2023-07-31 10:13:09 by Pratik_Rumde
This page has not been fully proofread.
श्रीमेरुतुङ्गाचार्यविरचितः-
प्रबन्धचिन्तामणिः ।
॥ ॐ नमः सर्वज्ञाय ॥
श्रीनाभिभूर्जिनः पातु परमेष्ठी भवान्तकृत् । श्रीभारत्योश्चतुर्द्वारमुचितं यच्चतुर्मुखी ॥ १
नृणामुपलतुल्यानां यस्य द्रावकरः करः । ध्यायामि तं कलावन्तं गुरुं चन्द्रप्रभं प्रभुम् ॥ २
गुम्फान्विधूय विविधान्सुखबोधाय धीमताम् । श्रीमेरुतुङ्गस्तद्गद्यबन्धाद् ग्रन्थं तनोत्यमुम् ॥ ३
रत्नाकरात्सद्गुरुसम्प्रदायात्प्रबन्धचिन्तामणिमुद्दिधीर्षोः ।
श्रीधर्मदेवः शतधोदितेतिवृत्तैश्च साहाय्यमिव व्यधत्त ॥ ४
श्रीगुणचन्द्रगणेशः प्रबन्धचिन्तामणिं नवं ग्रन्थम् ।
भारतमिवाभिरामं प्रथमादर्शेऽत्र दर्शितवान् ॥ ५
भृशं श्रुतत्वान्न कथाः पुराणाः प्रीणन्ति चेतांसि तथा बुधानाम् ।
वृत्तैस्तदासन्नसतां प्रबन्धचिन्तामणिग्रन्थमहं तनोमि ॥ ६
बुधैः प्रबन्धाः स्वधियोच्यमाना भवन्त्यवश्यं यदिमिभिन्नभावाः ।
ग्रन्थे तथाप्यत्र सुसम्प्रदायाद् दृब्धे न चर्चा चतुरैर्विधेया ॥ ७
[ १. अथ विक्रमार्कप्रबन्धाः । ]
१. अन्त्योऽप्याद्यः समजनि गुणैरेक एवावनीशः शौर्यौदार्यप्रभृतिभिरिहोर्वीतले विक्रमार्कः ।
श्रोतुः श्रोत्रामृतसवनवत्तस्य राज्ञः प्रबन्धं संक्षिप्योच्चैर्विपुलमपि तं वच्मि किञ्चित्तदादौ ॥ १
१) तथाहि--अवन्तिदेशे सुप्रतिष्ठाननामनि नगरेऽसमसाहसैकनिधिर्दिव्यलक्षणलक्षितो
कर्मविक्रमादिगुणैः सम्पूर्णो विक्रमनामा राजपुत्र आसीत् । स पुनराजन्मदारिद्र्योपद्रुतोऽप्य-
तिनीतिपरः सन् परःशतैरप्युपायैरर्थाननुपलभमानः कदाचिद्भट्टमात्रमित्रसहायो रोहणाचलं
प्रति प्रतस्थे । तत्र तदासन्ने प्रवरनामनि नगरे कुलालस्यालये विश्रम्य प्रभातसमये स
भट्टमात्रेण खनित्रं याचितः । प्राह-'अत्र खनीमध्यमध्यास्य प्रातः पुण्यश्रावणापूर्वं ललाटं

बुधैः प्रबन्धाः स्वधियोच्यमाना भवन्त्यवश्यं यदि