2023-02-21 15:33:35 by ambuda-bot
This page has not been fully proofread.
प्रकाशः ]
प्रकीर्णकप्रबन्धः ।
१२१
२२२) अथ पुराऽवन्त्यां पुरि कश्चिद्विप्रः पाणिनिव्याकरणोपाध्यायतां कुर्वाणः सिप्रासरित्या-
न्तवर्त्तिचिन्तामणिगणेशप्रणामगृहीताभिग्रहः, छात्रैः फक्किकाव्याख्यानप्रश्नादिभिरुद्वेजितः
कदाचित् प्रावृषि तस्या सरितः पूरे प्रसर्पति कृतझम्पापातः, दैवात् सङ्घटितवृक्षस्तन्मूले कराव
लम्बनस्तत्तीरमासाद्य प्रत्यक्षं परशुपाणिं प्रणमन्, तेन तत्साहसानुष्ठानेन वरं वृणीष्वेत्यादिष्टः,
पाणिनिव्याकरणस्योपदेशं प्रार्थयमानस्तेन तथेति प्रतिपद्य खटिकार्पणपूर्व प्रतिदिनं व्याकरणे 5
व्याख्यामाने षण्मासीपर्यन्ते व्याकरणे समर्थिते सति लम्बोदरं निर्विलम्बमनुज्ञाप्य तत्प्रथ-
मादर्श सहादाय तां पुरीं प्रविश्य कस्यापि पुरस्य स्थण्डिले निषण्ण एव सुष्वाप । ततः प्रत्यूषे
प्रेष्याभिस्तं तथावस्थितं प्राप्यं विपणिरमणी तद्वृत्तान्तं ज्ञापिता सती ताभिरेव तं समानीय
प्रेङ्खोलपल्यङ्के मुक्तः । अहोरात्रत्रयान्ते किञ्चित्त्यक्तनिद्रश्चित्रशालादिचित्रं चित्रकारि पश्यन्
स्वर्लोकसमुत्पन्नमात्मानं मन्यमानस्तया पणहरिणीदृशा ज्ञापितवृत्तान्त: स्लानपानभोजना- 10
दिभिर्भक्तिभिः परितोषितो नृपसभायां समुपेतः पाणिनित्र्याकरणं यथावस्थितं व्याचक्षाणो
नृपप्रभृतिपण्डितैरशेषैः सक्रियमाणस्तदुपात्तं सर्वस्वं तस्यै समर्पयामास ।
15
२२३) अथ' तस्य क्रमेण चतुर्णा वर्णानां स्त्रियश्चतस्रः प्रिया अभवन् । तथा क्षत्रियाङ्गजः
श्रीविक्रमार्की, शद्रीसुतो भर्तृहरिः, स हीनजातित्वात् भूमिगृहस्थो गुप्तवृत्त्याऽध्याप्यते ।
अपरे त्रयः प्रत्यक्षाः पाठ्यन्ते । एवं भर्तृहरिरज्जुसङ्केतेन तेषामध्याप्यमानानाम्-
२६४. दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य । [यो न ददाति न भुङ्गे तस्य तृतीया गतिर्भवति ॥ ]
इति पाठ्यमाने' भर्तृहरिरज्जुसङ्केतेऽसञ्जायमाने प्रत्यक्षच्छात्रैस्त्रिभिरुत्तरार्द्धे पृच्छ्यमाने स
कुपितः उपाध्यायः- 'रे वेश्यासुत ! अद्यापि' रज्जुसङ्केतं न कुरुषे' इत्याक्रुष्टः प्रत्यक्षीभूय शास्त्र -
कारं निन्दन्-
20
२६५. आयासशतलब्धस्य प्राणेभ्योऽपि गरीयसः । गतिरेकैव वित्तस्य दानमन्या विपत्तयः ॥
इति पाठाद्वित्तस्यैकामेव गतिं मेने । तेन भर्तृहरिणा वैराग्यशतकादिप्रबन्धा भूयांसश्चक्रिरे ।
॥ इति भर्तृहरि उत्पत्तिप्रबन्धः ॥
२२४) अथ श्रीधारायां मालवमण्डनस्य श्रीभोजराजस्यायुर्वेदवेदी कश्चिद् वाग्भटनामाऽऽयुर्वे-
दोदितानि कुपथ्यानि विधाय तत्प्रभावात् रोगान् प्रादुकृत्य पुनस्तन्निग्रहाय सुश्रुतविश्रुतैर्भे-
षजैः पथ्यैश्च तान्निगृह्य, नीरमन्तरेण कियत्कालं जीव्यते इति परीक्षार्थं तत्परिहृत्य, दिनत्रयान्ते 25
पिपासापीडितताल्वोष्ठपुट इत्यपाठीत्-
२६६. क्वचिदुष्णं क्वचिच्छीतं क्वचित्कथितशीतलम् । क्वचिद्भेषजसंयुक्तं वारि क्वापि न वारितम् ॥
इति वारिसत्कारकारि वाक्यमिदमपाठीत् । तेन निजानुभूतो वाग्भटनामा प्रसिद्धो ग्रन्थो
विधे' । तस्य जामाताऽपि लघुबाहड: श्वशुरेण बृहद्वाहडेन सह राजमन्दिरे प्रयातः । प्रत्यूष-
काले श्रीभोजस्य शरीरचेष्टितं विलोक्य बृहद्बाहडेनाथ नीरुजो यूयमित्युक्ते लघोर्मुखभङ्गं वि 30
लोक्य श्रीभोजेन कारणं पृष्टः स 'स्वामिनः शरीरेऽद्य निशाशेषे कृष्णच्छायाप्रवेशसूचितो राज-
* B सम्झका प्रतिरितः परं त्रुटिं प्राप्ता । 1P वीक्ष्य । 2P नास्ति । 3D •हरिसंकेतेन । + AD आदर्शोऽस्य लोकस्य
एष उत्तरार्धो न लभ्यते । १-१ एतदन्तर्गता पंक्तिः पतिता A आदर्श । 4 D इत्याक्रुपन्; A इत्यादिष्टः । 5 P तय्प्रवरान् ।
6 AD प्रबन्धः । 7 AD चक्रे । 8 D& शरीरे ।
16