This page has not been fully proofread.

श्रीमेरुतुङ्गाचार्यविरचितः-
 
प्रबन्धचिन्तामणिः ।
 
॥ ॐ नमः सर्वज्ञाय[^1]
 
श्रीनाभिभूर्जिनः पातु परमेष्ठी भवान्तकृत् । श्रीभारत्यो[^2]श्चतुर्द्वारमुचितं यच्चतुर्मुखी ॥ १
नृणामुपलतुल्यानां यस्य द्रावकरः करः । ध्यायामि तं कलावन्तं गुरुं चन्द्र[^3]प्रभं प्रभुम्[^4] ॥ २
[^5]गुम्फान्विधूय विविधान्सुखबोधाय धीमताम् । श्रीमेरुतुङ्गस्तद्गद्यबन्धाद् ग्रन्थं तनोत्यमुम् ॥३
रत्नाकरात्सद्गुरुसम्प्रदायात्प्रबन्धचिन्तामणिमुद्दिधीर्षोः ।
श्रीधर्मदेवः[^6] [^7] शतधोदितेतिवृत्तैश्च[^8] साहाय्यमिव व्यधत्त ॥ ४
 
5

श्रीगुणचन्द्रगणेशः प्रबन्धचिन्तामणिं नवं[^9] ग्रन्थम् ।
भारतमिवाभिरामं प्रथमादर्शेऽत्र दर्शितवान्[^10] ॥ ५
 
 

भृशं श्रुतत्वान्न कथाः पुराणाः प्रीणन्ति चेतांसि तथा बुधानाम् ।
वृत्तैस्तदासन्नसतां प्रबन्धचिन्तामणिग्रन्थमहं तनोमि ॥ ६
बुधैः प्रबन्धाः [^11]स्वधियोच्यमाना भवन्त्यवश्यं[^12] यदि मिन्नभावाः ।
 
10

ग्रन्थे तथाप्यत्र सुसम्प्रदायाद् दृब्धे[^13] न चर्चा चतुरैर्विधेया ॥ ७
 
[ १. अथ विक्रमार्कप्रबन्धाः । ]
 
१. अन्त्योऽप्याद्यः समजनि गुणैरेक एवावनीशः शौर्यौदार्यप्रभृतिभिरिहोर्वीतले विक्रमार्कः ।
श्रोतुः श्रोत्रामृतसवनवत्तस्य राज्ञः प्रबन्धं संक्षिप्योच्चैर्विपुलमपि तं वच्मि किञ्चित्तदादौ ॥ १
 
१) तथाहि--अवन्तिदेशे[^14] सुप्रतिष्ठाननामनि नगरेऽसमसाहसैकनिधिर्दिव्यलक्षणलक्षितो

15
 
[^15]
कर्मविक्रमादिगुणैः सम्पूर्णो[^16] विक्रमनामा राजपुत्र आसीत् । स पुनराजन्मदारिद्र्योपद्रुतोऽप्य-
तिनीतिपरः सन् [^17] परःशतैरप्युपायैरर्थाननुपलभमानः[^18] कदाचिद्भट्टमात्रमित्रसहायो[^19] रोहणाचलं
प्रति प्रतस्थे । तत्र तदासन्ने प्रवरनामनि[^20] नगरे कुलालस्यालये विश्रम्य प्रभातसमये स
भट्टमात्रेण खनित्रं याचितः । प्राह-'अत्र खनीमध्यमध्यास्य प्रातः पुण्यश्रावणापूर्वं[^21] ललाटं
 
[^1] AP श्रीसर्व०; D॥ ॐ नमः श्रियै ॥ श्रीस्वामिने नमः । [^2] BTb ०भारत्या० । [^3] DP गुरुं चन्द्र० । [^4] B
०प्रभप्रभुं । [^5] BDa-b ग्रन्थान् । [^6] Da ०देवैः । [^7] ADP प्रथमोपरोधवृ० । [^8] A वृत्तौ च; D वृतेश्च । [^9] A
मास्ति 'नवं' । [^10] BP ऽब्र निर्मितवान्; D प्रदर्शित०; Db बिनिर्मित । [^11] AD सुधियो० । [^12] B भवंरववक्ष्यं ।
[^13] B ०दायरब्धे; Da ०दायारब्धे; Db दायरहे। [^14] Db उज्जयिनीपूर्वा । [^15 D 'कर्म० ' नास्ति । BDb क्रमविक्रमादि० ।
[^16] Db आदर्शे 'सकलकलाकलापनिकयो भर्तृहरिबन्धुः' एतद्विशेषणद्वयं पृष्ठपार्श्वभागे लिखितमषिकमुपलभ्यते । [^17] AB ०द्भुत:
परः शतै० । [^18] B ०अनुपकम्भमाणः; Db ०मलम० । [^19] Da-b भट्टमात्रसहायो । [^20] BDa-b प्रबरनगरे । [^21] B
पुण्य अवणापूर्व; D पुण्यश्रवणपूर्व; Db पुण्यश्रवणात्पूर्व