2023-02-21 15:33:36 by ambuda-bot
This page has not been fully proofread.
कुमारपालस्याहिंसाया विवाहसम्बन्धप्रबन्धः ।
१२७
च्छ्रुत्वा परिणेया नान्यथा' इति पीयूषकल्पां वाचमाकर्ण्य तस्याः सविधे सुबुद्धिनामदूत अनु-
कृल्य प्राहिणोत् । सा तां सप्रश्रयं प्रणिपत्य व्यजिज्ञपत्-'म्वामिनि राजकन्ये ! धन्यतमासि; यत्त्वा-
मष्टादशदेशसम्राट् समस्तसामन्तसीमन्तमणिमयूषमालालङ्कृतचरणकमलयुगलचौलुक्यचक्र-
वर्तीश उद्बोदुमभिलषति ।' इति तद्वचसा मुग्वमोटनया नाटयन्ती सोपहासोल्लासं सैवं प्राह -
" सखि ! अलं नरकान्तप्राज्यसाम्राज्यप्राप्तिलोभनवार्ताविस्तरेण । परमनुकूलमेव दयितं समीहे । 5
पुरुषा हि परुषाशया नानाविधानुरागवन्तः, तैः किं क्रियेत । यतः-
अनूढा [[प]वरं कन्या रूपयौवनवत्यपि । निष्कलेनानुकूलेन न कुपत्या विडम्बिता ॥ ३ ॥
परं शृणु, -
निष्किञ्चनेन दयितेन' विवाहितानां यद् योषितां सुखपदं न तदीश्वरेण ।
भागीरथीं वहति यां शिरसा गिरीशो लक्ष्मीपतिः स्पृशति नैव पुनः पदापि ॥ ४ ॥
तथा वृथा जानीहि मदूरणाभिलाषम्, दुःपूरा मे प्रतिज्ञा महीमहेन्द्रेणापि ।' इत्युक्तवतीं
युवतीं सा प्राह - 'सखि ! भवत्या अहं प्रियसखी अनुपलपनकर्तव्याऽस्मि, तद् ब्रूहि खाभिमत-
मिति । अहं तथा सुबुद्धिर्नाम यथा पूरयामि ते प्रतिज्ञां तेन कुमारपालेन भूपालेने ति उक्ता
सा प्रोवाच
-
४
सत्यवाक् परलक्ष्मीमुक् सर्वभूताभयप्रदः । सदा स्खदारमन्तुष्टस्तुष्टो मे स पतिर्भवेत् ॥ ५ ॥
*[सु]दूरं दुर्गतेर्बन्धून् दृतान् सप्तपौरुषान् । निर्वासयति यश्चित्तात्म शिष्टो मे पतिर्भवेत् ॥ ६ ॥
मत्सोदरं सदाचारं संस्थाप्य हृदयासने । तदेकचित्तः सेवेत स कृती मे पतिर्भवेत् ॥ ७ ॥
इति तद्वाचमाकर्ण्य सकर्णा सा व्यजिज्ञपत्-'शृणु मुलोचने ! तदाहं यथार्थनामा, यदा ते प्रतिज्ञां
श्रीहेमसूरीन् पुरस्कृत्य समग्रजनसमक्षं तव प्रतिज्ञातानर्थान् समर्थ्य त्वां परिणयति, तदा मां
विदग्धां खसखीं मन्येथा, अन्यथा न तृणायेति ।' इत्युक्त्वा नृपसंसदि तस्या दुःपूरं सङ्गरमचक- 20
थत् । सोऽपि तदवज्ञाकुकूलानभेन (?) सन्तप्तवान्तः परामरतिं बिभ्राणः, तथैव सुबुद्ध्याभिदघे -
'हे श्रीनिधे ! विधेहि धीरताम्, किं दुष्करं पौरुषाधिष्ठितानाम् । तथा वास्ति निरपायश्यायः (?) ।
अनुसर्यते हेमचन्द्रमहर्षिः, श्रूयन्ते तद्वचांसि ।' इति तथा प्रेरितो विनयदत्तहस्तावलम्बो ययौ
उपसूरिम्, ननाम तत्पदाम्बुजानू, पप्रच्छ तत्कनीसङ्गरवृत्तान्तम् । 'वत्स ! पूरय तस्याः समी-
हितं चत्तस्याः परिणिनीषाऽस्ति । निःसीमोन्नतये परिणेतारं भोस्यते (?) एषा । यतः-
25
१-२ तथा ३-४ अङ्कान्तर्गतं वर्णनं A आदर्श न विद्यते । 1P कान्तेन तेन च किं च ।
* एतत्तारकान्तर्गतवर्णनस्थाने A आदर्श निम्नावतारितं संक्षिप्तमेव वर्णनं प्राप्यते । यथा - "
- 'इनि तस्याः प्रनिश्रवं दुःश्रवमाकर्ण्य
सा विफलवैदग्ध्यमानिनी स्वं पदमुपगता स्वामिनं सर्वथा निराशमकरोत । तदनु तं नृपं तद्वियोगाग्झिमझमाकलय्य श्री हेमचन्द्रमहर्षि -
म्तमिति प्रतिबोधितवान् यः कन्याया इतरलोकदुष्करः संगरः स तवाप्युभयलोकहितस्तदनुकूलना हेतुश्च । अतस्तमपि निर्मायतया निर्माय
स्वनिःसीमोन्नतये सा सर्वथा परिणेतुमुचितैव । यतः-
10
धन्यां सतीमुत्तमवंशजातां लब्ध्वाधिकां याति न कः प्रतिष्ठाम् ।
क्षीरोदकन्यां गिरिराजपुत्र गोपस्तथोग्रश्च यथाधिगम्य ॥
इति तेन महर्षिणा प्रतिबोध्य तानशेपानमिग्रहान् ग्राहयित्वा तस्याः सम्प्रदानं चक्रे । अथ सं० १२१६ मार्ग सुदि २ द्वितीयलने बलवनि
संवेगमतङ्गजारूढो रत्नत्रयवस्त्रालङ्कृतो दक्षिणपाणिबद्धदानकङ्कणः सम्यक्त्वानुचरेण समं श्रद्धासहोदरया क्रियमाणलवणावतारणो गुरुभक्ति-
देशविरति—जानणीभ्यां दीयमानधवलमङ्गलः पौषधवेश्मद्वारि अनुकम्पया कन्याजनम्या कृतप्रोङ्क्षणः श्रीमन्महादेवस्थाईत : साक्षि स
नृपतिरहिंसायाः पाणि जग्राह ।'
15