This page has been fully proofread twice.

इत्यत्र आतिशब्दपारितोषिके श्रीमन्त्रिणा षोडशसहस्रद्रम्माणां दातिः प्रसादीकृता । क्वचिच्चिन्तातुरस्य मन्त्रिणो भूमिं मृगयमाणस्य समागतः सोमेश्वरदेवः समयोचितमिदमपाठीत् --
 
२२४. एकस्त्वं भुवनोपकारक इति श्रुत्वा सतां जल्पितं लज्जानम्रशिराः स्थिरातलमिदं यद्वीक्ष्यसे वेद्मि तत् ।
वाग्देवीवदनारविन्दतिलकः श्रीवस्तुपालः स्वयं पातालाद्बलिमुद्दिधीर्षुरसकृन्मार्गं भवान् मार्गति ॥
 
मन्त्रिणास्य काव्यस्य पारितोषिकेऽष्टौ सहस्राणि प्रदत्तानि । तथा --
 
२२५. त्वचं कर्णः शिबिर्मासं जीवं जीमूतवाहनः । ददौ दधीचिरस्थीनि...
 
इति त्रिषु पदेषु पण्डितेष्वधीयमानेषु पण्डितजयदेवः समस्यापदमिव --
 
वस्तुपालः पुनर्वसु ॥
 
इत्युचरन् सहस्रचतुष्टयं लेभे ।
 
तथा सूरीणां दर्शनप्रतिलाभनावसरे केनापि दुर्गतद्विजातिना याचनया तन्नियुक्तेभ्यः कृपया पटीमुपलभ्य मन्त्रिणं प्रति समयोचितमित्यूचे --
 
२२६. क्वचित्तूलं क्वचित्सूत्रं कार्पासास्थि क्वचित्क्वचित् । देव ! त्वदरिनारीणां कुटीतुल्या पटी मम ॥
 
एतत्पारितोषिके मन्त्रिणा दत्तानि पञ्चदशशतानि ।
 
तथा बालचन्द्रनाम्ना पण्डितेन श्रीमन्त्रिणं प्रति --
 
२२७. गौरी रागवती त्वयि त्वयि वृषो बद्धादरस्त्वं युतो भूत्या त्वं च लभद्गुणः शुभगणः किं वा बहु ब्रूमहे ।
श्रीमन्त्रीश्वर ! नूनमीश्वरकलायुक्तस्य ते युज्यते बालेन्दुश्चिरमुच्चकै रचयितुं त्वत्तोऽपरः कः प्रभुः ॥
 
इत्युक्ते तस्याचार्यपदस्थापनायां द्रम्मसहस्रचतुष्टयं व्ययीकृतम् ।
 
१९१) कदाचिन्म्लेच्छपतेः सुरताणस्य गुरुं मालिमं मखतीर्थयात्राकृते इह समागतमवगम्य
तज्जिघृक्षुभ्यां श्रीलवणप्रसाद-वीरधवलाभ्यां श्रीतेजःपालमन्त्री मन्त्रं पृष्ट एवमाख्यातवान् --
 
२२८. धर्मच्छद्मप्रयोगेण या सिद्धिर्वसुधाभुजाम् । स्वमातृदेहपण्येन तदिदं द्रविणार्जनम् ॥
 
इति नीतिशास्त्रोपदेशेन तयोर्वृकयोरिव छागमुन्मोच्य पाथेयादिना सत्कृत्य च तं तीर्थं प्रहितवान् । स च कियद्भिर्वर्षैः पश्चाद्व्यावृत्तः श्रीमन्त्रिणा तदुचितनेपथ्यादिभिः सत्कृतः स स्वस्थानं प्राप्तस्तीर्थगुणानां विस्मरन् श्रीसुरताणपुरतः श्रीवस्तुपालमेव वर्णयामास । स सुरताणस्तदनन्तरम् -- 'अस्माकं देशे भवानेवाध्यक्षोऽहं तु भवतः सेलभृत्, तत्त्वयाहं यत्कृत्यादेशेनैव सर्वदानुग्राह्य' इति प्रतिवर्षं तत्प्रहितयमलकपत्रेणोपरुध्यमानः श्रीमन्त्रीशः श्रीशत्रुञ्जयभूमिगृहयोग्यं श्रीयुगादिजिनबिम्बं धन्यंमन्यमानस्य सुरताणस्यानुज्ञया तद्देशवर्त्तिन्या मम्माणीनाम्न्याः खन्याः प्रयत्नशतैरानीतवान् । तस्मिन्नथारोहति श्रीमूलनायकस्यामर्षात्पर्वते विद्युत्पातः समजनि । ततः प्रभृति श्रीमन्त्रीश्वरस्याजीवितान्तं श्रीदेवपादैर्दर्शनं न ददे ।
 
१९२) कस्मिंश्चित्पर्वणि श्रीमदनुपमया निरुपमे मुनीनामन्नदाने यदृच्छया दीयमाने कार्यौत्सुक्यात्तदागतः श्रीवीरधवलदेवः सिताम्बरदर्शनेन द्वारप्रदेशं पाणिन्धममालोक्य विस्मयस्मेरमा-