2023-02-21 15:33:35 by ambuda-bot
This page has not been fully proofread.
ग्रन्थकारस्य प्रशस्तिः ।
दुःप्रापेषु' बहुश्रुतेषु गुणवद्वृद्धेषु च प्रायशः
शिष्याणां प्रतिभाभियोगबिगमादुच्चैः श्रुते सीदति ।
प्राज्ञानामथ भाविनामुपकृतिं कर्त्तु परामिच्छता
ग्रन्थः सत्पुरुषप्रबन्धघटनाचक्रे सुधासत्रवत् ॥ १ ॥
प्रबन्धानां चिन्तामणिरयमुपात्तः करतले
स्यमन्तस्य भ्रान्ति रचयति चिरायोपनिहितः ।
हृदि न्यस्तः शस्तां सृजति विमलां कौस्तुभकलां
तदेतस्माद् ग्रन्थाद्भवति विबुधः श्रीपतिरिव ॥ २ ॥
यथाश्रुतं सङ्कलितः प्रबन्धैर्ग्रन्थों मया मन्दधियापि यत्नात् ।
मात्सर्यमुत्सार्य सुधीभिरेष प्रज्ञोडुरैरुन्नतिमेव नेयः ॥ ३ ॥
यावद्दिवि कितवाविव रविशशिनौ क्रीडतो ग्रहकपर्वैः ।
ग्रन्थस्तावन्नन्दतु सूरिभिरुपदिश्यमानोऽयम् ॥ ४ ॥
त्रयोदशस्खन्दशतेषु चैकषष्ट्यधिकेषु क्रमतो गतेषु ।
वैशाखमासस्य च पूर्णिमायां ग्रन्थः समाप्तिं गमितो मितोऽयम् * ॥ ५ ॥
नृपश्रीविक्रमकालातीत' संवत् १३६१ वर्षे वैशाखसुदि १५ रवावद्येह श्रीवर्द्धमानपुरे
प्रबन्धचिन्तामणिग्रन्थः समर्थितः ।
॥ समाप्तोऽयं प्रबन्धचिन्तामणिग्रन्थः ॥
1 P दुःप्रायेषु । 2P प्रबन्धप्रन्थो । 3P उत्सृज्य ।
* D पुस्तके एतत्पचं टिप्पणीस्थाने उद्धृतं प्राप्यते, परं APD& आदर्श मूलग्रन्थ एव समुपलभ्यते ।
नास्ति । † AD 'वैशाख' स्थाने 'फाल्गुण' शब्दो विद्यते स भ्रान्तिमूलक एव ।
+ एतत्पदं P प्रतौ
5
10
15