This page has not been fully proofread.

प्रकाशः ]
 
प्रकीर्णकप्रबन्धः ।
 
१०९
 
प्रभबिम्बमम्बाक्षेत्रपालाभ्यां सहितमधिष्ठातृबलाद्गगनमार्गेण शिवपत्तनभुवि भूषणीबभूव । रथा-
घिरूढा अप्रतिमा श्रीवर्द्धमानंप्रतिमा चादृष्टवृत्त्याधिष्ठातृषलेन सञ्चरन्ती पथि आश्विनीपूर्णि-
मास्यां श्रीमालपुरमलंचकार । अन्या अपि सातिशया देवमूर्त्तयो यथोचितं भूभागमलंचक्रुः ।
तत्पूर्देवतया च श्रीवर्द्धमानसूरीणां चोत्पातज्ञापनावसरे-
5
 
२४०. का त्वं सुन्दरि जल्प देविसदृशे ! किं कारणं रोदिषि १,
भङ्गं श्रीवलभीपुरस्य भगवन् ! पश्याम्ययं' प्रत्ययः ।
भिक्षायां रुधिरं भविष्यति पयो लब्धं भवसाधुभिः
स्थातव्यं मुनिभिस्तदेव रुधिरं यसिन्पयो जायते ॥
 
एवमुत्पातेषु सञ्जायमानेषु पुरीपरिसरं प्राप्तेषु म्लेच्छसैन्येषु देशभङ्गसमासादितपङ्केन रङ्केन
पञ्चशब्दवादकान् कनकवितरणैर्यहुधा विभेद्य तस्य यस्यारोहणकाल एव तैः क्रियमाणे 10
प्रतिशब्दसांराविणे तार्क्ष्यवदुड्डीय तस्मिँस्तायें दिवमुत्पतति, किंकर्त्तव्यतामूढः स शिलादित्य-
स्तैर्निजघ्ने । तदनु तैर्लीलयैव वलभीभङ्गः सूत्रितः ।
 
२४१. पणसयरीवाससयं तिभिसयाई अइकमेऊण । विकमकालाउ तओ वलहीभङ्गो समुप्पन्न ॥
 
॥ इति श्रीशिलादित्यराज्ञ उत्पत्तिस्तथा रङ्कोत्पत्तिस्तत्कृतो वलभी भङ्गश्चेति प्रबन्धत्रयम् * ॥
 
12
 
२०४) अथ श्रीरत्नमालनगरे श्रीरत्नशेखरो नाम राजा । स कदाचिद्दिग्यात्राप्रत्यावृत्तः पुरम 15
बेशमहोत्सवे विपणिश्रेणिं शृङ्गारितां मृगयमाणः कस्मिन्नपि हट्टे काष्ठपात्रीयुतं कुद्दालमालोक्य
सौधप्रवेशानन्तरं प्राभृतपाणौ महाजने समायाते 'सुखिनो यूयम् ?' इति नृपालापानन्तरं तैः 'न
सुखिनो वयमि' ति विज्ञप्ते विभ्रमभ्रान्तचित्तंस्तान्" विसृज्य कस्मिन्नपि निर्व्यञ्जनावसरे पुरप्रधाना-
नाहय 'किं न सुखिनो यूयम् ?' इति पृष्टाः " । अपि च काष्ठपात्रीयुतकुद्दालस्योर्वीकरणकारणम-
नुयुक्तास्ते इति विज्ञपयामासुः - 'यत्र खामिना काष्ठपाव्यादिकमवधारितं, " स वित्तेश्वरः खवित्त 20
संख्यामजानन् काष्ठपात्रिक यैव" स्ववित्तसङ्कलनां ज्ञापयितुं सङ्केतं चक्रे । तथा च न सुखिनो वय-
मिति खामिनः सन्तानाभावात् । कोटीध्वजकुलाकुलं नगरमिदं खामिना चिरकाललालितमन्व-
याभावात्केन परां कोीं नीयत ? इति पुरातनस्यान्तः पुरस्य वन्ध्यात्वं बुद्ध्या निधाय नृपवंश-
वृद्धये नौतनमन्तःपुरं चिकीर्षवः स्वामिनोऽनुमत्या पुष्य / र्कदिने" केनापि प्रधानशाकुनिकेन समं
शकुनागारं प्राप्ताः । कामपि दुर्गतनितम्बिनीमासन्नप्रसवां काष्ठभारवाहनैकवृत्तिं शिरोधिरूढदु- 25
र्गामालोक्य शकुनवित् तामक्षतादिभिरभ्यर्चयन्, तैः किमेतदिति पृष्टः प्राह - 'यः कश्चिदस्या
आधाने पुत्रः स एवात्र नृपो भावी, चेद्बृहस्पतिमतं प्रमाणमि' त्यसम्भाव्यं वृत्तान्तममुममन्यमानाः
मानोन्नताय" नृपाय व्याघुट्य यथावस्थितं तत्स्वरूपं निवेदितवन्तः । अथ वेदमेदुरमना नृप
आसपुरुषैस्तां गर्त्तापूरीकर्त्तुं प्रारभ्यमाणामिष्टं दैवतं स्मरेत्यभिहिते सा मरणभयव्याकुला प्रदोष-
काले यावत्ताननुज्ञाप्य शङ्काभङ्गं कुरुते तावत्सा प्रसूतं पुत्रं तत्र परित्यज्य पुनरुपागता गर्त्ता 30
 
1D नास्ति । 2 P वीरप्रतिमा । 3 P भूमि० । 4 AD ० म्यहं । 5 D प्रत्ययं । 6 D भवेत् । 7 P तुरगस्य ।
 
*
 
'तिण्णिसयाहं तिण्णिसयाई' इति द्वित्वम् । अस्याः पंतयाः स्थाने P आदर्श ॥ इति
9 D 'चित्त' नास्ति । 10 D तावद् ।
12 D पृष्टे । 13 D
 
11 D निर्जना० ।
 
5
 
8 P 'वाससयं' स्थाने 'वासाई'; तथा
शिलादित्यप्रबन्धः ॥' एतावत्येव पंक्तिः ।
 
● पाभ्यामेकमेवमवधारितं । 14 D० पात्रिकैः । 15 P वासरे । 16P मानोन्नतये नृपतये ।