 
v