This page has been fully proofread twice.

२२०. यशोवीर यशोमुक्ताराशेरिन्दुरसौ शिखा । तद्रक्षणाय रक्षायाः श्रीकारो लाञ्छनच्छलात् ॥
 
२२१. बिन्दवः श्रीयशोवीर शून्यमध्या निरर्थकाः । संख्यावन्तो विधीयन्ते त्वयैकेन पुरस्कृताः ॥
 
२२२. यशोवीर लिखत्याख्यां यावच्चन्द्रे विधिस्तव । न माति भुवने तावदाद्यमप्यक्षरद्वयम् ॥
 
[१६३] { न माघः श्लाघ्यते कैञ्चिन्नाभिनन्दो न नन्द्यते । निष्कलः कालिदासोऽपि यशोवीरस्य सन्निधौ ॥
 
[१६४] प्रकाश्यते सतां साक्षाद्यशोवीरेण मन्त्रिणा । मुखे दन्तद्युता ब्राह्मी करे श्रीः स्वर्णमुद्रया ॥
 
[१६५] अर्जितास्ते गुणास्तेन चाहुमानेन्द्रमन्त्रिणा । विधेरब्धेश्च नन्दिन्यौ यैरनेन नियन्त्रितौ ॥
 
[१६६] 'लक्ष्मीर्यत्र न वाक् तत्र यत्र ते विनयो नहि । यशोवीर महच्चित्रं सा च सा च स च त्वयि ॥
 
[१६७] वस्तुपाल-यशोवीरौ सत्यं वाग्देवतासुतौ । एको दानस्वभावोऽभूदुभयोरन्यथा कथम् ॥ }
 
॥ इति श्रीशत्रुञ्जयादितीर्थानां यात्राप्रबन्धः ॥
 
१८९) अथ श्रीवस्तुपालस्य स्तम्भतीर्थे सइदनाम्ना नौवित्तकेन समं विग्रहे सञ्जायमाने श्रीभृगुपुरान्महासाधनिकं शङ्खनामानं श्रीवस्तुपालं प्रति बालकालरूपमानीतवान् । स जलधिकूले दत्तनिवासो नगरप्रवेशमार्गान् शङ्कुसङ्कीर्णितानालोक्य व्यवहारिणां वित्तानि यानपात्रप्रणयीनि च
वीक्ष्य प्रहितैर्बन्दिभिः श्रीवस्तुपालेन समं समरवासरं निर्णीय यावच्चतुरङ्गसैन्यं सन्नह्यते
तावच्छ्रीवस्तुपालेन पुरः कृतो गुडजातीयो भूणपालनामा सुभटो 'यदि शङ्खमन्तरेणाहं प्रहरामि तदा कपिलां धेनुमेवे'ति वारवर्णिकापूर्वं 'कः शङ्ख ?' इति तद्वचनादनु शङ्खोऽहमिति प्रतिसुभटेनोदिते तं घातेन निपात्य पुनरनयैव रीत्या द्वितीये तृतीयेऽपि पातिते सति 'कथं समुद्रसामीप्यात् शङ्कबाहुल्यमि'त्युच्चरन् महासाधनिकशङ्खेनैव तत्सुभटतां श्लाघमानेनाहृतः, कुन्ताग्रेण प्रहरन्, सतुरग एकेनैव प्रहारेण व्यापादितः । तदनु श्रीवस्तुपालेन समराङ्गणप्रणयिना केसरिकिशोरेणेव शङ्खसैन्यं गजयूथमिव त्रासितं दिशो दिशमनेशत् । [ पश्चान्नौवित्तको मारितः सइयद इति । ] तदनु भूणपालमृत्युस्थाने भूणपालेश्वरप्रासादो मन्त्रिणा कारितः ।
 
( अत्र P आदर्शे निम्नगता अधिकाः श्लोका लभ्यन्ते -- )
 
[१६८] काण्डानां सह कोदण्डगुणैः सन्धिरजायत । तेषां वीरप्रकाण्डानां विग्रहस्तु परस्परम् ॥
 
[१६९] कर्णे लगद्भिरन्येषामन्येषां जीवितव्ययम् । कुर्वाणैर्विदधे बाणैः स्पष्टं दुर्जनचेष्टितम् ॥
 
[१७०] विहाय शरधिं वेगाच्चापमापुः शिलीमुखाः । चिह्नमेतत्सपक्षाणां विधुरे यत्पुरःस्थितिः ॥
 
[१७१] वक्षो विक्षिप्य वैपक्षं पत्रिणः परतो गताः । न चिरं निर्गुणैर्लभ्या धीराणां हृद्यवस्थितिः ॥
 
[१७२] मन्त्रीशकरसंसर्गादिव दानार्थमुद्यतः । असिरुत्सृष्टवान् कोशं बद्धमुष्टिरपि क्षणात् ॥
 
[१७३] वीराणां पाणिपादाब्जैः पूजितेवाहवक्षितिः । दत्तार्थेव च दूर्वाभाकेशमिश्रैः शिरःफलैः ॥
 
१९०) अथान्यस्मिन्नवसरे श्रीसोमेश्वरस्य कवेः काव्यम् --
 
२२३. हंसैर्लब्धप्रशंसैस्तरलितकमलप्रत्तरङ्गैस्तरङ्गैर्नीरैरन्तर्गभीरैश्चटुलबटुलबककुलग्रासलीनैश्च मीनैः ।
पालीरूढद्रुमालीतलसुखशयितस्त्रीप्रणीतैश्च गीतैर्भाति प्रक्रीडदातिस्तव सचिव ! चलच्चक्रवाकस्तटाकः ॥