This page has been fully proofread twice.

१७४) सं० १२३० वर्षेऽजयदेवो राज्येऽभिषिक्तः ।
 
( एतद्वर्णनात्मकाऽपि P आदर्श एते विशिष्टाः लोकाः प्राप्यन्ते -- )
 
[१३९] { भूपालोऽजयपालोऽभूत्कल्पद्रुमसमस्ततः । चक्रे वसुन्धरा येन काञ्चनैरनकिञ्चना ॥
 
[१४०] दण्डे मण्डपिका हैमी सह मत्तैर्मतङ्गजैः । दत्त्वा पादं गले येन जाङ्गलेशादगृह्यत ॥
 
[१४१] जामदग्न्य इवोद्दामधामभर्त्सितभास्करः । क्षत्रास्रक्षालितां धात्रीं श्रोत्रियत्रा चकार यः ॥
 
[१४२] दानानि ददतो नित्यं नित्यं दण्डयतो नृपान् । नित्यमुद्वहतो नारीर्यस्यासीत् त्रिगणः समः ॥ }
 
[१४३] धृतपार्थिवनेपथ्ये निष्क्रान्तेऽत्र शतक्रतौ । जयन्ताभिनयं चक्रे मूलराजस्तदङ्गजः ॥
 
१७५) अस्मिन् अजयदेवे पूर्वजप्रासादान् विध्वंसयति सति सीलणनामा कौतुकी नृपतेः पुरः प्रारब्धेऽवसरे कृतकामपटुतां मायया निर्माय तत्र स्वकल्पितं तृणमयं देवकुलपञ्चकं पुत्रेभ्यः समर्प्य 'ममानन्तरं भक्त्यतिशयेनाराधनीयमि'त्यनुशिष्यान्त्यावस्थायां यावदास्ते तावत्तेन लघुपुत्रेण तत्तूर्णं चूर्णितमाकर्ण्य 'रे पुत्राधम ! श्रीमदजयदेवेनापि पितुः परलोकानन्तरं तद्धर्मस्थानानि विध्वंसितानि, त्वं त्वधुनैवं मयि विद्यमानेऽपि चूर्णयन् अधमाधमतां गतोऽसी'ति तस्य तदवसरालापेन सत्रपो नृपस्तस्मादसमञ्जसाद्विरराम । तिद्दिनावशिष्टाः श्रीकुमारविहारा अद्यापि दृश्यन्ते । श्रीतारङ्गदुर्गे अजयपालनाम्ना अजितनाथो धूर्तैरित्युपायेन रक्षितः ।
 
१७६) तदनु श्रीअजयदेवेन श्रीकपर्द्दिमन्त्री महामात्यपदं दातुमत्यर्थमभ्यर्थितः । 'प्रातः शकुनान्यवलोक्य तदनुमत्या प्रभोरादेशमाचरिष्यामी'त्यभिधाय शकुनगृहं गतः । ततः सप्तविधं दुर्गादेव्याः याचितं शकुनमवाप्य तच्छकुनं पुष्पाक्षतादिभिरभ्यर्च्य कृतकृत्यं मन्यमानः पुरगोपुरान्तः प्राप्तो नदन्तं वृषभमीशानदिग्भागे विलोक्यातिशयस्मेरमनाः स्वं निवासमासाद्य भोजनानन्तरं मरुवृद्धेन यामिकेन शकुनस्वरूपं पृष्टः श्रीकपर्दी तदग्रे तत्स्वरूपमादिश्य तांस्तुष्टाव । ततो मरुवृद्धः --
 
२०६. नद्युत्तारेऽध्ववैषम्ये दुर्गे संनिहिते भये । नारीकार्ये रणे व्याधौ विपरीता प्रशस्यते ॥
 
इति प्रामाण्याद्भवानासन्नव्यसनतया मतिभ्रंशात्प्रतिकूलमप्यनुकूलं मनुषे । यस्तु वृषभो भवता शुभः परिकल्पितः सोऽपि भवद्व्यापत्या शिवस्याभ्युदयं पश्यंस्तद्वाहनोक्षा जगर्ज। इति तदुक्तिमवमन्यमाने तस्मिन्नापृच्छ्य तीर्थान्यवगाढुं गते, स नृपतिना प्रसादीकृतां मुद्रामासाद्य महता
महेन समधिगतनिजसौधे विश्रम्य निशि नृपतिना विधृतः समानप्रतिष्ठैरभिभवितुमारब्धः ।
 
२०७. जो करिवराण कुम्भे पायं दाऊण मुत्तिए दलइ । सो सीहो विहिवसओ जम्बूयपयपिल्लणं सहइ ॥
 
इत्यादि विमृशन्कटाहिकायां प्रक्षेपकाले --
 
२०८. अर्थिभ्यः कनकस्य दीपकपिशा विश्राणिताः कोटयो वादेषु प्रतिवादिनां विनिहिताः शास्त्रार्थगर्भा गिरः ।
उत्ख़ातप्रतिरोपितैर्नृपतिभिः शारैरिव क्रीडितं कर्त्तव्यं कृतमर्थिता यदि विधेस्तत्रापि सज्जा वयम् ॥
 
स सुधीरिति काव्यमधीयंस्तथैव व्यापादयांचक्रे ।
 
॥ इति मन्त्री श्रीकपर्दिप्रबन्धः ॥