2023-02-21 15:33:32 by ambuda-bot
This page has not been fully proofread.
११०
प्रबन्धचिन्तामणिः ।
[ पञ्चमः
पूरीकृत्य पुनरपि राज्ञे विज्ञपयांचक्रुः । अथ काचिन्मृगी सन्ध्याद्वयेऽपि पयःपानं कारयन्ती तम-
नुदिनं वृद्धिमन्तं कारयामास । तस्मिन्नवसरे देव्या महालक्ष्म्याः पुरतष्टङ्कशालायां हरिण्याच
तुर्णां पादानामधः शिशुरूपं नाणकं नूतनं सञ्जायमानमाकर्ण्य क्वचिन्नवीनो नृप उत्पन्न इति प्रसृतया
वार्त्तया श्रीरत्नशेखरः सैन्यानि प्रतिदिशं तं शिशुं विशसितुं प्राहिणोत् । तैर्यत्नादेवलोक्य लब्धो-
55पि बालहत्या भीतैः स सायं पुरगोपुरे गोकुलखुररवैर्यथायं बालो विपन्नः सन् स्वयमपवादाय
न भवतीति दूरस्थैर्यावन्मुक्तस्तावत्तत्रायातं गोकुलं तं मूर्तिमन्तं पुण्यपुञ्जमिव बालमालोक्य
तैरेव पदैः स्तम्भितमिव तस्थौ । अथ पाश्चात्यपक्षात्पुरो भूय वृषभो वृषभासुरं तं शिशुं पदाना-
मन्तराले निधाय गोधनं सकलमपि प्रेरयामास । अथ तं वृत्तान्तं नृपोऽवधार्य तैः सामन्तनग-
रलोकैस्तं बालमानीय पुत्रीयमाणः श्रीपुञ्ज इति दत्ताभिधानः प्रवर्द्धयामास ।
२०५) अथ श्रीरत्नशेखरे राज्ञि दिवं गते तस्य राज्ञः कृताभिषेकस्य साम्राज्यं पालयतः पुत्री
समजनि । सा च सम्पूर्ण सर्वागावयवसुन्दराऽपि कपिमुखी । तेन वैराग्येण विषयविमुग्वतां
बिभ्राणा श्रीमातेति नामधेयं बभार । सा कदाचिज्जातजातिस्मृतिः पितुरग्रे म्वं पूर्वभवं निवे-
दितवती - 'गदहमदा पुरा कपिपत्नीत्वमनुभवन्ती कस्यापि शाखिन एकस्याः शाखायाः
शाग्वान्तरं सञ्चरन्ती केनापि तदतुल्येन शिल्पेन वितालुः पञ्चत्वमासदम् । तदधोवर्तिनि
15 कामिनतीर्थकुण्डे यावगलितं वपुः पपात तावत्तीर्थातिशयान्मामकं वपुर्मानुषाकारमभवत् ।
यन्मस्तकं तु तत्तथैवास्ते तेनाहं कपिवदना । अथ श्रीपुञ्जनृपस्तस्यास्तन्मस्तकं कुण्डे प्रक्षेपयितुं
निजानासपुरुषान्समादिदेश । तैस्तु सुचिरात्तत्र तदवस्थं विलोक्य तथाकृते सा श्रीमाता
मानवानना समजनि । ततःप्रभृति सा मातरपितरावनुज्ञाप्याऽर्बुद संख्यगुणा तस्मिन्नेवाऽर्बुदे
तपस्यन्ती, कदाचिद्गगनगामिना योगिना ददृशे । स च तत्सौन्दर्यापहृतहृदयो गगनादुत्तीर्य
20 प्रेमालापपूर्वकं 'त्वं मां कथं न वृणोषि ?" इति पृष्टा सेत्यवादीत् - 'साम्प्रतं तावत्क्षणदायाः
प्रथमो ग्रामो व्यतीतः; तुर्ययामस्य ताम्रचूडेषु रुनमकुर्वाणेषु यद्यस्मिन्नगे कयाचिद्विद्यया द्वाद-
शपद्या हृया कारयसि ततो भवन्तमभिकं करोमीति तदुक्तिसमनन्तरमेव तत्र कर्मणि
चेटकपेटकं नियोज्य यामद्वयेन निर्माणिते सर्वपद्यानिवहे, श्रीमाता स्वाक्तिवैभवेन कृतकताम्र-
चूडरवं कारयन्ती, तेनागय 'विवाहाय सज्जीभवे' त्यभिदधे । 'तव पद्यायां निष्पाद्यमानायां
25 कुक्कुटरवः समजनिष्टे'ति नयोक्ते 'भवन्मायया कृतकं कृकवाकुरवं को न वेत्ति ?' इत्युत्तरं
ददानः, स सरित्तीरे तज्जाम्योपढौ किन विवाहोपहारः, श्रीमात्रा 'समस्तविद्यामूलं तत्रिशुलमि-
हैव विहाय पाणिपीडनाय सन्निहितो भवे त्याहय, प्रेमोपहृतचित्ततया तत्तथा कृत्वा सामीप्य
मुपागतः । तत्पादयोः कृतकान् शुनो नियोज्य हृदये तेन त्रिशूलेनाहत्य मारितः" । इत्थं निः-
सीमशीललीलायितेन स्वं जन्मातिवाहितवती । तस्यामखण्डशीलायां व्यतीतायां श्रीपुञ्जराजा
30 तन्त्र शिग्वरबन्धरहितं प्रासाद माकार यत् । यतः षण्मासान्ते तस्य गिरेरैघोभागवर्त्ती अर्बुदनामा
नागो यदा चलति तदा पर्वतकम्पो भवति । अतः शिखररहितास्तत्र सर्वेऽपि प्रासादाः ।
,
॥ इति श्रीपुञ्जराज तत्पुत्रीश्रीमाता-प्रबन्धः ॥
10
10
(3
1 'यनाद्' स्थाने D 'यत्र तत्र' । 2P सर्व० । 3 'सामन्तनगरलोकैस्तं' स्थाने D 'समं तमपरेतं लोकैर्विशतश्च तं'
एते शब्दाः ।
4 P नाम । 5P अर्बुदे गिरौ । 6 BP नास्ति । 7 D 'आस' नास्ति । 8 D पप्रच्छ । 9 D नास्ति ।
10 D अभीष्टं । 11 P व्यापादितः । 12 P पर्वतस्य ।