This page has not been fully proofread.

प्रकाशः ]
 
प्रकीर्णकप्रबन्धः ।
 
११७
 
5
 
मनोगतामवगम्य प्रभोर्निःसीमप्रसादपात्रं द्वितीयमिव गात्रं तुङ्गनामा क्षात्रं तेजो वहन् सुभट-
कोटिकोटीरः स्वप्रतिबिम्बरूपेण पुत्रेण समं म्लेच्छपतेरनीकं प्रविश्य तस्थौ । निशीथसमये तस्य
रिपोर्गुरूदरात् परितः खादिराङ्गारधगधगायमानां परिखां निरीक्ष्याङ्गजं जगाद- 'अस्यां मम प्रवि-
ष्टस्य पृष्ठे पदं ददानो म्लेच्छपतिं निगृहाणे' ति पितुरादेशान्ते 'कार्यमेतन्ममासाध्यतमम्, किं
च निजजीविताका पितुर्विपत्तिदर्शनम्; तदहमस्यां विशामि भवन्त एव तमन्तं नयन्तु
इत्युक्त्वा तेन तथाकृते स्वामिकार्यं पर्याप्तप्रायं मन्यमानस्तमरातिं लीलया निगृह्य यथागतमा-
जगाम । विभातभूयिष्ठायां निशि विपन्नं स्वं स्वामिनं निरीक्ष्य परं दैन्यं दधन् म्लेच्छसैन्यं'
पलायांचक्रे । स तुझसुभटस्तुङ्गप्रकृतितया नृपतेः कदाचिन्न ज्ञापयामास । कस्मिन्नव्यवसरे
राजमान्यतया नितान्तपरिचितां तुङ्गपुत्रवधूमवधूतमङ्गलवलयामालोक्य सम्भ्रमान् नृपतिना
पृच्छयमानोऽपि पयोधिरिव गम्भीरतया मौनमर्यादया किमप्यविज्ञपयन् निजशपथदानपूर्वकं 10
पृष्टो निजगुणकथापनकं दुष्करमिति तथापि प्रभोरभ्यर्थनया निवेद्यमानमस्तीत्यभिधाय तनु-
त्तान्तं प्रत्युपकार भीकर्यथावस्थितं निवेदयामास ।
 
२५९. इयमुच्चधियामलौकिकी महती कापि कठोरचित्तता ।
 
उपकृत्य भवन्ति निःस्पृहाः परतः प्रत्युपकारशङ्कया' ।
॥ इति तुङ्गसुभटप्रबन्धः ॥
 
२१६) अथ कदाचित्तस्य म्लेच्छपतेः मृनुर्नृपतिः पितुर्वैरं स्मरन्, सपादलक्षक्षितिपतिर्विग्रहका-
म्यया सर्वसामग्या समुपेतः पृथ्वीनाथस्य नासीरवीरधनुर्द्धरशरैः प्रावृषेण्यधाराधरधारासारैरिव
तस्मिन्ससैन्येऽपि त्रासिते पृथ्वीराजस्तदा तदानुपदिकी भावं भजन्, महानसाधिकृतपञ्चकुलेन
व्यज्ञपि- 'करभीणां सप्तशत्यापि महानसपरिस्पन्दः सुखेन नोह्यते, ततः कियतीभिः करभीभिः
प्रभुः प्रसीदतु' इति विज्ञप्तो नृपतिः 'म्लेच्छपतिमुच्छेद्य तदौष्ट्रिक माच्छिद्य' भवदभ्यर्थिता: कर भी: 20
प्रसादीकरिष्यामी' ति तत्सम्बोध्य पुनः प्रयाणं कुर्वन् सोमेश्वरनाम्ना प्रधानेन भूयो भूयो निषि-
ध्यमानः, तत्पक्षपातभ्रान्त्या नृपतिना निगृहीतकर्णः, तदत्यन्तपराभवात् तस्मिन् प्रभौ सामर्षो
म्लेच्छपतिं प्राप्य तदभिभवप्रादुःकरणतस्तान् विश्वस्तान् पृथ्वीराजस्कन्धावारसन्निधौ समानीय,
पृथ्वीराजराज्ञ एकादश्युपवासकृतपारणादनु मुप्तस्य तन्नासीरवीरैः सह म्लेच्छानां समरसं-
रम्भे सञ्जायमाने निर्भरनिद्रानिद्रायमाण एव तुरुपकैर्नृपतिर्निबध्य खसौधे नीतः । पुनरप्येका- 25
दश्युपवासपारणके नृपतेर्देवतार्चनावसरे म्लेच्छराज्ञा प्रहितं पत्रपात्रीकृतं मांस्पाकं गुरुदरान्त-
र्नियुज्य तथैव " देवताराधनवैयग्र्ये सति शुनाऽपहियमाणे तस्मिन् पिशिते 'किं न रक्षसि ?' यामि-
कैरित्यभिहितः, 'करभीणां सप्तशत्या दुर्वहं यत्पुरा मम महानसं तत्साम्प्रतं दुर्दैवयोगादीदृशीं
दुर्दशां प्राप्तमिति कौतुकाकुलितमानसो विलोकयन्नस्मी' ति तेनोक्ते 'किं काचिदद्यापि त्वय्युत्सा-
हशक्तिरवशिष्यत ?' इति तैर्विज्ञप्ते 'यदि स्वस्थाने गन्तुं लभेत तदा दर्शयामि वपुःपौरुषमिति 30
यामिकैर्विज्ञप्तो म्लेच्छभूपतिस्तत्साहसं दिक्षुस्तदीयां राजधानीमानीय पृथ्वीराजं तत्र राजसौधे
 
10
 
1 D 0 मिवामात्रं । 2 P विनाऽन्यत्र नास्तीदं पदं ।
'कथापनकं' स्थाने 'पातकं' शब्दः । 6 BP दूरतः ।
10 D 'एव' नास्ति । 11 D तन्त्र । 12 D तदैव ।
 
15
 
3AD वसु० ।
4 AD 'परसैन्यं' इत्येव । 5 P विहाय अन्यत्र
7 BP ० भीरवः । 8 D नास्त्येतत्पदं । 9 D म्लेच्छाधिपतीनां ।