This page has not been fully proofread.

११२
 
प्रबन्धचिन्तामणिः ।
 
[ पश्चम
 
२०८) अथ पुरा कुसुमपुरे नगरे नन्दिवर्द्धननामा राजकुमारो निर्जच्छत्रघरेण समं देशा-
न्तरविलोकनंकुतुकी पितरावनापृच्छय यदृच्छया गच्छन् प्रत्यूषकाले कापि पुरे प्राप्तः । तत्राऽपु-
त्रिणि नृपतौ पञ्चत्वमुपागते सति सचिवैरभिषिक्तः पट्टहस्ती निर्खिलेऽपि नगरे यदृच्छया भ्रामं
भ्रामं स सम्भ्रमं तत्रागतः । तं नृर्पकुमारमासन्नमपि दुःस्वप्नमिव विस्मृत्य परं छन्त्रघरमभ्यषि-
3 ऋचत् । स च तत्प्रधानैर्महता महोत्सवेन' पुरं प्रवेश्यमानो राजकुमारमपि तथैव महत्या प्रतिपत्त्या
सह गृहीत्वा सौधं गतः । 'अहं राजलोकस्य स्वामी त्वं तु मम' इत्युचितैरुपचारवचनैस्तमन्तरि-
तमारराध । स तु राजा राजगुणानामनहों निरवधिदुर्मेधा वर्णाश्रमपालनापरिश्रमांनभिज्ञो यथा
यथा प्रजापीडनपरः साम्राज्यं कुरुते तथा तथा पशुपतिमूर्ध्ना विधृतराजेव स कुमारः प्रतिदिनं
हीयते । कस्मिन्नप्यवसरे तं तथास्थितं कुमारं स नृपतिस्तत्तनुताहेतुं पृच्छन् 'दुर्मेधतया त्वं
10 यत्प्रजाः पीडयसि तेनात्यन्तमनौचियेन कृशतामावहामि ।
 
२४२. वासो जडाण मज्झे दुज्जीही सामिसवणपंडिलग्गा । जीविजइ तं" लाहो झीणत्ते" विम्हओ" कीस ।
इति मया गाथार्थः सत्यापितोऽस्ती'ति तद्वचनानन्तरं 'यदस्याः प्रजायाः पापनिरताया अपु-
ण्योदयेनावश्यंभाविपीडनावसरेऽहं नृपतीकृतः । यदि प्रजायाः परिपालना लोकेशोऽभ्यलिखिष्य-
त्तदा भवत एव पट्टहस्ती पट्टाभिषेकमकरिष्यदिति तदुक्तियुक्तिभ्यां भेषजाभ्यामिव निगृहीत-
15 रुक् स कुमारो वपुःपीवरतां बभार ।
 
॥ इति कर्मसारप्रबन्धः ॥
 
२०९) अथ गौडदेशे लष (ख) णावत्यां नगर्यो श्रीलक्ष्मणसेनो नाम नृपतिरुमापतिधरनाम्ना"
सचिवेन सर्वबुद्धि निधानेन" चिन्त्यमानराज्यश्चिरं राज्यं चकार । स त्वनेकमत्तमातङ्गसैन्यसङ्गा-
दिव मदेनान्धतां दधानो मातङ्गीसङ्गपङ्ककलङ्कभाजनमजनि । उमापतिधरस्तु तद्व्यतिकरमव-
20 गम्य प्रकृतिऋरतया च स्वामिनोऽनाकलनीयतां" च विचिन्त्य प्रकारान्तरेण तं बोधयितुं सभाम-
ण्डपभारपट्टे गुप्तवृत्त्यामूनि काव्यानि लिलेख-
25
 
२४३. शैत्यं नाम गुणस्तवैव तदनु स्वाभाविकी स्वच्छता किं ब्रूमः शुचितां व्रजन्त्यशुचयः स्पर्शात्तवैवापरे " ।
किं चातः परमस्ति ते स्तुतिपदं त्वं जीवितं देहिनां त्वं चेन्नीचपथेन गच्छसि पयः कस्त्वां निरोद्धुं क्षमः ॥
२४४. त्वं चेत्सञ्चरसे वृषेण लघुना का नाम दिग्दन्तिनां व्यालैः कङ्कणभूषणानि तनुषे" हानिर्न हेम्नामपि ।
मूर्द्धन्यं कुरुषे जडांशुमयशः किं नाम लोकत्रयीदीपस्याम्बुजबान्धवस्य जगतामीशोऽसि किं ब्रूमहे ॥
२४५. छिन्नं ब्रह्मशिरो यदि प्रथयति प्रेतेषु सख्यं यदि क्षीवः क्रीडति मातृभिर्यदि रतिं धत्ते श्मशाने यदि ।
सृष्टा संहरति प्रजा यदि तथाप्याधाय भक्त्या मनस्तं सेवे करवाणि किं त्रिजगती शून्या स एवेश्वरः ॥
२४६. एतस्मिन्महति प्रदोषसमये राजा त्वमेकस्ततो लक्ष्मीमम्बुरुहां पिधाय कुमुदे किं नो" तनोषि श्रियः ।
यानी स्थितिरत्र यच" सुमनःश्रेणीषु सम्भावना त्वं तावत्कतमोऽसि तत्तिरयितुं धातापि नैव क्षमः ॥
 
1 AD नास्ति । 2 AD 'निज' नास्ति । 3 BP ●दर्शन । 4P प्रभात० । 5P सकलेऽपि । 6 'भ्रमं आमं
ससम्भ्रमं' स्थाने D 'बभ्राम'; A 'स भ्रमन्' । 7 AD ●गतनृप० ।
8P महेन । 9 AD 'परिश्रम' नास्ति । 10 D
नास्ति । 11 AD दोजीहा । 12 P सामिझत्त० । 13 P वरि । 14 AD झीणिते । 15 D विहिओ। 16 D 'नाना'
नास्ति । 17 AD निधिना । 18 D मदान्धतां । 19 D अनालोकनी० । 20 P भवन्ति । 21 P स्पर्शेन यस्यापरे ।
25 P यत्र ।
 
22 AD लघुता । 23 P कुरुषे । 24 BP ना ।