This page has not been fully proofread.

प्रकाशः ]
 
; प्रकीर्णकमवेन्धः ।
 
१२३
 
त्यातिशयबल्लभतया प्रोत्साहितसाहसा विपद्य ते पञ्च पुत्राः पञ्चापि क्षेत्रपतयो बभूवुः । तेषां
क्रमेण नामानि - कालमेघः १, मेघनादः २, भैरवः ३, एकपदः ४, त्रैलोक्यपाद: ५ - इति बभूवुः ।
तीर्थप्रत्यनीकं पञ्चतां नयन्तस्ते पञ्चापि गिरेः परितो विजयन्ते स्म ।
 
२२७) अथ तत्पिता धाराभिधान एक एवावशिष्टः कन्यकुब्जदेशे गत्वा श्रीबप्प भट्टिसरीणां
व्याख्याक्षणप्रक्रमे श्रीसङ्घस्याज्ञां दत्तवान्-'यदैवतकतीर्थे दिगम्बराः कृतवसतयः सिताम्बरान् 5
पाषण्डिरूपान् परिकल्प्य पर्वतेऽधिरोढुं न ददति; अतस्तान् निर्जित्य तीर्थोद्धारं कृत्वा निजद-
र्शनप्रतिष्ठापरैव्यख्याक्षणो विधेय' इति तद्वचनेन्धनप्रोज्ज्वलितप्रतिघैप्रज्वलनादामनृपतिं सहा-
दाय तेन समं तां भूधरधरामवाप्य' सप्तभिर्दिनैर्वादस्थलेन दिगम्बरान् पराजिय श्रीसङ्घसमक्षं
श्री अम्बिकां प्रत्यक्षीकृत्य 'इक्कोवि नमुक्कारे० ' 'उज्जिन्नसेलसिहरे० ' इति तदुक्तां गाधामाकर्ण्य
सिताम्बरदर्शने स्थापिते सति पराभूता दिग्वसना बलानकमण्डपात् झम्पापातं वितेनुः ।
 
॥ इति क्षेत्राधिपोत्पत्तिप्रबन्धः ॥
 
२२८) अथ कदाचिद्भवान्या भव इति पृष्टः- 'यत्त्वं कियतां कार्पटिकानां राज्यं ददासि ?' इति
नद्वाक्यादनु 'यो लक्षसङ्ख्यानामपि एक एव वासनापरस्तस्यैव राज्यमहं विनरामी ति प्रत्ययदर्श-
नाय गौरी पकमग्नां जरनीं गवीं विधाय स्वयं नरम्पेण तटस्थः पङ्कात्तामुद्वर्त्तु पान्धानाकारयन्
तैरासन्न सोमेश्वरदर्शनोत्कैरुपहस्यमानः कृपावना केनापि पथिकवृन्देन तम्यामुद्रमारब्धायां 15
सिंहरूपेण शिव एव तान् त्रासयन् कश्चिदेक' एवं पथिको मृत्युमप्यादृत्य तस्या गोः समीपं
नौज्झत् । स एव राज्याई इति पृथक् कृत्य गौर्या दर्शितः ।
 
10
 
8
 
॥ इति वासनाप्रबन्धः ॥
 
२२९) अथ कश्चित्कार्पटिक: सोमेश्वरयात्रायां व्रजन् पथि लोहकारौकसि प्रसुप्तः । तस्य
लोहकारभार्या पतिं निहत्य कृपाणिकां कार्पटिकशीर्षे निदधती बुम्बारबमकरोत् । आरक्षकेण:0
तत्रागत्य तस्यापराधिनः करो छिन्नौ । स सदैव देवस्योपालम्भनपरः निशि प्रत्यक्षीभूयेत्युक्तः-
'शृणु, त्वं स्वं प्राग्भवम्" - कदाचिदजा" केनापि एकेन सोदरेण पाणिभ्यां श्रवणयोता, तदप-
रेण मारिता । ततः सा अजा मृत्वा इयं योषिदजनि । येन व्यापादिता स साम्प्रतं पतिरभूत् ।
यत्त्वया कर्णौ वितौ तदा तव समागमे जाते सति करो छिन्नौ । तत्कथं ममोपालम्भः ? ।
 
॥ इति कृपाणिकाप्रबन्धः ॥
 
1 P इत्यादयः । 2D पर्वताधिरूढानेच्छन्ति । 3 'प्रतिघ' स्थाने D 'प्रतीप - ' । 4 P आसाद्य ।
6 D पान्थांस्तामुद्धर्तुमाकारयन् । 7 P कोऽप्येक ।
8P• कारगृहे । 9P सांराविणं ।
प्राग्भवे । 12 A कदाप्यजा० । 13 P नास्ति ।
 
10 D नास्ति ।
 
14 D नास्ति ।
 
pake
 
23
 
२३०) पुरा शङ्खपुरनगरे श्रीशङ्को नाम नृपतिस्तन्त्र नामकर्मभ्यां धनदः श्रेष्ठी । स कदाचित्क
रिकर्णतालतरलां कमलां विमृश्योपायनपाणिर्नृपोपान्तमुपेत्य तं परितोष्य च तत्प्रसादीकृतायां
भुवि चतुर्भिर्नन्दनैः सह समालोच्य सुलग्ने जिनप्रासादमचीकरत् । तत्र प्रतिष्ठितबिम्बानां स्था
पना" विधाय, तस्य प्रासादस्य समारचनाय बहून्यायद्वाराणि रचयन्, तत्सपर्यापर्याकुलतया
नानाविधकुसुमवृक्षावलीसमलङ्कृतमभिराम मारामं च निर्माप्य, तच्चिन्तकेषु गोष्ठिकेषु नियुक्तेषु, 30
उदिते प्राक्तनान्तरायकर्मणि क्रमात् संहियमाणसम्पदधमर्णतया तत्र मानम्लानिमाकलय्यान-
74
 
51) इत्यादि ।
11 D त्वया