This page has not been fully proofread.

प्रबन्धचिन्तामणिः ।
 
[ पश्चम
 
तत्पादलेपाद् गगनगामी भूया' इति तदनुग्रहादेकां सिद्धिमासाद्य 'श्रीपार्श्वनाथपुरतः साध्य-
मानो रसः समस्तस्त्रैणलक्षणोपलक्षितंपतिव्रतावनिमर्धमानः कोटिवेधी भवतीति तन्मुखा•
दाकर्ण्य च; यत्पुरा समुद्रविजयदाशार्हेण त्रिकालवेदिनः श्रीनेमिनाथमुखात् [ श्रुत्वा ] महाति-
शायिनः श्रीपार्श्वनाथस्य बिम्बं रत्नमयं निर्माप्य श्रीद्वारवत्यां प्रासादे न्यस्तम्, द्वारवतीदाहानन्तरं
5 समुद्रेण प्लावितायां तस्यां पुरि, तत्र समुद्रे तस्मिन्बिम्बे तथैव विद्यमाने कान्तीत्यसांयात्रिकस्य
धनपतिनाम्रो यानपात्रे देवतातिशयवशात् स्खलिते, इह जिनबिम्बमस्तीति दिव्यवाचा निर्णीय
नाविकांस्तत्र प्रक्षिप्य सप्तसंख्यैरामतन्तुभिः सन्दानितमुद्धृत्य निजायां पुरि चिन्तितातीतला-
भात् स्वयंकृतप्रासादे न्यस्तवान् । तत्सर्वातिशायिबिम्बं नागार्जुनः खसिद्धरससिद्धयेऽपहृत्य
सेडीतटिन्यास्तटे विन्यस्य तत्पुरतो रससाधनाय श्रीशातवाहनस्यैकपत्नीं चन्द्रलेखाभिधानां
10 प्रतिनिशं सिद्धव्यन्तरसान्निध्यात्तत्रानीय रसमर्दनं कारयति स्म । इत्थं भूयो भूयस्तत्र यातायाते
सति बन्धुबुद्ध्या सा नागार्जुनपार्श्वे तदौषधीनां मर्दनहेतुं पृच्छन्ती सोऽपि स्वकल्पनया कोटि-
वेधरसस्य यथावस्थितं वृत्तान्तं निवेदयन्, तस्याश्च वचनगोचरातीतं सत्कारं कुर्वाणोऽनन्यसा-
मान्यं सौजन्यं प्रवर्द्धयामास । अथ कदाचित्तया निजाङ्गजयोरस्मिन् वृत्तान्ते निवेदिते तौ तल्लुब्धौ
राज्यं परित्यज्य नागार्जुनसमलङ्कृतां भुवमागतौ कैतवेन तस्य रसस्य जिघृक्षया गुप्तवेषौ यत्र
15 नागार्जुनो भुङ्क् तत्र तामर्थदानेन परितोष्य रसवार्त्ता पृच्छतः । सा च तजिज्ञासया तदर्थ सल-
वणां रसवतीं कुर्वती षण्मास्यां व्यतीतायां तस्मिन् क्षारामिति रसवतीं दूषयति सति, इङ्गितैः
सिद्धं रसमिति ताभ्यां निवेदितवती । अथ प्रतिपन्नभागिनेयाभ्यां ताभ्यां रसग्रसनलालसाभ्यां
वासुकिना निर्णीतदर्भाङ्कुरमृत्युमिति परम्परया ज्ञाततत्त्वाभ्यां तेनैव शस्त्रेण तथैव स निजघ्ने ।
सरसः सुप्रतिष्ठितत्वाद्देवताधिष्ठानाच्च तिरोहितो बभूव । यत्र स रसः स्तम्भिनस्तत्र स्तम्भनका-
20 भिधानं श्रीपार्श्वनाथतीर्थं रसादप्यतिशायि सकललोकाभिलषितफलप्रदम् । ततः कियता कालेन
तडिम्बं वदनमात्रवर्ज भृम्यन्तरितं बभूव ।
 
१२०
 
२२१) अथ श्रीशासनदेवतादेशात् षण्मासीं यावदाचाम्लानि निर्मायतया निर्माय कठि-
नीप्रयोगेण नवागवृत्तौ निवृत्तायां श्रीअभयदेवसूरीणां वपुषि प्रादुर्भूते प्रभूतप्रंसृतिरोगे पाना-
लपालः श्रीधरणेन्द्रनामा सितसर्परूपमास्थाय तद्वपुर्जिया विलिह्यं स निरामयीकृत्य तत्तीर्थं
25 श्रीमदभय देवस्रीणामुपदिदेश । श्रीसंघेन सह समागतास्तत्र ते सूरयः प्रस्रवन्तीं सुरभि विलो-
क्य गोपालबालैर्निवेदितायां भुवि नवं द्वात्रिंशतिकास्तवमवास्तवं" कुर्वन्तस्त्रयस्त्रिंशत्तमे वृत्ते
तत्र श्रीपार्श्वनाथविम्यं प्रादुश्चक्रुः । देवतादेशेन च तद्वृत्तं गोप्यमेव निर्ममेशो निर्ममे ।
२६३. * जन्माग्रेऽपि चतुःसहस्रशरदो देवालये योऽचिंतः स्वामी वासववासुदेववरुणः स्वावासमध्ये " ततः ।
कान्त्यामिभ्यधनेश्वरेण महता नागार्जुनेनार्चितः पायात्स्तम्भनके पुरे स भवतः श्रीपार्श्वनाथो जिनः ॥
॥ इति नागार्जुनोत्पत्ति-स्तम्भनकतीर्थावतारप्रबन्धः ॥
 
13
 
30
 
रसश्च ।
 
14
 
1 ) ०लक्षितः । 2 P वनिता पनि देवतया मर्चमानः । 3D• वाहनपत्नीं । 4 P कुर्वाणा । 5 P सुप्रतिष्टानंदेवताधिष्टानवशो
6 D नास्त्येतत्पदं । 7P पनितमिदं पदं । S D नाम्ति 'प्रसूनि' । 9 P लेलिह्य । 10 I) प्रसद्य । 11 'अवास्तवं'
 
12 'त्रय' शब्दो नास्ति 1) । 13AD नास्ति । * P आदर्श एतत्पद्यं नोपलब्धम् । 14 D यन्मार्गेपि ।
 
नाम्ति D
 
15 B स्वर्वार्द्धमध्ये । 16 B० नाञ्चितः ।