2023-12-21 07:07:05 by Bharadwajraki
This page has been fully proofread twice.
[१६०] येन पौषधशालास्ताः कारितास्तारितात्मना । मध्ये श्वेताम्बरैर्यासां विशुद्धिः सुधया बहिः ॥
[१६१] यस्य पौषधशालासु यतयः संवसन्ति ते । सदा येषामदाराणामात्मभूसम्भवः कुतः ॥
[१६२] ज्ञानाख्यं यस्य तच्चक्षुर्वाचां देवी ददे मुदा । नित्यं येनैष धर्मस्य गतिं सूक्ष्मामपीक्षते ॥
१८७) अथ सं० १२७७ वर्षे सरस्वतीकण्ठाभरण-लघुभोजराज-महाकवि-महामात्य-श्रीवस्तु-पालेन महायात्रा प्रारेभे । गुरूपदिष्टे लग्ने तत्कृतसङ्घाधिपत्याभिषेकेण श्रीदेवालयप्रस्थाने उपक्रम्यमाणे दक्षिणपक्षे दुर्गादेव्याः स्वरमाकर्ण्य स्वयं तद्विदा शाकुनिकेन किञ्चिच्चिन्तयति । कश्चिन्मरुवृद्धः 'शकुनं भारितं विधेही'त्यभिदधानः, शकुनाच्छन्दो बलीयानिति विचार्य पुराद्बहिरावासेषु श्रीदेवालयं संस्थाप्य शकुनव्यतिकरं पृष्टो मार्गवैषम्ये शकुनानां वैपरीत्यं श्लाघ्यते । राज्यविकलतायां तीर्थमार्गाणां वैषम्यम् । तथा यत्र सा दुर्गा दृष्टिपथं गता तत्र कमपि दक्षं पुरुषं प्रस्थाप्य स प्रदेशो दर्श्यताम् । तथाकृते स पुरुष इति विज्ञपयामास -- 'यत्तस्मिन् वरण्डके नवीक्रियमाणे सार्द्धत्रयोदशे घरे (गृहे ?) निषण्णा देव्यभूत् ।' अथ स मरुवृद्धो 'देवी भवतः सार्द्धत्रयोदशसंख्या
यात्रा अभिहितवती ।' अन्त्यार्द्धयात्राहेतुं भूयः पृष्टे स प्राह -- 'इहातुलमङ्गलावसरे तद्वक्तुं न युक्तम् । समये सर्वं निवेदयिष्यामी'ति वाक्यानन्तरं श्रीसङ्घेन समं स मन्त्री पुरतः प्रयाणमकरोत् । सर्वसंख्यया--वाहनानामर्द्धपञ्चमसहस्राणि, एकविंशतिशतानि श्वेताम्बराणाम्, त्रिशती दिग्वाससाम्;
सङ्घरक्षाधिकारे सहस्रं तुरङ्गमाणाम् सप्तशती रक्तकरभीणाम्, सङ्घरक्षाधिकारिणश्चत्वारो महासामन्ताः । इत्थं समग्रसामग्र्या मार्गमतिक्रम्य श्रीपादलिप्तपुरे स्वयं कारिते श्रीमहावीरचैत्यालङ्कृतस्य श्रीललितसरसः परिसरे आवासान् दापयामास । तत्र तीर्थाराधनां विधिवद्विधाय मूलप्रासादे काञ्चनकलशम्, प्रौढजिनयुगलम्, श्रीमोढेरपुरावतार-श्रीमन्महावीरचैत्याराधकमृर्त्ति-देवकुलिकामूलमण्डपश्रेणेरुभयतश्चतुष्किकाद्वयपङ्क्ति-शकुनिकाविहार-सत्यपुरावतार-चैत्यपुरतो रजनमूल्यं तोरणम्, श्रीसङ्घयोग्या मठाः, जामि सप्तकस्य देवकुलिकाः, नन्दीश्वरा-वतारप्रासादः, इन्द्रमण्डपश्च; तन्मध्ये गजाधिरूढश्रीलवणप्रसाद-वीरधवलमूर्ती, तुरङ्गाधिरूढे निजमूर्ती, तत्र सप्त पूर्वपुरुषमूर्तयः, सप्तगुरुमूर्तयश्च तत्सन्निधौ चतुष्किकायां ज्यायोभ्रात्रोर्महं० मालदेव-लूणिगयोराराधकमूर्ती, प्रतोली, अनुपमासरः, कपर्दियक्षमण्डपतोरणप्रभृतीनि बहूनि धर्मस्थानानि रचयांचक्रे । तथा नन्दीश्वरकर्मस्थाये कण्टेलीयापाषाणसत्कजातीयषोडशस्तम्भेषु पावकपर्वतात् जलमार्गेणानीयमानेषु समुद्रकण्ठोपकण्ठे उत्तार्यमाणेषु, एककः स्तम्भस्तथा पङ्के निमग्नः यथा निरीक्ष्यमाणोऽपि न लभते । तत्पदेऽपरपाषाणस्तम्भेन प्रासादः प्रमाणकोटिं नीतः । वर्षान्तरे वारिधिवेलावशात्पङ्कनिमग्नः स एव स्तम्भः प्रादुरासीत् । सचिवसमादेशात्तस्मिंस्तत्र सञ्चार्यमाणे प्रासादो विदीर्ण इति निवेदितुमागताय परुषभाषकायापि पुरुषाय हैमीं जिह्वां स मन्त्री ददौ । दक्षैः किमेतदिति पृष्टे 'अतः परं तथा कथञ्चिद्धर्मस्थानानि दृढानि कारयिष्यन्ते यथा युगान्तेऽपि तेषां नान्तो भवति । अतः पारितोषिकं दानम् । आमूलात्तृतीयवेलायामयं प्रासादः समुद्धृतो विजयते । श्रीपालिताणके च विशालां पौषधशालां कारयामास । श्रीमदुज्जयन्ते च श्रीसङ्घेन सह प्राप्तो मन्त्री । तत्र च तदुपत्यकायां तेजलपुरे स्वकारितं नव्यं
[१६१] यस्य पौषधशालासु यतयः संवसन्ति ते । सदा येषामदाराणामात्मभूसम्भवः कुतः ॥
[१६२] ज्ञानाख्यं यस्य तच्चक्षुर्वाचां देवी ददे मुदा । नित्यं येनैष धर्मस्य गतिं सूक्ष्मामपीक्षते ॥
१८७) अथ सं० १२७७ वर्षे सरस्वतीकण्ठाभरण-लघुभोजराज-महाकवि-महामात्य-श्रीवस्तु