This page has not been fully proofread.

5
 

 
१०२
 

 
प्रबन्धचिन्तामणिः ।
 

 
२२०. यशोवीर यशोमुक्ताराशेरिन्दुरसौ शिखा । तद्रक्षणाय रक्षायाः श्रीकारो लाञ्छनच्छलात् ॥

२२१. बिन्दवः श्रीयशोवीर शून्यमध्या निरर्थकाः । संख्यावन्तो विधीयन्ते त्वयैकेन पुरस्कृताः ॥

२२२. यशोवीर लिखत्याख्यां यावच्चन्द्रे विधिस्तव । न माति भुवने तावदाद्यमप्यक्षरद्वयम् ॥
 

 
[१६३] {नि माघः श्लाघ्यते कैञ्चिन्नाभिनन्दो न नन्द्यते । निष्कलः कालिदासोऽपि यशोवीरस्य सन्निधौ ॥

[१६४] प्रकाश्यते सतां साक्षाद्यशोवीरेण मन्त्रिणा । मुखे दन्तधुता ब्राह्मी करे श्रीः स्वर्णमुद्रया ॥

[१६५] + अर्जितास्ते गुणास्तेन चाहुमानेन्द्रमत्रिणा । विधेरब्धेश्च नन्दिन्यौ यैरनेन नियत्रितो ॥

[१६६] 'लक्ष्मीर्यत्र न वाक् तत्र यत्र ते विनयो नहि । यशोवीर महच्चित्रं सा च सा च स च त्वयि ॥

[१६७] वस्तुपाल-यशोवीरौ सत्यं वाग्देवतासुतौ । एको दानखभावोऽभृदुभयोरन्यथा कथम् ॥ }

॥ इति श्रीशत्रुञ्जयादितीर्थानां यात्राप्रबन्धः ॥
 

 
[ चतुर्थः
 

 
30
 

 
10 १८९) अथ श्रीवस्तुपालस्य स्तम्भतीर्थे सइदनाम्ना नौवित्तकेन समं विग्रहे सञ्जायमाने श्रीभृ

गुपुरान्महासाधनिकं शङ्खनामानं श्रीवस्तुपालं प्रति बालकालरूपमानीतवान् । स जलधिकूले दत्त-

निवासो नगरप्रवेशमार्गान् शङ्कुसङ्कीर्णितानालोक्य व्यवहारिणां वित्तानि यानपात्रप्रणयीनि च

वीक्ष्य प्रहितैर्षन्दिभिः श्रीवस्तुपालेन समं समरवासरं निर्णीय यावच्चतुरङ्गसैन्यं सन्नह्यते

च्छ्रीवस्तुपालेन पुरः कृतो गुडजातीयो भूर्णपालनामा सुभटो 'यदि शङ्खमन्तरेणाहं प्रहरामि

15 तदा कपिलां धेनुमेवे' ति वारवर्णिकापूर्वं 'कः शङ्ख ?' इति तद्वचनादनु शङ्खोऽहमिति प्रतिसुभ-

टेनोदिते तं घातेन निपात्य पुनरनयैव रीत्या द्वितीये तृतीयेऽपि पातिते सति 'कथं समुद्रसामी-

प्यात् शङ्कबाहुल्यमि'त्युच्चरन् महासाघनिकशङ्खेनैव तत्सुभटतां श्लाघमानेनाहृतः, कुन्ताग्रेण

प्रहरन, सतुरग एकेनैव प्रहारेण व्यापादितः । तदनु श्रीवस्तुपालेन समराङ्गणप्रणयिना केसरि-

किशोरेणेव शङ्खसैन्यं गजयूथमिव त्रासितं दिशो दिशमनेशत् । [पश्चान्नौवित्तको मारितः सइ-

20 यद इति* ।] तदनु भ्रूणपालमृत्युस्थाने भूणपालेश्वरप्रासादो मन्त्रिणा कारितः ।
 

 
,
 

 
( अत्र I' आदर्श निम्नगता अधिकाः श्लोका लभ्यन्ते )
 

 
[१६८] काण्डानां सह कोदण्डगुणैः सन्धिरजायत । तेषां वीरप्रकाण्डानां विग्रहस्तु परस्परम् ॥

[१६९] कर्णे लगद्भिरन्येषामन्येषां जीवितव्ययम् । कुर्वाणविंदधे बाणैः स्पष्टं दुर्जनचेष्टितम् ॥

[१७०] विहाय शरधिं वेगाचापमापुः शिलीमुखाः । चिह्नमेतत्सपक्षाणां विधुरे यत्पुरःस्थितिः ॥

25 [१७१] वक्षो विक्षिप्य वैपक्षं पत्रिणः परतो गताः । न चिरं निर्गुणैर्लभ्या धीराणां हृद्यवस्थितिः ॥

[१७२] मन्त्रीशकरसंसर्गादिव दानार्थमुद्यतः । असिरुत्सृष्टवान् कोशं बद्धमुष्टिरपि क्षणात् ॥

[१७३] वीराणां पाणिपादाब्जैः पूजितेवाहवक्षितिः । दत्तार्थेव च दूर्वाभाकेशमिश्रः शिरः फलैः ॥

१९०) अथान्यस्मिन्नवसरे श्रीसोमेश्वरस्य कवेः काव्यम्' -
 

 
२२३. हंसैर्लब्धप्रशंसस्तरलिर्तंकमलप्रत्तरङ्गैस्तरङ्गैर्नीरैरन्तर्गभी रैबटुलबककुलग्रासलीनैश्च मीनैः ।
 

 
पालीरूढद्रुमालीतलसुखशयितस्त्रीप्रणीतैश्च गीतैर्भाति प्रक्रीडदातिस्तव सचिव ! चलच्चक्रवाकस्तटाकः ॥
 

 
+ एते श्लोकाः P आदर्श एवोपलभ्यन्ते । 1 P• प्रवेशान् । 2 D शत्रु० ।
 

 
3A भउण; D लूण; D& भवण ।

4 D नास्ति । 5P कृपाणप्रहारेण । * BP आदर्शे नोपलब्धमिदं वाक्यम् । 6 P नास्ति; B देवस्य । 7 BP नास्ति ।

8P ●बिलुलित● । 9 A दूति; D दुर्मि० ।