This page has been fully proofread twice.

वप्रं, तथा तन्मध्ये श्रीमदाशराजविहारं, तथा कुमारदेवीसरश्च, निरुपमं विलोक्य धवलगृहे
'पादोऽवधार्यतामि'ति नियुक्तैरुच्यमाने 'श्रीमद्गुरूणां योग्यं पौषधवेश्मास्ति नास्ति ?' इति मन्त्रिणादिष्टे तन्निष्पाद्यमानमाकर्ण्य विनानयातिक्रमभीरुर्गुरुभिः सह बहिर्दापितावासे तस्थौ । प्रातरुज्जयन्तमारुह्य श्रीशैवेयक्रमकमलयुगलममलमभ्यर्च्य स्वयंकारितश्रीशत्रुञ्जयावतारतीर्थे प्रभूतप्रभावनां विधाय, कल्याणत्रयचैत्ये वर्यसपर्यादिभिस्तदुचितीमाचर्य, स मन्त्री यावत्तृतीये दिनेऽवरोहति तावदुभाभ्यां दिनाभ्यां निष्पन्ने पौषधौकसि मन्त्रिणा समं गुरवस्तत्र समानीतास्तान्
प्रशशंसुः; पारितोषिकदानेनानुजगृहुः । श्रीमत्पत्तने प्रभासक्षेत्रे चन्द्रप्रभं प्रभावनया प्रणिपत्य यथौचित्यादभ्यर्च्य च निजेऽष्टापदप्रसादेऽष्टापदकलशं समारोप्य तत्रत्यदेवलोकाय दानं ददानः,
प्रभुश्रीहेमाचार्यैः श्रीकुमारपालनृपतये जगद्विदितं श्रीसोमेश्वरः प्रत्यक्षीकृत इति पञ्चदशाधिकवर्षशतदेश्यधार्मिकपूजाकारकमुखादाकर्ण्य तच्चरित्रचित्रितमना व्यावृत्तमानो मार्गे लिङ्गोपजीविनामसदाचारेणान्नदाने निषिद्धे तत्पराभवं विज्ञाय वायटीयश्रीजिनदत्तसूरिभिर्निजोपासकपार्श्वात्तस्मिन्क्षणे पूर्यमाणे सति दर्शनानुनयार्थं तत्र समागताय मन्त्रिणे --
 
२१४. रत्नाकर इव क्षारवारिभिः परिपूरणात् । गम्भीरिमाणमाधत्ते शासनं लिङ्गधारिभिः ॥
 
२१५. यान् लिङ्गिनोऽनुवन्दन्ते संविग्ना अपि साधवः । तदर्चा चर्च्यते कस्माद्धार्मिकैर्भवभीरुभिः ॥
 
२१६. प्रतिमाधारिणोऽप्येषां त्यजन्ति विषयं पुरः । लिङ्गिनां विषयस्थानामनर्चा तु विरोधिनी ॥
 
२१७. लिङ्गोपजीविनां लोके कुर्वन्ति येऽवधीरणाम् । दर्शनोच्छेदपापेन लिप्यन्ते ते दुराशयाः ॥
 
आवश्यकवन्दनानिर्युक्तौ --
 
२१८. तित्थयरगुणा पडिमासु नत्थि निस्संसयं वियाणन्तो । तित्थयरोति नमन्तो सो पावइ निजरं विउलं ॥
 
२१९. लिङ्गं जिणपन्नत्तं एव नमंसन्ति निजरा विउला । जइवि गुणविप्पहीणं वन्दइ अज्झप्पसुद्धीए ॥
 
इति तदुपदेशान्निर्मार्जितसम्यक्त्वदर्पणो विशेषाद्दर्शनपूजापरः स्वस्थानमासदत् ।
 
१८८) अथ ज्यायसा सोदरेण मं० लूणिगनाम्ना परलोकप्रयाणावसरे'ऽर्वुदे विमलवसहिकायां मम योग्या देवकुलिकैका कारयितव्ये'ति धर्मव्ययं याचित्वा तस्मिन्विपन्ने तद्गोष्टिकेभ्यस्तद्भुवमलभमानश्चन्द्रावत्याः स्वामिनः पार्श्वान्नव्यां भूमिं विमलवसहिकासमीपेऽभ्यर्थ्य तत्र श्रीलूणिगवसहिप्रासादं भुवनत्रयचैत्यशलाकारूपं कारयामासिवान् । तत्र श्रीनेमिनाथबिम्बं संस्थाप्य प्रतिष्ठितम् । तद्गुणदोषविचारणाकोविदं श्रीजावालिपुराच्छ्रीयशोवीरमन्त्रिणं समानीय मन्त्री प्रासादस्वरूपं पप्रच्छ । तेन प्रासादकारकसूत्रधारः शोभनदेवोऽभ्यधायि -- 'रङ्गमण्डपेषु शालभञ्जिकामिथुनस्य विलासघाटस्तीर्थकृत्प्रासादे सर्वथानुचितः, वास्तुनिषिद्धश्च । तथा गर्भगृहप्रवेशद्वारे सिंहाभ्यां तोरणमिदं देवस्य विशेषपूजाविनाशि । तथा पूर्वपुरुषमूर्त्तियुतगजानां पुरतः प्रासादः कारापकस्यायतिविनाशी । इत्यप्रतीकारार्हं दूषणत्रयं विज्ञस्यापि सूत्रभृतो यदुत्पद्यते स भाविकर्मणो दोषः' इति निर्णीय स यथागतमथोगतः । तदुपश्लोकनश्लोका एवम् --