This page has not been fully proofread.

१२४
 
[ पञ्चमः
 
तिदूरवर्त्तिनि क्वापि ग्रामे कृतवसतिर्नगरयातायातेन सुतोपात्ताजीविकः कियन्तमपि कालमति-
वाहितवान् । अथान्यस्मिन्नवसरे सन्निहिते चतुर्मासकपर्वणि तत्र यायिभिः सुतैः समं स धनदः
शङ्खपुरं प्राप्य निजप्रासादसोपानमधिरोहन्, निजारामपुष्पलाविकयोपायनीकृतपुष्पचतुःसरिकः
परमानन्दनिर्भरस्ताभिर्जिनेन्द्रमभ्यर्च्य, निशि गुरूणां पुरः स्वं दौस्थ्यममन्दं निन्दन्, तैः प्रद-
5 तकपर्दियक्षाकृष्टिमन्त्रोऽन्यदा कृष्णचतुर्दशीनिशीथे तमेव मन्त्रमाराधयन्, प्रत्यक्षीकृतात् कप-
दियक्षात् गुरूपदेशतञ्चतुर्मासकावसरे पुष्पचतुःसरिकपूजापुण्यफलं देहीति प्रार्थयन्, तेन' 'एक-
स्यापि पूजाकुसुमस्य पुण्यफलं सर्वज्ञेन विना नाहं वितरीतुं प्रभूष्णुरि' ति; किं तु कपर्दियक्षस्तस्य
साधर्मिकस्यातुल्यवात्सल्यसम्बन्धे तद्धान्नि चतुर्षु कोणेषु सुवर्णपूर्णान् चतुरः कलशान् निधी-
कृत्य तिरोदधे । स प्रातः स्वसद्मनि समागतः धर्मनिन्दापराणां नन्दनानां तद्रव्यं समर्पया
10 मास । तेऽपि निर्बन्धात् पितुः पार्श्वे तद्विभवलाभहेतुं पृच्छन्तस्तेषां हृदि धर्मप्रभावाविर्भावाय
जिनपूजाप्रभावतः परितुष्टेन कपर्दियक्षेण प्रसादीकृतां तां संपदं निवेदयामास । तेऽपि सम्पन्न -
सम्पत्तयस्तदेव जन्मनगरं समाश्रित्य निजधर्मस्थानसमारचनपरा जिनशासनप्रभावनां विविधां
कुर्वन्तो वैधर्मिकाणामपि मनस्सु जिनधर्म निश्चलीचक्रुः ।
 
॥ इति श्रीजिनपूजायां धनदप्रबन्धः ॥
 
15
 
प्रबन्धचिन्तामणिः ।
 
॥ इति श्रीमेरुतुगाचार्यविरचिते' प्रबन्धचिन्तामणौ विक्रमादित्योदित
पात्रविवेचनप्रमुर्ख जिन पूजायां'
धनदप्रबन्धपर्यन्तवर्णनो नाम प्रकीर्णकाभिधानः पञ्चमः प्रकाशः समर्थितः ॥
 
8
 
+ असिन्प्रकाशे ग्रन्थसंख्या ७७४ । समस्तग्रन्थे प्रतिश्लोकं ग्रन्थाग्रं ३१५० ॥
 
1 D नास्ति ।
2 P अतुच्छ० । 3 D धर्मदान० । 4 AD वीतराग० ।
7 A अहंदर्चायां । 8 P नास्ति । + P प्रतावेवेयं पंक्किदृष्टा ।
 
5 P० चार्याविः कृते । 6P प्रभृति तथा ।